This page has not been fully proofread.

●सार विवेचिनीव्याख्यासंवलितः
 
१५६
 
लिङ्त्वांशवाव्च्यप्रवर्तनोपसर्जनस्त्वेनोपस्थितत्वात् । अतो लिङ्त्वांशेन नञ्

सम्बध्यते, तस्य सर्वापेक्षयांया प्राधान्यात् । नञश्चैष स्वभावो यत्स्वसम्बन्धि
-
प्रतिपक्षबोधकत्वम् । 'नास्ती'त्यत्र ह्यस्तीति सत्त्वशब्देन संवध्यमानो नञ्

सत्त्
वप्रतिपक्षमसत्वं गमयति । तदिह लिङर्थस्तावत्प्रवर्तना। अतस्तेन सम्ब-

ध्यमानो नञ् प्रवर्तनाप्रतिपक्षां निवर्तनां गमयति । विधिवाक्यश्रवणे अयं
मां प्रवर्तयतीति प्रवर्तनाप्रतीतिवत् निषेधवाक्य
श्रवणे अयं
मां प्रनिवर्तयतीति प्रवर्तनाप्रतीतिवत् निषेधवाक्यश्रवणे श्रयं मां निवर्तयतीति

निवृत्त्यनुकूल व्यापाररूपनिवर्तनायाः प्रतीते : (तेः [^) ।
 
]।
 
अतश्च सर्वत्र निषेधेषु निवर्तनैव वाक्यार्थः । एवं च विधिनिषेधयो-

भिन्नार्थत्वं ([^)] सिद्धं भवति । हननादि ([^)] वर्जनकर्तव्यतावाक्याथँपक्षे

तु कर्तव्यताया एवोभयत्र प्रतिपाद्यत्वात्तयोरेकार्थत्वं स्यात् । तच्च न

युक्तम् । यदाहुः-

अन्तरं यादृशं लोके ब्रह्महत्या ऽश्वमेधयोः ।

दृश्यते ताहगे ([^)] वेदं विधानप्रतिषेधयोः ॥ इति ।
 
निरूपणम् ]
 

 
तथा-

फलबुद्धिप्रमेयाधिकारिबाँधकभेदतः ।

पञ्चधात्यन्तभिन्नत्वाद्भेदो विधिनिषेधयोः ॥ इति ।
 
E
 
>
 

 
[commentary]
 
न्वयः, तस्याः कारकापेक्षया प्राधान्यात् प्रत्ययार्थत्वा विशेषाचेत्यत माह-तत्रापीति ।

यद्यपि तस्याः कारकापेक्षया प्राधान्यम् तथापि शाब्दभावनापेक्षयोपसर्जनत्वात् अन्यो-

पसर्जनीभूतेऽन्यान्वयासम्भवस्यानुपद मेवोत्तत्वात् सर्वप्रधानभूतायां शाब्दीभावनायामेव

नञर्थस्य सम्बन्ध इत्याह - इति । अस्तु एतावता निवर्तनाबोधकत्वं कथमायातम् ?

नञो विध्यर्थेन सम्बन्धे प्रवर्तनाभावस्यैव बोधनात् इति पूर्वमेव निगूढतयोक्तामाशङ्कामि-

दानीं परिहरति-नञश्चैष इति । नञो न केवल मभावमात्रबोधक त्वम्, किन्तु येन सह

सम्बध्यते तद्विरुद्धार्थबोधकत्वमित्यर्थः । तत्र दृष्टान्तमाह - नास्तीति । नञिति । एवञ्च

नञ एव निवर्तनाबोधकत्वम्, तत्र च लितासर्यप्राहक इति भावः । किं तत्र प्रमा

त्ति - विधिवाक्येति । उभयन्न विधिस्थले प्रतिषेधस्थले च। तयोः

विधिप्रतिषेधयोः । po
 

 

 
विधिप्रतिषेधयोरत्यन्त विरोघे बृहट्टीकोक्तां न्यायसुधाकदुदाहृतां कारिकामनुवदति-

अन्तरमिति । ब्रह्महस्यायाः अत्यन्तोत्कटपापरूपत्वेन; अश्वमेधस्य च 'सर्व पाप्मानं

तरति, तरति ब्रह्महत्यां योऽश्वमेघेन यजते" इत्यादिना तादृशपापनाशकत्वश्र-

वणाच्च तयोर्यावान् विरोधः परस्परमस्ति तावानेव विधिनिषेधयोर्विरोधः परस्परम•

स्तीति कारिकार्थः ।
 

 
एवं फलादिना परस्परं भिन्नत्वादपि विधिनिषेधयोर्भेदोऽवश्यमजी कर्तव्य इत्यत्र न्या.

यसुषोक्तं पद्यमपि स्वयमनुवदति- फलेति । स्वर्गादिरूपमिष्टं फलं विधेः, अनिष्टनिष्ट
निवर्तन ।

 
 
[^१] प्रतिपत्तेः इति क. । [^२] सम्भवति । [^३] निवर्तन । [^
.] वेह विधानप्रतिपक्षयोः ।
 
१० प्रतिपत्तेः इति क. । २. सम्भवति ।