2023-05-09 11:14:23 by Veera Raagavan
This page has not been fully proofread.
मीमांसान्यायप्रकाशः
[ पर्युदास-
[^१] प्रतिषेधः स विज्ञेयः क्रियया सह यत्र नञ् !
इति च तयोर्लक्षणम् । तत्र "नेक्षेतोद्यन्तमादित्य" मित्यादौ पर्युदासा-
श्रयणम्, 'तस्य व्रत' मित्युपक्रमात् ।
( उपक्रमबलात्पर्युदासाङ्गीकारः )
तथा हि-व्रतशब्देन कर्तव्योऽर्थ उच्यते । श्रुतश्च स्नातकस्य कर्तव्या
र्थानां वक्तव्यत्वेनोपक्रमात कि तत् कर्तव्यमित्यपेक्षायां भने 'नेक्षेतोद्यन्त'
मित्यादी कर्तव्य एवार्थो वक्तव्यः श्राकाङ्क्षिताभिधानात् । अर्थान्तरोकौ
च पूर्ववाक्यस्य साकाङ्क्षत्वेनाप्रामाण्यं [^२] स्यात् । न हि कर्तव्यार्थस्य
वक्तव्यत्वेनोपक्रमे अग्रे च तदनभिधाने पूर्ववाक्यस्य निराकाङ्क्षवं सम्भ
वति । न च साकाङ्क्षस्य प्रामाण्यम्, गौरश्चः पुरुषः इत्यादावपि तत्प्रसङ्गात् ।
[commentary]
एवं तयोर्लक्षणमुक्त्वा पर्युदासाश्रयणस्य प्राथमिकं स्थलमुद्दाहरति-तत्रेति । नेते.
तेति । मनौ चतुर्थाध्याये-
अतोऽन्यतमया वृत्या जीवस्तु स्नातको द्विजः।
स्वर्गायुध्ययशस्यानि व्रतानीमानि धारयेत् ॥
इत्यत्र स्नातकोहेशेनाग्रे वक्ष्यमाणाः तदनुष्ठेयपदार्था व्रतशब्दोक्ताः । अनेच 'नेक्षे.
तोद्यन्तमादित्य' मित्यादयोऽभिहिताः । तत्र सर्वत्रापि पर्युदासाश्रयणमेव । प्रतिषेधा
श्रयणे तस्य कर्तव्यत्वाभावात् कर्तव्यवाचक व्रतशब्दोपक्रमो विरुध्येतेति भावः । अत्र
चादिपदेन "नास्तं यन्तं कदाचन ।
नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ।
"न लङ्घयेत् वत्सतन्त्रीम्" इत्यादीनि तत्प्रकरणे पठितानि नञ्घटितवाक्यानि
सर्वाण्यपि गृह्यन्ते । उपसृष्टं राहुप्रस्तम् । वारिस्थं जलमध्ये प्रतिबिम्बतया दृश्यमानम् ।
अत्र चोदयादिविशिष्टमादित्यं न पश्येदिति यथाश्रुतोऽर्थः । तरि चोपक्रमभङ्गा-
पच्या निषेधमकल्पयित्वा नञो धात्वर्थेन सम्बन्धमङ्गीकृत्य ईक्षणाभावसङ्कल्पोऽनेन विधी-
यत इत्यङ्गीकार्यमिति तात्पर्यम् । एवश्च तत्प्रकरणे यावन्ति नञ्चटितवाक्यानि तत्र
सर्वत्रापि पर्युदासमीकृत्य तद्वर्जनसङ्कल्प एव कार्य इति सिध्यति । स च सङ्कल्पः-उद्य-
न्तमादित्यं नेक्षिष्ये-इत्येवमादिरूपो द्रष्टव्यः । यद्यप्यत्र मूलपर्यालोचनया मानवं वाक्य.
मेवोदाहरणमिति भाति,तथापि तत्र 'तस्य व्रत' मित्युपक्रमादर्शनात् "एतावता हैनसा
विमुक्तों भवती" त्यग्रे वक्ष्यमाणस्य वाक्यशेषस्याभावाञ्च न मानवं वाक्यमुदाहरणं
भवितुमर्हति परन्तु तत्समानजातीयं तादृशवाक्यशेष विशिष्टं स्मृत्यन्तरं श्रुत्यन्तरं वोदाह
रणमित्यवगन्तव्यम् ।
( उपक्रमबलात् पर्युदासस्वीकारः )
पर्युदासाश्रयणावश्यकतामुपपादयति तथा हीति । काहिताभिधानादिति ।
[^१] अयमेब पाठस्साधीयान् शास्त्रानुगतस्सम्प्रदायागतश्च । सति चैवं अत्र निर्णयसागरमुद्रितपु
स्तके कलिकत्तामुद्रित पुस्तके च शोधयित्रा व्याख्यात्रा च स्वस्वमनीषानुसारेण पाठभेदं प्रकल्प्य तदनु.
सारेण चार्थो यो वर्णितः स सर्वोऽप्यभित्तिचित्रायित इत्युपेक्षणीयं प्रेक्षावद्भिः । [^२] ण्यप्रसङ्गात् ।