This page has not been fully proofread.

१६०
 

 
मीमांसान्यायप्रकाशः
 
[ निषेध-

 
यन्मते इष्टसाधनत्वं लिडर्थस्तन्मतेऽपि लिङ्लंटो नञ् इष्टसा.

धनत्वप्रतिपक्षमनिष्टसाधनत्वं गमयति । सर्वथापि तु नञः प्राधान्यात्

प्रत्ययेनान्वयः ।
 

 
(पर्युदासनिरूपणम्)
 

 
यदा तु तदन्वये किंचित् बाधकं तदाऽगत्या धात्वर्थेनान्वयः । तच्च

बाधकं द्विविधम् -'तस्य व्रतमित्युपक्रमो विकल्पप्रसक्तिश्चेति । ([^)] अनेन च
 

 
[commentary]
 
त्तिर्निषेधफलम्। विधिश्रवणे 'हमनेनास्मिन् कर्मणि प्रवर्तितः" इति बुद्धिरुत्पद्यते, निषे.

धश्रवणे च 'अहमस्मात् कर्मणो निवर्तितः' इति धीरुदेति । यागादिगतेष्टसाघनत्वं विधेः

प्रमेयम्, कलजभक्षणा दिगतानिष्टसाधनत्वं निषेधस्य प्रमेयम् । यथोक्त विशेषण विशिष्टः

स्वर्गादिकामनावान् निमित्तवान् वा पुरुषः स्वयमप्रवृत्तः प्रमाणान्तरेणाप्रवत्तितो विधेये.

ध्वधिकारी, रागादिना प्रवृत्तमात्रः पुरुषो निषेधेष्वधिकरोति । नञरहितो लिङादिविधेर्बो-

घकः, लिखाद्यनुगृहीतो नञ् निषेधस्य बोधकः । एवं प्रकारेण पञ्चधा भिन्नत्वात् विधिनि-

षेधयोरत्यन्तभेद इत्यर्थः । एतदपि तत्रैव श्लोकैर्विवृतम् -
 

 
"विधिरिष्टफलोऽनिष्टपरिहार फलोऽपरः ।
 
3
 

 

 

 
 
 
प्रेरितोऽस्मीति पूर्व धीः वारितोऽस्मीति चापरे ॥

विषयस्येष्टहेतुत्वं विधिना च प्रमीयते ।

निषेधेन निषेध्यस्य प्रत्यवाय निमित्तता ॥

विधिश्चाधिकरोत्यन्य कारणेनाप्रवर्तितम् ।

रागादिना प्रवृत्तं तु निषेधस्तद्विलक्षणम् ॥

नञ्बर्जितो लिङादिश्च विधिबोधस्य कारणम् ।

लिङाद्यनुगृहीतस्तु नञ् निषेधस्य बोधकः ॥ इति श

ननु प्रवर्तनालिङर्थवादिनी मते एवमुपपत्तावपि इष्टसाधनस्वलिबर्थवादिनां मते

कथं निवर्तनायाः प्रतीतिरित्यत आह-यन्मत इति । एवञ्च ये इष्टसाधनत्वमेव लिडर्थ •

मभ्युपगम्य तस्यैव प्रवर्तनास्वमभ्युपगच्छन्ति ते मण्डन मिश्रप्रभृतयः तत्प्रतिपक्षभूत मनिष्ट-

साघनत्वमेव लिडर्थे ब्रूयुः । तेन तेषामपि न कापि हानि: । पुरुषस्तु यथा इष्टसा

ताज्ञानात् प्रवर्तते, एवमनिष्टसाघनताज्ञानात् निवर्तते एवेति तत्रापि निवर्तनासिद्धिर-

विहतैवेति भावः। तस्मिन्नपि मते नञर्थस्य प्रत्ययार्थेनैव साकमन्वय इत्याह सर्व-

थापीति । प्रधान्यादिति । प्रत्ययार्थस्येति शेषः । नञ इति अन्वय इत्यनेन सम्बध्यते ।

(पर्युदास निरूपणम्)
 

 
एवं सर्वत्र नञः प्रत्ययान्वयप्रसक्तौ क्वचित् तदपवादमाह - यदा विति । तद्-

न्वये प्रत्ययान्वये । बाघकमेवोपपादयति-तच्चेति । तस्येति । तस्य स्नातकस्य व्रतं

अनुष्ठेयपदार्थः श्रमे निरूप्यते इति शेषः । यत्रोपक्रमेऽनुष्ठेयपदार्थवाचको व्रतशब्दो दृश्य-

ते, यत्र वा प्रत्ययार्थान्वयानीकारेऽष्टदोषदुष्टो विकल्पः प्रसज्यते, तदुभयमपि नर्थस्य
 

 
[^
० तेन ।
 
] तेन ।