This page has not been fully proofread.

मीमांसान्यायप्रकाशः
 
[ पर्युदास -
 
तथा हि-यद्यत्र प्रधान सम्बन्धलोभान्नञः प्रत्ययसम्बन्धः स्वीक्रियते तथा

सत्यनेन वाक्येनानूयाजेषु येयजामहः प्रतिषिध्यते इति वक्तव्यम्-अनूयाजेषु

येयजामहं न कुयादिति । न च तत्र तस्य प्रतिषेधः प्राप्ति विना सम्भवति,

प्राप्तिसापेक्षत्वात् प्रतिषेधस्य ।
 

 
[commentary]
 
"वौषडि" तिं वषट्कारमुच्चारयेत् । अत्र च 'श्राश्रावये' त्यक्षरचतुष्टययुक्तम् । 'अस्तु

श्रौषट्' इत्यपि तथैव । 'यजे' ति 'वौषट्' इति च द्वयक्षरम् । 'ये यजामहे' इत्यक्षरप-

श्चकम् । इमानि च सप्तदशाक्षराणि सर्वेष्वपि यजतिचोदनाचोदितेषु पठनीयानि । यज.

तिचोदनाचोदितस्वं च यजधातुघटितपदघटक प्रत्यय विहितत्वम् । श्रावयेत्यादीना.
 

 
मर्थो विश्वतो वेदार्थप्रकाशे सायणाचार्यैः- श्राश्रावयेति । हे आग्नीघ्र यक्ष्यमाणदेवतां

प्रति 'तुभ्यमिदं दीयत' इत्याभिमुख्येन श्रावयेत्यर्थः । अस्तु श्रौषडिति । एवमध्वर्यु •

णोक्ते स ाग्नीध्रः 'अस्तु' इत्यङ्गीकृत्य "श्रौषट्" इति शब्देन श्रावयति । हे देवाः

युष्मद्विषयमिदं ह॒विर्दानं शृणुतेत्यर्थः । यजेति । हे होतः यज याज्यां पठेत्यर्थः । ये

यजामह इति । ये वयं होतारोऽध्वर्युणा यजेति प्रेषिताः ते वयं यजामहे याज्यां पठाम

इत्यर्थः । वषट्कारशब्देन 'वौषडि'त्येवंरूपो मन्त्रो विवक्षितः । हविर्दीयत इति तस्य

शब्दस्यार्थ इति । अतश्चानारभ्याधीतवाक्ये यागसामान्योद्देशेन येयजामहो विधीयते ।

'नानूयाजेष्वि'ति वाक्येन अनूयाजव्यतिरिक्तेषु यागेषु येयजामहः कर्तव्यतया बोध्यते ।

एवञ्चानारभ्यवाक्यनानूयाजवाक्ययोरेकवाक्यतामङ्गीकृत्य अनुयाजव्यतिरिक्तेषु यागेषु

येयजामहः कर्तव्य इति विधिरित्यर्थः ।
 
20
 

 
नन्वत्र कथं विकल्पप्रसक्तिः ? येन प्रतिषेध प्राश्रीयते, तदुपपादयति-तथा होति ।

ये यजामहं न कुर्यादिति । 'ये यजामहे' इति पदद्वयं नोच्चारयेदित्यर्थः । एवञ्चा-

नूयाजेषु 'देवं बर्हिर्वसुवने वसुधेयस्य वेतू ३ वौषट्' इत्येव ब्रूयादिति फलितम् ।

प्राप्तिसापेक्षत्वादिति । प्रतिषेधो हि यत्किञ्चित्प्रतियोगिकाभावबोधनम् । तच्चाभाव •

ज्ञानमन्तरा न सम्भवति, सर्वत्राभावज्ञानं प्रति प्रतियोगिज्ञानस्य कारणत्वात् । तच्च प्रति-

योगिज्ञानं यदधिकरणे निषेधः तदधिकरणेऽपेदयते । अन्यथा यत्र कुत्रापि प्रसिद्धस्यात्र

निषेधे निषेधानां प्रसक्तपुरुषनिवृत्ति प्रयोजनकत्वाभावेन वैयर्थ्यापत्तेः । न च हृदे वह्नि

प्रसिध्यभावेऽपि अन्यत्र प्रसिद्धिमादायैव हृदे वह्निर्नास्तीति प्रयोगवत् अन्यत्र यागेषु

प्रसिद्धयेयजामहमादायैव तदभावोऽत्र बोध्यतामिति वाच्यम् । सर्वत्र निखिलकार कवि

शिष्टाख्यातार्थ एवं प्रतियोगितासम्बन्धेन नञर्थान्वयस्यौत्सगिंकत्वेन तदभावस्यैव तत्र

प्रतीतेः श्रनुयाजाधिकरण कयेयजामहानुकूलकृतेरेव तत्र प्रतियोगितया तत्प्रसिद्धिं बिना

तदभाव विषयकशाब्दबोधस्यैवाजननात् तत्सिध्यर्थं अनूयाजेषु येयजामहप्रसिद्धेरावश्यक-

त्वात् । हृदे वह्निर्नास्तीत्यत्र तु बाधात् अगत्या वन्ह्यादेरेव प्रतियोगित्वमङ्गीकृत्य तत्प्र.

"तियोगिकामावस्यैवानुयोगिनि हृदादौ बोधनम् । प्रतश्च प्रतिषेधस्थलेऽनुयोगिवृत्तिप्राप्ति.

रवश्यमङ्गीकार्यैवेति भावः ।