This page has not been fully proofread.

निरूपणम्
[^१
]
 
सारविवेचिनी व्याख्यासंवलितः
 
(१)
'नेते' इत्यनीक्षणसंकल्पः, तस्येक्षणविरोधित्वात् । सत्यपि पदार्थान्तर-

स्येक्षणविरोधित्वे सर्वक्रियाऽविनाभूतत्वेन संकल्पस्यैव ([^)] लक्षणात् स एव

'नेक्षेते' त्यत्र कर्तव्यतया विधीयते - अनीक्षणसंकल्पेन भावयेदिति । भाव्या-

काङ्क्षायां च "एतावता हैनसा विमुक्तो भवती" ति वाक्यशेषावगतः पापक्षयो

भाव्यतया सम्बध्यते ।
 

 
एवञ्चात्र पापक्षयार्थी सङ्कल्पस्य कर्तव्यतया विधानात् 'तस्य व्रत'मित्य-

नेनैकवाक्यता सिद्धा भवति ।
 

 
तत्सिद्धं 'नेक्षेते' त्यत्र 'तस्य व्रत' मित्युपक्रमात् पर्युदासाश्रय-

रामिति ॥

IMPI
 

 
( विकल्पभयात् पर्युदासाङ्गीकरणम् )

'नानूयाजेषु येयजामहं करोती' त्यत्र विकल्पप्रसक्त्या तदाश्रयणम् ।
 

 
ङ्कायामाह - सत्यपीति । सत्यं सन्तीक्षणविरोधिनो बहवः पदार्थाः । तथापि न ते

ईक्षणाविनाभूताः, मानससङ्कल्पस्तु सर्वप्रवृत्तिनिवृत्यविनाभूत इति स एव लक्षणीय

इत्याशयवानाह-सर्वकियेति । भाव्याकाङ्क्षायामिति । श्रीक्षणसङ्कल्पेन भावयेत्

इत्युक्तौ तस्य विहितत्वप्रतीतेः विह्नितेऽपि तस्मिन्नफले प्रेक्षावतः `प्रवृत्त्यनुदयात् तस्सि .

ध्यर्थे भाव्यस्य कस्यचिदपेक्षायां सत्यामित्यर्थः । एतावतेति । एतावतानीक्षणसङ्कल्प -

मात्रेण पापान्मुक्तो भवतीत्यर्थः । वाक्यशेषावगत इति । स्तुत्यर्थं प्रवृत्तस्यापि वाक्य-

शेषस्य फलसमर्पकत्वं रात्रिसत्रवदङ्गीक्रियत इति भावः । पापक्षय इति । श्रक्रस्वर्थस्य

तस्य ऋतूपकाररूपफलजननायोगात् पुरुषार्थत्वाच्च पुरुषाभिलषितफलस्यैव भाव्यत्वौचि·

त्याच्चेति भावः । न च 'उद्यन्तमादित्य' मिस्यंत्र उधदादित्यस्य पदार्थैकदेशे इंक्षणे

अन्वयानीकरणापच्या एकदेशान्वयनिबन्धनो दोष इति वाच्यम् । मीमांसकमते कार•

काणां प्रथमतो भावनान्वयस्यैव स्वीकारात् तदनापत्तेः, पाष्ठिकान्वयवेलायां च समस्त

पदघटितस्य वाक्यस्यैव कल्पनात् न दोषः । प्रकृतमुपसंहरति-तत्सिद्ध मिति ।
 

 
( विकल्पभयात् पर्युदासाङ्गीकरणम् )
 
-
 
-
 

 
-
 
-
 
द्वितीयं बाधकमुपपादयति - नानूयाजेविति । भयमत्र विषयः - 'आश्राव'

येति चतुरक्षरं, अस्तु औौषडिति चतुरक्षरं, यजेति द्वयक्षरं, ये यजामह इति

पश्चाक्षरं, द्वधक्षरो वषट्कारः, एष वै सप्तदशः प्रजापतिर्यशमन्वायत्तः, इत्यना-

रभ्य श्रयते। अस्यायमर्थः- यदाध्वर्युः यजतिचोदना चोदितेषु कर्मसु हविर्देवेभ्यो दातु-

मुद्द्युङ्ते तदा हविःपूर्णां जुहूं हस्ते गृहीत्वा अग्नीघ्रनामानमृत्विग्विशेषं प्रति प्रैषं ददाति-

श्राश्रावयेति । एवं प्रेषितः स श्रामीभ्रः "मस्तु श्रौषट्' इति प्रतिब्रूयात् । तच्छु

त्वाध्वर्युः तदानीं त्यज्यमानद्रव्योद्देश्यभूत देवतावाचिपदं द्वितीयान्तमुच्चार्य तदन्ते 'यजे'

ति पदं ब्रूयात्, यथा – अग्निं यज, विश्वान् देवान् यज, इत्यादि । तच्छ्रुत्वा च होता

तद्देवताकयाज्यातः पूर्व "ये यजामहे" इति पदद्वयं ततो याज्यां च पठित्वा तदन्ते
 
--
 

 
--
 
[^
.] कलिकत्तामुद्रितपुस्तके तु नास्तीयं पक्तिः ।
 

 
[^
.] लक्षणा ।