This page has been fully proofread once and needs a second look.

ननु कथं निषेधानां निवर्तनाप्रतिपादकत्वम् ? यावता 'न भक्षयेत्' 'न
हन्तव्य' इत्येवमादावव्यवधानेन नञर्थस्याभावस्य धात्वर्थेनान्वये धात्वर्थ-
वर्जनकर्तव्यतैव सर्वत्र [^१]वाक्यार्थः प्रतीयते । ततश्च यथा 'यजेते 'त्यादौ
यांयागकर्तव्यता वाक्यार्थः, एवं[^२]निषेधेषु तत्तद्धा[^३]त्वर्थवर्जन कर्तव्यता वा-
क्यार्थः, न निवर्तनेति चेत् --
 
मैवम् -अव्यवधानेऽपि धात्वर्थस्य प्रत्ययार्थोपसर्जनत्वेनोपस्थितस्य नञ-
र्थेनान्वयायोगात् । नान्योपसर्जन मन्येनान्वेति । यतः मा भूद्राजपुरुषमान-
येत्यत्र राज्ञ आनयनान्वयित्वम् । ततश्चाव्यवधानेऽपि नञर्थस्य न धात्वर्थे.-
नान्वयः; आरुण्यस्येवैकद्दायन्या हायन्या। नापि कलञ्जादिपदार्थैरन्वयः । तेषामपि
कारकोपसर्जनतयोपस्थितत्वेन भिन्नपदस्य नञोऽर्थेनान्वयायोगात्, एकहा-
यन्या इवारुण्येन
 
श्र

 
तश्चान्येनान्वयायोगान्नर्थः प्रत्ययार्थेन सम्बध्यते, तस्य प्राधान्यात्,
क्रयभावनयेवारुण्यादीनि । तत्रापि नाख्यातांशवाच्ययार्थभावनया, तस्या अपि
 
[commentary]
 
यदि च तिलिङर्थेन, तदापि प्रवर्तनाभाव एव बोध्येत, न निवर्तनेति तद्वोषबोधकपदभावे
कथं निषेवाक्यतो निवर्तनाप्रतीतिरित्याशङ्कया पूर्वपक्षी प्रत्यवतिष्ठते-नन्विति । तदेव
विवृणोति -यावतेति । अव्यवधानेनेति । शाब्दबोधं प्रति नासत्तेरपि कारणत्वादिति
भावः । यजेतेत्यादाविति नञभावस्थलोदाहरणम्
 

 
नाव्यवधानमात्रमन्वयप्रयोजकम्, किन्तु अन्वयप्रतियोगिता अन्याविशेषणीभूतेनाविपि
भाव्यम्, अन्य विशेषणीभूते पदार्थे अन्यान्वयस्यासाम्प्रदायिकत्वात् । प्रतक्ष। अतश्च धात्वर्थ
ल्
-
स्
याव्यवहितत्वेऽप्यन्यविशेषणत्वात् न तत्र नञर्थस्यान्वयो भवितुमर्हतीति समाधानमाह -
मैवमिति । अन्वयायोगादिति । प्रतियोगितयेति शेषः । अन्योपसर्जनस्यान्यत्रान्वया-
भावे दृष्टान्तमाह-माभूदिति । माभूदिति नहीत्यर्थे । यस्मात् राज्ञः पुरुषपदार्थोंथे उपसर्ज-
नतयान्वितस्यानयनपदार्थेऽन्वयो न भवितुमर्हतीत्यर्थ: । माथः। आरुण्यस्येति । सन्निहिताया


 
अप्येकहायन्याः कायन्याः कारको पसजर्नत्वात् यथा न तत्रारुण्यान्वयः तद्वदित्यर्थः । ननु मास्तु धा
स्
-
त्
वर्थेनान्वयः । कलञ्जादिपदार्थै स्सह भवत्वन्वयः, तेषां तदभावात् इत्यत आह - नापीति
भिन्नपद्स्येति दस्येति। प्रकृत्यर्थस्य कारकान्वयस्यैव व्युत्पन्नत्वात् 'तयोस्तु प्रत्ययः प्राधा.-
न्येन' इति स्मरणात् 'परिपूर्णं पदं पदान्तरेणान्वेती' ति न्यायाति न्यायाच्च प्रथमतः स्वप-
दोक्त कार कान्वयमुज्झित्वा नञर्थेनान्वयासम्भवादिति भावः । तत्र दृष्टान्तमाह - एकहा-
यन्या इति । एकहायन्याः करणस्त्वोपसर्जनीभूताया यथा न भिन्नपदोपात्तेनारुण्येना-
न्वयः एवं प्रत्ययार्थोपसर्जनीभूतानां कलञ्जादीनां नञर्थेनान्वयो न सम्भवतीत्यर्थः
 
तर्हि कुत्रान्वयः ? तमाह-अतश्चेति । प्रत्ययार्थेन लिर्थेन । तत्र कारणमाह -
तस्येति । "प्रकृतिप्रत्ययौ प्रत्ययार्थ सह व्रब्रूतस्तयोस्तु प्रत्ययः प्राधान्येन" इति
स्मृत्या प्रत्ययार्थस्यैव प्रधान्यावगमादित्यर्थः । ननु - प्रस्तु तर्हि आर्थीभावना या यामेवा.
-
 
[^१] कपुस्तके 'सर्वत्र' इति नास्ति । [^२] निषेधेऽपि. [^३] 'द्वाक्यार्थ'