This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनीव्याख्यासंवलितः
 
१६७
 
अत एव "नान्तरिक्षे न दिवी" त्यस्य न प्रतिषेधत्वम्, अन्तरिक्षे चयना-

प्राप्तेः । अत एव "ब्राह्मणो न हन्तव्य" इत्यस्य नित्यवद्धनननिवर्तकत्वमुपप-

द्यते । सर्वो हि पुरुषः कदाचिद्धननादौ प्रवर्तते; कदाचिच्च ([^)] रागाद्यभावे न

प्रवर्तते । तत्र यदि निषेधस्य प्राप्तिसापेक्षत्वं न स्यात् तदा ([^)] रागादि तिरो-

थाय हननादाव प्रवृत्तं प्रत्येव शास्त्रप्रामाण्योपपत्तौ रागादिना हननादौ प्रवृत्तेन

पुंसा न ततो निवर्तितव्यम् ।
 

 
प्राप्तिसापेक्षत्वे तु स्वयमप्रवृत्तं प्रति प्रसत्याभावेन निषेधशास्त्राप्रवृत्तेः

रागादिना प्रवृत्तं प्रत्येव भ्रान्तिनिमित्तरागबाधेन निषेधशास्त्रप्रवृत्तेर्युक्ता

प्रवृत्तस्य ततो निवृत्तिः ।
 
-
 

 
[commentary]
 
एवञ्च यत्र तादृशी प्राप्तिर्नाहित तत्र श्रुतस्यापि न नञः प्रतिषेधकत्वमित्याह -

अत एवेति । प्रतिषेधस्य प्राप्तिसापेक्षत्वा देवेत्यर्थः । नान्तरिक्ष इति । अन्तरिक्षे.

( ऽग्निचयनं न कुर्यात्, धुलोके चाग्निचयनं न कुर्यादिति तदर्थः । चयनं नामाहवनीय-

स्याग्नेः स्थापनार्थमिष्टकाभिः स्थण्डिल विशेषसम्पादनम् । अत्रच 'नान्तरिक्षे' इत्यादि

न चयन निषेधार्थम् । किन्तु 'हिरण्यं निधाय चेतव्य' मित्यस्य विधेश्शेषभुतम् ।

यथान्तरिते दिवि वा चयनं न प्रसिद्धं, एवं हिरण्यरहितायां केवलायामपि पृथिव्याम् ।

तो हिरण्यं भूमौ निघाय तदुपर्येव चयनं कर्तव्यमित्यौचित्येन हिरण्यनिधानम्तुतिः ।

कुतो न चयननिषेधः ? प्रत श्राह चयनाप्राप्तेरिति । तस्य भूमावेब कर्तुं शक्यतया

[[अन्तरिक्षयुलोकयोः कर्तुमशक्यत्वेन तत्र प्राप्तेरेवाभावादित्यर्थः । अत एव निषेधस्य

प्राप्तविषये प्रवृत्तिस्वाभाव्यादेव । नित्यवदिति । नित्यतयेत्यर्थः । तदेवोपपादयति -

सर्वो हीति । हननादावित्यादिपदेन निषिद्धकर्माणि गृह्यन्ते । तिरोधाय प्रतिरुध्य ।

• शास्त्रेतिनिषेधवाक्याभिप्रायम् । नेति । प्रवृत्त्यभावस्थलमादाय चरितार्थस्य शास्त्रस्य

रागप्राप्त प्रवृत्तिबाधे प्रमाणाभावात् । प्रतश्थ नित्यवद्धनननिवर्तकत्वं नोपपद्येतेति भावः ।
 

 
भवत्पक्षे वा कथं नित्यतया हनननिवृत्तिः ? श्रत आह-प्राप्तीति । स्वयमिति ।

शास्त्रं विनेत्यर्थः । श्रप्रवृत्तं ( पुरुषं ) प्रति निषेधशास्त्राप्रवृत्तरित्यन्वयः । तत्र हेतुः

प्रसत्यभावेनेति । ननु अस्तु रागादिना प्रवृत्तपुरुषविषय एव निषेधशास्त्राणां

प्रवृत्तिः, तथापिं कथं तस्य नित्यतया हननादिनिवर्तकत्वम् । तादृशस्थले रागादिकमुप-

जीव्यैव खलु निषेधशास्त्रं प्रवर्तत इति वक्तव्यम् । ततश्च स्वतो दुर्बलस्याप्युपजीव्यत्वेन

प्राबल्यमश्नुवतो रागादेः निषेधश! स्त्रतो निवृत्तिरात्यन्तिकी न सम्भवत्येवेति विकल्प एव

युक्त इत्यत आाह - भ्रान्तोति । हननादिविषयक बलवद निष्ठान नुबन्धित्व विशिष्टेष्टसाधन-

त्वभ्रमादित्यर्थः । प्रवृत्तौ हि तद्विषयीभूते व्यापारे बलवद निष्टाननुबन्धिरव विशिष्टेष्टसाधन-

ताज्ञानं कारणम् । तच्च निषेधशास्त्रानालोचनदशायां कलजभक्षणादौ भ्रमादुदेति ।

तदान शास्त्रप्रवृत्तौ तेन पूर्वोत्पन्नज्ञाने भ्रमत्वमापाद्यते । अतश्चोपजीव्यस्थापि

भ्रमात्मकस्योत्तरोत्पन्न प्रमाण ज्ञानेन युक्त प्रात्यन्तिको बाघ इति भावः । यद्यपि

इष्टसाधनत्वांशे न भ्रान्तिः, तात्कालिक तृप्तिरूपेष्टसाधनस्वस्य कलजभक्षणादौ सत्वात्,
 

 
[^
.] रागाद्यभावेन निवर्त्तते ।
 

 
[^
.] 'रागाविरोधाय' इति तु पाठो न साधीयान् ।