This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्या संवलितः
 
१६१
 
बाधकद्वयेन नत्रयुक्तेषु वाक्येषु पर्युदासाश्रयणं भवति । तदभावे निषेध एव ।

पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् । इति,
 

 
[commentary]
 
प्रत्ययार्थान्वये बाघकमित्यर्थः । व्रतमित्युपलक्षणं धर्मादिपदस्यापि । उपक्रम इत्युपल-

क्षकमुपसंहारस्यापि । अत एव
 

 
'एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ।

वनस्थयतिधर्मोऽयम्' इत्यत्राभोजन सङ्कल्पलक्षणा स्मर्तृभिरङ्गीकृता सङ्गच्छते ।

अत एव च तन्त्रवार्तिके कर्प्रधिकरणे पर्युदास निमित्तकथनावसरे - 'न हि दार्शपौर्णमा.

सिके कश्चित् पर्युदास हेतुरस्ति व्रतशब्दप्रयोगो विकल्पमसक्तिर्वा' इत्युपक्रम-

शब्दमनुपादाय प्रयोगपदमेव प्रयुक्तम् । परन्तु तत्रत्यं व्रतपदमपि धर्मादिपदोपलक्षकमित्यव.

गन्तव्यम् । तदभावे तादृशबाधकद्वयाभावे ।
 

 
विकल्पप्रसक्तौ पर्युदासाश्रयणमित्युक्त्या विकसदोषात् मुक्त्यर्थमेव पर्युदा-

साश्रयणमित्यवगमात् यत्र पर्युदासाश्रयणेऽपि विकल्पात् न मुच्यामहे तत्र पर्युदासे प्रयो•

जनाभावात् नञः प्रधानसम्बन्धलाभार्थं च प्रतिषेध एवाश्रीयते, यथा - "न तौ पशौ

करोती" त्यत्र । अनेन हि वाक्येन पशुयागे आज्यभागसंज्ञके न कुर्यादित्याज्य-

भागकर्तव्यता प्रतिषिध्यते । यद्यत्र पर्युदास श्राश्रीयते तदा पशुयागे आाज्यभागभिन्नमङ्ग-

जातमनुतिष्ठेत् इत्यर्थः स्यात् । अनेन नाज्यभागयोरात्यन्तिकी निवृत्तिर्भवितुमर्हति । पशौ

"अग्नय आज्यस्यानुब्रूहि, सोमायाज्यस्यानुब्रूहि " इत्याज्यभागाङ्गभूतमन्त्रपाठ-

बलात् तयोरपि तत्र कर्तव्यतावगमात्, किन्तु विकल्प एवेति पर्युदासाश्रयणे प्रयोजना-

भावात् प्रतिषेध एवाश्रीयते । एतेन 'न तो पशौ करोती' त्यत्र विकल्पमयात् पर्युदा-

साश्रयणमिति प्राभाकरोक्तिः प्रत्युक्ता । विकल्पानङ्गीकारे पशुप्रकरणे आज्यभागानमन्त्र•

पाठवैयर्थ्याः । एतरसर्वं निषेध एवेत्येवकारेणापि सूचितं ग्रन्थकृता ।
 

 
ननु कोऽसौ पर्युदासः प्रतिषेधो वा ? इत्याशङ्कायां तत्परिचयार्थे तयोर्लक्षणं प्राची.

नोकमनुवदति- पर्युदास इति । श्रजोत्तरपदं कियावाचक प्रत्ययातिरिकपरम्, न तु

वैयाकरणमतवत् समासचरमावयवे रूढम् । अतश्च यत्र नञ् क्रियाभिन्नवाचकपदेन सम्ब-

ध्यते तत्र पर्युदासः । क्रिया चाख्यातार्थः । एवञ्चाख्यातार्थभिन्न प्रतियोगिता काभावबोध

कवाक्यत्वं पर्युदासत्वमिति फलितम् । उत्तरार्धे सष्टार्थम् । लक्षणवाक्यद्वयमपीदं हरिका

रिकायां श्लोकद्वयस्यार्धात्मकम् । तत्र च
 

 
"अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता
 

 
(
 

 
प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र नञ् ॥

प्रधानत्वं विधेयंत्र प्रतिषेधेऽप्रधानता ।

पर्युदासस्स विज्ञेयो यत्रोत्तरपदेन नञ् ॥ "
 

 
इति श्लोकद्वयं भूयते । प्रन्थकारस्स्वयं प्रकृतोपयुक्तमे कैकश्लोका देकै कमर्धमुगदाय

प्रतिषेधलक्षणे किञ्चिदन्यथयित्वा व्यलिखदित्यवगम्यते ।
२१ मी० न्या०