2023-05-11 07:46:59 by Veera Raagavan
This page has been fully proofread once and needs a second look.
लिङ्त्वांशवाच्यप्रवर्तनोपसर्जनत्वेनोपस्थितत्वात्। अतो लिङ्त्वांशेन नञ्
सम्बध्यते, तस्य सर्वापेक्षया प्राधान्यात्। नञश्चैष स्वभावो यत्स्वसम्बन्धि-
प्रतिपक्षबोधकत्वम्। 'नास्ती'त्यत्र ह्यस्तीति सत्त्वशब्देन संवध्यमानो नञ्
सत्त्वप्रतिपक्षमसत्वं गमयति। तदिह लिङर्थस्तावत्प्रवर्तना। अतस्तेन सम्ब-
ध्यमानो नञ् प्रवर्तनाप्रतिपक्षां निवर्तनां गमयति। विधिवाक्यश्रवणे अयं
मां प्रवर्तयतीति प्रवर्तनाप्रतीतिवत् निषेधवाक्यश्रवणे अयं मां निवर्तयतीति
निवृत्त्यनुकूलव्यापाररूपनिवर्तनायाः प्रतीतेः [^१]।
अतश्च सर्वत्र निषेधेषु निवर्तनैव वाक्यार्थः । एवं च विधिनिषेधयो-
भिन्नार्थत्वं [^२] सिद्धं भवति । हननादि [^३] वर्जनकर्तव्यतावाक्याथँर्थपक्षे
तु कर्तव्यताया एवोभयत्र प्रतिपाद्यत्वात्तयोरेकार्थत्वं स्यात् । तच्च न
युक्तम् । यदाहुः-
अन्तरं यादृशं लोके ब्रह्महत्या ऽश्वमेधयोः ।
दृश्यते ताहदृगे [^४] वेदं विधानप्रतिषेधयोः ॥ इति ।
तथा-
फलबुद्धिप्रमेयाधिकारिबाँबोधकभेदतः ।
पञ्चधात्यन्तभिन्नत्वाद्भेदो विधिनिषेधयोः ॥ इति ।
[commentary]
न्वयः, तस्याः कारकापेक्षया प्राधान्यात् प्रत्ययार्थत्वा विशेषाच्चेत्यत माआह-तत्रापीति ।
यद्यपि तस्याः कारकापेक्षया प्राधान्यम् तथापि शाब्दभावनापेक्षयोपसर्जनत्वात् अन्यो-
पसर्जनीभूतेऽन्यान्वयासम्भवस्यानुपद मेवोत्क्तत्वात् सर्वप्रधानभूतायां शाब्दीभावनायामेव
नञर्थस्य सम्बन्ध इत्याह --अत इति । अस्तु एतावता निवर्तनाबोधकत्वं कथमायातम् ?
नञो विध्यर्थेन सम्बन्धे प्रवर्तनाभावस्यैव बोधनात् इति पूर्वमेव निगूढतयोक्तामाशङ्कामि-
दानीं परिहरति-नञश्चैष इति । नञो न केवल मभावमात्रबोधक त्वम्, किन्तु येन सह
सम्बध्यते तद्विरुद्धार्थबोधकत्वमित्यर्थः । तत्र दृष्टान्तमाह - -नास्तीति । नञिति । एवञ्च
नञ एव निवर्तनाबोधकत्वम्, तत्र च लिङ्तासर्यप्त्पर्यग्राहक इति भावः । किं तत्र प्रमा
त्ति --
णमित्यत आह-विधिवाक्येति । उभयन्नत्र विधिस्थले प्रतिषेधस्थले च। तयोः
विधिप्रतिषेधयोः ।
विधिप्रतिषेधयोरत्यन्त विरोघेधे बृहट्टीकोक्तां न्यायसुधाकदुदाहृतां कारिकामनुवदति--
अन्तरमिति । ब्रह्महस्त्यायाः अत्यन्तोत्कटपापरूपत्वेन; अश्वमेधस्य च 'सर्ववं पाप्मानं
तरति, तरति ब्रह्महत्यां योऽश्वमेघेधेन यजते" इत्यादिना तादृशपापनाशकत्वश्र-
वणाच्च तयोर्यावान् विरोधः परस्परमस्ति तावानेव विधिनिषेधयोर्विरोधः परस्परम•-
स्तीति कारिकार्थः ।
एवं फलादिना परस्परं भिन्नत्वादपि विधिनिषेधयोर्भेदोऽवश्यमजी ङ्गीकर्तव्य इत्यत्र न्या.-
यसुषोधोक्तं पद्यमपि स्वयमनुवदति- फलेति । स्वर्गादिरूपमिष्टं फलं विधेः, अनिष्टनिष्टवृ-
[^१] प्रतिपत्तेः इति क. । [^२] सम्भवति । [^३] निवर्तन । [^४] वेह विधानप्रतिपक्षयोः ।
सम्बध्यते, तस्य सर्वापेक्षया प्राधान्यात्। नञश्चैष स्वभावो यत्स्वसम्बन्धि-
प्रतिपक्षबोधकत्वम्। 'नास्ती'त्यत्र ह्यस्तीति सत्त्वशब्देन संवध्यमानो नञ्
सत्त्वप्रतिपक्षमसत्वं गमयति। तदिह लिङर्थस्तावत्प्रवर्तना। अतस्तेन सम्ब-
ध्यमानो नञ् प्रवर्तनाप्रतिपक्षां निवर्तनां गमयति। विधिवाक्यश्रवणे अयं
मां प्रवर्तयतीति प्रवर्तनाप्रतीतिवत् निषेधवाक्यश्रवणे अयं मां निवर्तयतीति
निवृत्त्यनुकूलव्यापाररूपनिवर्तनायाः प्रतीतेः [^१]।
अतश्च सर्वत्र निषेधेषु निवर्तनैव वाक्यार्थः
भिन्नार्थत्वं [^२] सिद्धं भवति
तु कर्तव्यताया एवोभयत्र प्रतिपाद्यत्वात्तयोरेकार्थत्वं स्यात्
युक्तम्
अन्तरं यादृशं लोके ब्रह्महत्या
दृश्यते ता
तथा-
फलबुद्धिप्रमेयाधिकारि
पञ्चधात्यन्तभिन्नत्वाद्भेदो विधिनिषेधयोः
[commentary]
न्वयः, तस्याः कारकापेक्षया प्राधान्यात् प्रत्ययार्थत्वा
यद्यपि तस्याः कारकापेक्षया प्राधान्यम् तथापि शाब्दभावनापेक्षयोपसर्जनत्वात् अन्यो-
पसर्जनीभूतेऽन्यान्वयासम्भवस्यानुपद
नञर्थस्य सम्बन्ध इत्याह
नञो विध्यर्थेन सम्बन्धे प्रवर्तनाभावस्यैव बोधनात् इति पूर्वमेव निगूढतयोक्तामाशङ्कामि-
दानीं परिहरति-नञश्चैष इति
सम्बध्यते तद्विरुद्धार्थबोधकत्वमित्यर्थः
नञ एव निवर्तनाबोधकत्वम्, तत्र च लिङ्ता
त्ति -
णमित्यत आह-विधिवाक्येति
विधिप्रतिषेधयोः
विधिप्रतिषेधयोरत्यन्त
अन्तरमिति
तरति, तरति ब्रह्महत्यां योऽश्वमे
वणाच्च तयोर्यावान् विरोधः परस्परमस्ति तावानेव विधिनिषेधयोर्विरोधः परस्परम
स्तीति कारिकार्थः
एवं फलादिना परस्परं भिन्नत्वादपि विधिनिषेधयोर्भेदोऽवश्यम
यसु
[^१] प्रतिपत्तेः इति क. । [^२] सम्भवति । [^३] निवर्तन । [^४] वेह विधानप्रतिपक्षयोः ।