This page has been fully proofread once and needs a second look.

तश्व 'ब्राह्मणोंणो न हन्तव्य' इत्यस्य निषेधस्य निवृत्तिनियमबोधकत्वम्,
'व्रीहीनवहन्या' दित्यस्येवावघातनियमबोधकत्वम् । यथा खलु 'व्रीहीनवह-
न्या' दिति शास्त्रं वैतुष्यार्थमवघाते स्वतः प्रवृत्तं पुरुषं प्रति न प्रवर्त्तते,
वैयर्थ्यात्, किन्तु दलनादौ प्रवृत्तं प्रति, एवं 'न हन्या' दिति शास्त्रं हननात्
स्वयं निवृत्तं पुरुषं प्रति न प्रवर्तते, वैयर्थ्यात्। किंतु हनने प्रवृत्तं पुरुषं
प्रति कर्तव्यत्वेन प्रसक्तस्य प्रतिषेधात्-यत् कर्तव्यं तन्नेति
 
[commentary]
 
तथापि विशेषणांशैशे बलवदनिष्टाननुबन्धित्वे भ्रमसत्त्वात् निषेधेन तन्निवारणात् विशिष्टामाभा-
वसम्पादकतया तस्य प्रवृत्तिविघटकत्वं बोध्यम् । ततः निषेध्यहननादितः
 
निवृत्तिनियमबोधकत्वमिति । निवृत्तेर्यो नियमः श्रप्राप्तांशपूरणं तद्बोधकत्व मि-
त्यर्थः । अयमाशयः - -यथा विधेः अपूर्वविधित्व नियम नियमविधित्व परिसंख्या विधित्वरूपं
शैत्रैविध्यमस्ति, एवं निषेधेष्वपि अपूर्वनिषेधः, नियमनिषेधः, परिसंख्या निषेधश्चेति त्रैवि-
ध्यमस्ति, तत्र अवहनन नियम नियमविधिः स्वत एवावहनने प्रवृत्तपुरुषविषये न प्रर्वतते
किन्तु वहननमुज्झित्वा य उपायान्तरेण वैतुष्यं सम्पादयितुमारभते तदानीमवहन-
नस्य योऽप्राप्तोंऽशः तत्पूरक एव यथा भवति तथैव नियमनिषेधोऽपि स्वत एव निवृत्त-
पुरुषविषये न प्रवर्तते, तत्र प्रयोजनाभावात् । न च निषेधश्रवणं विना पुरुषस्य स्वतो.-
निवृत्तिर्नास्त्येवेति वाच्यम् । हिंसादिनेव तद्वर्जनेनापि पुरुषस्य कदाचिदीप्सितसम्भ-
वात् । किन्तु यो रागादिना निषेध्यकर्मसु हननादिषु प्रवर्तते तदानीं निवृत्तेर्योऽप्राप्तोंऽशः
सोऽनेन पूर्यत इति । अतश्च नियम विधिस्थलेऽप्राप्तांशपूरकत्वात् प्रवृत्तिनियमवत् निय-
मनिषेस्थलेऽप्यप्राप्तांशपूरकत्वात् निवृत्तिनियम इत्युच्यत इति । एवञ्च रागप्राप्त-
विषयक निषेधस्त्वावच्छिन्नस्य नियमनिषेधत्वमित्युक्तं भवति । अपूर्वनिषेवाःधाः "नाति-
रात्रे षोडशिनं गृह्णाति" "दीक्षितो न ददाति" "न तो पशौ करोति" इत्या-
दयो बोध्याः
 
96"

 
वस्तुतस्तु - -परिसङ्ख्यास्सूत्रे "सर्वत्र हि परिसंख्याशब्दादेवकाराद्वा न
श्रुत्या परिसंख्या नियमो वा बोध्यत" इति वार्तिकस्वारस्यात् सर्वे निषेधाः परि-
संख्यापदे नै वाभिधीयन्ते । न तु विधाविव तत्राप्यपूर्वविधित्वादिकृतो मेभेस्समस्तीत्यवग-
म्यते । अत एव विधिरसायने [^१]द्वि चरवारिंशच्छ्लोकव्याख्यानावसरे - -"अर्थाद्वा
स्वविषयप्रच्युतात् लाक्षणिकशब्दाद्वा एवकाराद्वा नञ्पदाद्वा लभ्यो यस्य
कस्यापि भावस्याभावस्य वा यो बाधः स सर्वोऽपि परिसंख्येति मर्यादां
कुर्महे", इत्यभिधाय तत्रैवावसाने "तस्मादार्थो लक्ष्य एवकारप्रतिपाद्यो
नञर्थभूतश्च सर्वोऽपि निषेधः परिसंख्येति युक्तम् । उक्तञ्च न्यायसुधायां-
परिसंख्यावर्जनबुद्धिः तदर्थो नजाञादिः परिसंख्याशब्दः तद्योगात् 'ब्राह्मणो
न हन्तव्यः' 'नेक्षेतोद्यन्तमादित्य' मित्यादीनामेव श्रुत्या परिसंख्यात्वमिति"
इत्युपसंहरन्ती दीक्षितोक्तिरपि साधु सङ्गच्छते । इममेव चाशयं "तेन प्रवर्तकयो-
,
 
[^१] यद्यपि विधिरसायनस्थइश्लोकपरिगणनायां श्लोकोऽयं त्रिचत्वारिंशत्तमः, तथापि ग्रन्थकृता द्विती.-
यश्लोकमारग्भ्यैव श्लोकानां संख्यातत्वात् तदनुरोधेनेदम्