2023-04-02 16:43:11 by Veera Raagavan
This page has not been fully proofread.
मीमांसान्यायप्रकाशः
[ निषेध-
हन्तव्य' इत्येवमादावव्यवधानेन नञर्थस्याभावस्य धात्वर्थेनान्वये धात्वर्थ-
वर्जनकर्तव्यतैव सर्वत्र
यांगकर्तव्यता वाक्यार्थः, एवं
क्यार्थः, न निवर्तनेति चेत् -
मैवम् अव्यवधानेऽपि धात्वर्थस्य प्रत्ययार्थोपसर्जनत्वेनोपस्थितस्य नअ
र्थेनान्वयायोगात् । नान्योपसर्जन मन्येनान्वेति । यतः मा भूद्राजपुरुषमान-
येत्यत्र राज्ञ आनयनान्वयित्वम् । ततश्चाव्यवधानेऽपि नञर्थस्य न धात्वर्थे.
नान्वयः; आरुण्यस्येवैकद्दायन्या । नापि कलञ्जादिपदार्थैरन्वयः । तेषामपि
कारकोपसर्जनतयोपस्थितत्वेन भिन्नपदस्य नञोऽर्थेनान्वयायोगात्, एकहा-
यन्या इवारुण्येन ।
श्रतश्चान्येनान्वयायोगान्नमर्थः प्रत्ययार्थेन सम्बध्यते, तस्य प्राधान्यात्,
क्रयभावनयेवारुण्यादीनि । तत्रापि नाख्यातांशवाच्ययार्थभावनया, तस्या अपि
यदि च तिर्थेन, तदापि प्रवर्तनाभाव एव बोध्येत, न निवर्तनेति तद्वोषकपदभावन
कथं निषेघवाक्यतो निवर्तनाप्रतीतिरित्याशङ्कया पूर्वपक्षी प्रत्यवतिष्ठते-नन्विति । तदेव
विवृणोति यावतेति । अव्यवधानेनेति । शाब्दबोधं प्रति नासत्तेरपि कारणत्वादिति
भावः । यजेतेत्यादाविति नञभावस्थलोदाहरणम् ।
● नाव्यवधानमात्रमन्वयप्रयोजकम्, किन्तु अन्वयप्रतियोगिता अन्याविशेषणीभूतेनावि
भाव्यम्, अन्य विशेषणीभूते पदार्थे अन्यान्वयस्यासाम्प्रदायिकत्वात् । प्रतक्ष धात्वर्थ •
ल्याव्यवहितत्वेऽप्यन्यविशेषणत्वात् न तत्र नञर्थस्यान्वयो भवितुमर्हतीति समाधानमाह -
मैवमिति । अन्वयायोगादिति । प्रतियोगितयेति शेषः । अन्योपसर्जनस्यान्यत्रान्वया•
भावे दृष्टान्तमाह-माभूदिति । माभूदिति नहीत्यर्थे । यस्मात् राज्ञः पुरुषपदार्थों उपसर्ज-
नतयान्वितस्यानयनपदार्थेऽन्वयो न भवितुमर्हतीत्यर्थ: । मारुण्यस्येति । सन्निहिताया
।
।
कायन्याः कारको पसजर्नत्वात् यथा न तत्रारुण्यान्वयः तद्वदित्यर्थः । ननु मास्तु धा
स्वर्थेनान्वयः । कलञ्जादिपदार्थै सह भवत्वन्वयः, तेषां तदभावात् इत्यत आह - नापीति ।
भिन्नपद्स्येति । प्रकृत्यर्थस्य कारकान्वयस्यैव व्युत्पन्नत्वात् 'तयोस्तु प्रत्ययः प्राधा.
न्येन' इति स्मरणात् 'परिपूर्ण पदं पदान्तरेणान्वेती' ति न्यायाच प्रथमतः स्वप
दोक्त कार कान्वयमुज्झित्वा नञर्थेनान्वयासम्भवादिति भावः । तत्र दृष्टान्तमाह - एकहा-
यन्या इति । एकहायन्याः करणस्वोपसर्जनीभूताया यथा न भिन्नपदोपात्तेनारुण्येना
न्वयः एवं प्रत्ययार्थोपसर्जनीभूतानां कलञ्जादीनां नञर्थेनान्वयो न सम्भवतीत्यर्थः ।
तर्हि कुत्रान्वयः ? तमाह-अतश्चेति । प्रत्ययार्थेन लिडर्थेन । तत्र कारणमाह -
तस्येति । "प्रकृतिप्रत्ययौ प्रत्ययार्थ सह व्रतस्तयोस्तु प्रत्ययः प्राधान्येन" इति
स्मृत्या प्रत्ययार्थस्यैव प्रधान्यावगमादित्यर्थः । ननु - प्रस्तुत आर्थीभावना या मेवा.
।
[^१
.
[^२
१
[^३
Pe