This page has not been fully proofread.

१६४
 
मीमांसान्यायप्रकाशः
 
[ पर्युदास-
ननु - 'तदन्यतद्विरुद्ध तदभावेषु नञि' ति लत्यपि हमरये नञः स्वसंसृष्टा

भाव एव शक्तिः, लाघवात् । न तु तदन्यतद्विरुद्धयोः । तयोरभावघटितत्वेन

गौरवात् । अनेकार्थत्वस्य चान्याय्यत्वात् । अतो नजोधातयोगे धात्वर्था.

भावबोधकत्वमेव, न तु तदन्यतद्विरुद्धार्थबोध कत्वमिति चेत् -
 

 
सत्यम्, नञोऽभाव एव शक्तिः, स्मरणं तु प्रतीत्यभिप्रायम्, न शक्त्य

भिप्रायम्, नामधात्वर्थयोगीत्यपि प्रतीत्यभिप्रायम्, तथापि 'नेक्षेते' त्यत्र

प्रत्ययस्य नञऽसम्बन्धात् तेन तावत् कश्चिदर्थो विधेयः । तत्र, न तावद्धा-

स्वर्थो विधातुं शक्यते, नञा तदभावबोधनात् । नापि तद्भावो विधातुं

शक्यते, अभावस्थाविधेयत्वात् । अतश्च नञीक्षतिभ्यां विधानयोग्यः कश्चने-

क्षणविरोधी अर्थो लक्षणया प्रतिपाद्यते । स चेक्षणविरोधो लक्ष्यमाणः पदार्थो
 

 
[commentary]
 
मनु "श्रमानोनाः प्रतिषेधे" इति स्मृतिबलात् लाघवाच्च नञोऽभाव एव शक्ति-

रङ्गीकार्या । अत एव नन्सूत्रे महाभाष्ये "निवृत्तपदार्थक" इत्यभाषार्थंकत्वमेव नञ

उक्तम् । निवृत्तमिति भावे ऋः । निवृत्तिरित्यर्थः । निवृत्तिरभावः स · पदार्थो यस्येति

बहुव्रीहिः । अभावार्थक इति यावत् । न च 'तदन्यतविरुद्ध तदभावेषु नञ्' इति

स्मृत्या नञोऽन्योन्याभावादावपि शक्तिरस्तीति वाच्यम् । तस्याः स्मृतेः लक्षणायां तात्प.

र्यप्राहकत्वेनाप्युपपत्तौ मनेकशक्तिकल्पने मानाभावात् ।
 

 
तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता ।
 
Jha
 

 
 
प्राशस्त्यं विरोधश्च नञर्थाषट् प्रकीर्तिताः ॥

इतीदमपि वचनं एष्वर्थेषु नञो लक्षणायां तात्पर्यप्राहकमेव । सष्टं चैतत् भूषणादौ .

अंतश्च नञो धातुना योगे तदभावस्यैव बोधनात् तद्विरुद्धार्थस्यैवाप्रतीतो कुतरसङ्कल्पल

क्षणेत्याशङ्कते-नन्विति । संसृष्टाभाव इति । संसर्गाभाव इत्यर्थः । अनेकार्थस्य

चेति । चकारोऽनुक्तसमुच्चयार्थः । भेदस्य नवाच्यत्वाङ्गीकारेऽपि घटो न पट इत्यादौ

नञर्थभेदस्याभेदातिरिक्तसम्बन्धेन पटेऽन्वयासम्भवात् तद्भेदवति लक्षणाया

त्वात् । प्रतश्च संसर्गाभाव एव शक्तिरङ्गीकार्येति भावः ।
 

 
आवश्यक.
 

 
नजोऽभावशऋतां स्वीकरोति - सत्यमिति । स्मरणमप्यन्यथोपपादयति-स्मरण-

न्विति । तदन्येति व्याकरण स्मृतिरित्यर्थः । प्रतीत्यभिप्रायमिति । नञः श्रवणादेता.

वन्तोऽर्था: प्रतीयन्त इति नञमीषामर्थानां प्रतिपादकः इत्येतावत्यंशे स्मृतेस्तात्पर्यम् ।

प्रतिपादनञ्च शक्त्या लक्षणया वेति तु लाववादिसह कृतन्यायैकवेद्यमित्यभिप्रायः । प्रती-

त्यभिप्रायमिति । अत एव न्यायरत्नाकरे एतच्छ्लोकव्याख्यानावसरे सम्भवति चा-

भाववचनस्यापि ( नञः ) अन्यमाने विरुद्धे च प्रवृत्तिरिति प्रभाव एत्र नमः शक्तिः,

इतरत्र च लक्षणयापि प्रवृत्तिरित्याशयोऽवबोधित इति भावः । कथं तर्हि 'नेक्षेते' त्या

सपबोधकत्वम् ? तदाह- तथापीति । तेन प्रत्ययेन । अविधेयत्वादिति । उपादे-

यस्वरूपकृतिसाण्यत्वस्य तत्राभावादिति भावः । नञोक्षतिभ्यामिति । ननूपदेन ईक्ष-

तिघावना चेत्युभाभ्यां मिलिताभ्यामित्यर्थः । ननु लक्ष्यतामीक्षण विरोधी कश्चित् पदा.

थंः, तथापीक्षणविरोधिनां बहूनां पदार्थानां सत्वात् कथं सङ्कल्पस्यैव लक्ष्यमाणतेत्या श