This page has been fully proofread once and needs a second look.

१६०
 
मीमांसान्यायप्रकाशः
 
यन्मते इष्टसाधनत्वं लिर्थस्तन्मतेऽपि लिङ्लंसंसृष्टो नञ् इष्टसा.-
धनत्वप्रतिपक्षमनिष्टसाधनत्वं गमयति । सर्वथापि तु नञः प्राधान्यात्
प्रत्ययेनान्वयः
 
(पर्युदासनिरूपणम्)
 
यदा तु तदन्वये किंचित् बाधकं तदाऽगत्या धात्वर्थेनान्वयः । तच्च
बाधकं द्विविधम् -'तस्य व्रतमित्युपक्रमो विकल्पप्रसक्तिश्चेति । [^१] अनेन च
 
[commentary]
 
त्तिर्निषेधफलम्। विधिश्रवणे 'हमनेनास्मिन् कर्मणि प्रवर्तितः" इति बुद्धिरुत्पद्यते, निषे.-
धश्रवणे च 'अहमस्मात् कर्मणो निवर्तितः' इति धीरुदेति । यागादिगतेष्टसानत्वं विधेः
प्रमेयम्, कलञ्जभक्षणा दिगतानिष्टसाधनत्वं निषेधस्य प्रमेयम् । यथोक्त विशेषण विशिष्टः
स्वर्गादिकामनावान् निमित्तवान् वा पुरुषः स्वयमप्रवृत्तः प्रमाणान्तरेणाप्रवत्तितो विधेये.
ध्
-
ष्
वधिकारी, रागादिना प्रवृत्तमात्रः पुरुषो निषेधेष्वधिकरोति । नञ। नञ्रहितो लिङादिर्विधेर्बो-
कः, लिखाङाद्यनुगृहीतो नञ् निषेधस्य बोधकः । एवं प्रकारेण पञ्चधा भिन्नत्वात् विधिनि-
षेधयोरत्यन्तभेद इत्यर्थः । एतदपि तत्रैव श्लोकैर्विवृतम् --
 
"विधिरिष्टफलोऽनिष्टपरिहार फलोऽपरः
 
 

प्रेरितोऽस्मीति पूर्व धीः वारितोऽस्मीति चापरे
विषयस्येष्टहेतुत्वं विधिना च प्रमीयते
निषेधेन निषेध्यस्य प्रत्यवाय निमित्तता
विधिश्चाधिकरोत्यन्य कारणेनाप्रवर्तितम्
रागादिना प्रवृत्तं तु निषेधस्तद्विलक्षणम्
नञ्र्जितो लिङादिश्च विधिबोधस्य कारणम्
लिङाद्यनुगृहीतस्तु नञ् निषेधस्य बोधकः ॥ इति

ननु प्रवर्तनालिङर्थवादिनी मते एवमुपपत्तावपि इष्टसाधनस्वलिबर्थवादिनां मते एवमुपपत्तावपि इष्टसाधनत्वलिङर्थवादिनां मते
कथं निवर्तनायाः प्रतीतिरित्यत आह-यन्मत इति । एवञ्च ये इष्टसाधनत्वमेव लिर्थ -
मभ्युपगम्य तस्यैव प्रवर्तनास्त्वमभ्युपगच्छन्ति ते मण्डन मिश्रप्रभृतयः तत्प्रतिपक्षभूत मनिष्ट-
सानत्वमेव लिडर्थेङर्थं ब्रूयुः । तेन तेषामपि न कापि हानि: । पुरुषस्तु यथा इष्टसा-
ताज्ञानात् प्रवर्तते, एवमनिष्टसानताज्ञानात् निवर्तते एवेति तत्रापि निवर्तनासिद्धिर-
विहतैवेति भावः। तस्मिन्नपि मते नञर्थस्य प्रत्ययार्थेनैव साकमन्वय इत्याह सर्व-
थापीति । प्रधान्यादिति । प्रत्ययार्थस्येति शेषः । नञ इति अन्वय इत्यनेन सम्बध्यते

(पर्युदास निरूपणम्)
 
एवं सर्वत्र नञः प्रत्ययान्वयप्रसक्तौ क्वचित् तदपवादमाह - -यदा विति । तद्त्विति। तद-
न्वये प्रत्ययान्वये । बाकमेवोपपादयति-तच्चेति । तस्येति । तस्य स्नातकस्य व्रतं
अनुष्ठेयपदार्थः श्रमेअग्रे निरूप्यते इति शेषः । यत्रोपक्रमेऽनुष्ठेयपदार्थवाचको व्रतशब्दो दृश्य-
ते, यत्र वा प्रत्ययार्थान्वयानीङ्गीकारेऽष्टदोषदुष्टो विकल्पः प्रसज्यते, तदुभयमपि नर्थस्य
 
[^१] तेन ।