This page has not been fully proofread.

निरूपणम् ]
 

 
सार विवेचिनी व्याख्या संवलितः
 

 
किञ्च 'नेक्षेते' त्यस्योपक्रमेण प्रतीयमाना एकवाक्येता च न स्यात्,

अर्थान्तरोतः । प्रतश्चास्मिन् वाक्ये कश्चित् कर्तव्य एवार्थो वक्तव्यः । तदुक्तौ

चन नञः प्रत्ययेन सम्बन्धो घटते । तत्सम्बन्धे कर्तव्यार्थोक्तरनुपपत्तेः ।

प्रत्ययाच उत्सारितो([^)] नञ् धातुना सम्बध्यते । तत्सम्बन्धे च न नञः प्रतिः

षेधकत्वम् । विधायकसम्बन्धेनैव तस्य प्रतिषेधकत्वात् । प्रतिषेध कत्वरूप

विधायकत्व प्रतिपक्षत्वात् ।
 
PER
 

 
 
नामधातु ([^)] योगे तु न नञः प्रतिषेधकत्वम् । तयोर विधायकत्वात् । यदाह
(

[^
)] नामधात्वर्थयोगी तु नैव नञ प्रतिषेधकः ।

वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिनौ ॥ इति ।
 

 
अत'नेते' त्यत्र नञो धातुयोगात् नञोक्षतिभ्यामीक्षण विरोधी कच-

नार्थः प्रतिपाद्यते ।
 

 
[commentary]
 
तदानीमेवापेक्षितविधानं भवतीत्यर्थः । अन्यथा अनपेक्षित विधानरूप दोष पतेदिति

भावः । तदनभिधाने कर्तव्यार्थानभिधाने । तत्प्रसङ्गात् प्रामाण्यप्रसङ्गात् ।
 

 
व्रतशब्दः
 

 
ननु यत्र व्रतशब्दः श्रूयते तस्मिन्नेव वाक्ये कर्तव्यताविधिरङ्गीक्रियताम् । किमर्थमु-

परितनेषु सर्वेष्वपि वाक्येषु लक्षणापादकः पर्युदास श्रीयते इत्यत श्राह-किश्चेति ।

व्ययमाशयः- स्नातकानुष्ठेयपदार्थनिरूपण प्रकरणे 'तस्य व्रत' मित्यादि सामान्यत एव

यते । तस्य च विशेषापेक्षायां अप्रिमवाक्यैरसर्वैरेवा विशेषात् विशेषस्समर्प्यत

इति वक्तव्यम् । अयमर्थः स्मृत्यन्तरेषु एतत्प्रकरणगतैतत्समानार्थंकवाक्यैः स्पष्टमवगम्य

ते । तेषु हि 'व्रतानीमानि धारयेत्' 'इमानि व्रतान्यनुकत्' इत्यादिना उपरिष्टात्

प्रतिपाद्यमाना एवं पदार्थाः व्रतशब्देनाभिवीयन्ते । कर्तव्य विशेषश्च कर्तव्य एव भवती :
 

 
त्या उत्तरवाक्यानां पूर्ववाक्यापेक्षितविशेषसमर्पकत्वावश्यम्भावेन तदेकवाक्यताया

अप्यवश्याभ्युपगमनीयत्वात् । यदि तु 'तस्य व्रत' मित्यत्रैवानुष्ठेयपदार्थविधानमाश्री येत,

तदा स्वरसतः प्रतीयमाना एकवाक्यता भज्येतेति । अत्र च न पर्दैकवाक्यता । वाक्यानां

स्वार्थबोधे समाप्तत्वात् । तो दर्शपूर्णमासवाक्यप्रयाजादिवाक्यानामिव वाक्यैकवाक्यता

वेदितव्या । अतश्चेति ।

नसिध्यर्थं प्रतीयमानैकवाक्यता निर्वाहार्थं चेत्य
 

 
र्थः । अस्मिन् वाक्ये नेक्षेतेति वाक्ये । तदुक्तौ कर्तव्यार्थीको । तत्सम्बन्धे विधि-

प्रत्ययेन सह सम्बन्धे । अनुपपत्तेरिति । नञः स्वसम्बन्धिप्रतिपक्ष बोधकत्वस्य पूर्वमेव

निरूपितत्वादिति भावः । तत्सम्बन्धे धातुसम्बन्धे । विधायकसम्बन्धेनैवेति ।

'विधायकैरसंयुको नैव नन प्रतिषेधकः" इति वार्तिकोत्वादिति भावः । किमिदं

ilam

प्रतिज्ञामात्रसाध्यम् ? उत युक्तिसहम् ? तदर्थमाह-प्रतिषेधकत्वस्येति । तयोः नाम्नः

धातोश्च । अविधायकत्वादिति । विधायक संयुक्तस्यैव नञः तत्प्रतिपक्षबोधकत्वादिति

भावः । नामेति । नाम्ना नामार्थेन घात्वर्थेन च संयुज्यमानो नव् न प्रतिषेधमभिधते ।

यतः ब्राह्मणपदेन संयुक्तः तदन्यमात्रमब्राह्मणं धर्मपदेन च संयुक्तस्तद्विरोधिनमधर्म च

वदतीत्यर्थः । एतावता प्रकृते किमायातम् ? अत श्राह-अतश्चेति ।
 

 
[^
.] अवतारितो इति क. । [^.] धात्वर्थयो । [^.] नामधात्वर्थयोयोंगे ।
 
28.0