This page has been fully proofread once and needs a second look.


[^१] 'नेतेक्षे' इत्यनीक्षणसंकल्पः, तस्येक्षणविरोधित्वात् । सत्यपि पदार्थान्तर-
स्येक्षणविरोधित्वे सर्वक्रियाऽविनाभूतत्वेन संकल्पस्यैव [^२] लक्षणात् स एव
'नेक्षेते' त्यत्र कर्तव्यतया विधीयते - -अनीक्षणसंकल्पेन भावयेदिति । भाव्या-
काङ्क्षायां च "एतावता हैनसा विमुक्तो भवती" ति वाक्यशेषावगतः पापक्षयो
भाव्यतया सम्बध्यते
 
एवञ्चात्र पापक्षयार्थी सङ्कल्पस्य कर्तव्यतया विधानात् 'तस्य व्रत'मित्य-
नेनैकवाक्यता सिद्धा भवति
 
तत्सिद्धं 'नेक्षेते' त्यत्र 'तस्य व्रत' मित्युपक्रमात् पर्युदासाश्रय-
रामिति
IMPI

 
( विकल्पभयात् पर्युदासाङ्गीकरणम् )
'नानूयाजेषु येयजामहं करोती' त्यत्र विकल्पप्रसक्त्या तदाश्रयणम्
 
[commentary]

 
ङ्कायामाह - --सत्यपीति । सत्यं सन्तीक्षणविरोधिनो बहवः पदार्थाः । तथापि न ते
ईक्षणाविनाभूताः, मानससङ्कल्पस्तु सर्वप्रवृत्तिनिवृत्यविनाभूत इति स एव लक्षणीय
इत्याशयवानाह-सर्वकिक्रियेति । भाव्याकाङ्क्षायामिति । श्री। अनीक्षणसङ्कल्पेन भावयेत्
इत्युक्तौ तस्य विहितत्वप्रतीतेः विह्निहितेऽपि तस्मिन्नफले प्रेक्षावतः `प्रवृत्त्यनुदयात् तस्त्सि .-
ध्यर्थेथं भाव्यस्य कस्यचिदपेक्षायां सत्यामित्यर्थः । एतावतेति । एतावतानीक्षणसङ्कल्प -
मात्रेण पापान्मुक्तो भवतीत्यर्थः । वाक्यशेषावगत इति । स्तुत्यर्थं प्रवृत्तस्यापि वाक्य-
शेषस्य फलसमर्पकत्वं रात्रिसत्रवदङ्गीक्रियत इति भावः । पापक्षय इति । श्रक्रस्। अक्रत्वर्थस्य
तस्य ऋतूपकाररूपफलजननायोगात् पुरुषार्थत्वाच्च पुरुषाभिलषितफलस्यैव भाव्यत्वौचि·-
त्याच्चेति भावः । न च 'उद्यन्तमादित्य' मिस्यंत्र उद्यदादित्यस्य पदार्थैकदेशे इंक्षणे
अन्वयानीङ्गीकरणापच्त्त्या एकदेशान्वयनिबन्धनो दोष इति वाच्यम् । मीमांसकमते कार-
काणां प्रथमतो भावनान्वयस्यैव स्वीकारात् तदनापत्तेः, पार्ष्ठिकान्वयवेलायां च समस्त-
पदघटितस्य वाक्यस्यैव कल्पनात् न दोषः । प्रकृतमुपसंहरति-तत्सिद्ध मिति
 
( विकल्पभयात् पर्युदासाङ्गीकरणम् )
 
-
 
-
 
द्वितीयं बाधकमुपपादयति - --नानूयाजेविति । भष्विति। अयमत्र विषयः - --'आश्राव'-
येति चतुरक्षरं, अस्तु औौश्रौषडिति चतुरक्षरं, यजेति द्व्यक्षरं, ये यजामह इति
पश्चाक्षरं, द्वधव्यक्षरो वषट्कारः, एष वै सप्तदशः प्रजापतिर्यज्ञमन्वायत्तः, इत्यना-
रभ्य श्रूयते। अस्यायमर्थः- यदाध्वर्युः यजतिचोदना चोदितेषु कर्मसु हविर्देवेभ्यो दातु-
मुद्द्युङ्ते तदा हविःपूर्णां जुहूं हस्ते गृहीत्वा ग्नीघ्ध्रनामानमृत्विग्विशेषं प्रति प्रैषं ददाति-
श्राश्रावयेति । एवं प्रेषितः स श्रामीभ्आग्नीध्रः "स्तु श्रौषट्' इति प्रतिब्रूयात् । तच्छुछ्रु-
त्वाध्वर्युः तदानीं त्यज्यमानद्रव्योद्देश्यभूत देवतावाचिपदं द्वितीयान्तमुच्चार्य तदन्ते 'यजे'
ति पदं ब्रूयात्, यथा--अग्निं यज, विश्वान् देवान् यज, इत्यादि । तच्छ्रुत्वा च होता
तद्देवताकयाज्यातः पूर्वं "ये यजामहे" इति पदद्वयं ततो याज्यां च पठित्वा तदन्ते
 
--

[^१] कलिकत्तामुद्रितपुस्तके तु नास्तीयं पक्तिः ।
 
[^२] लक्षणा ।