This page has been fully proofread once and needs a second look.

नुबन्धित्वम् । तथा हि- यथा विधयः प्रवर्तनामभिदधतः स्वप्रवर्तकस्वत्व-
निर्वाहार्थं विधेयस्य यागादेः श्रेयःसाधनत्वमाक्षिपन्तः पुरुषं तत्र प्रवर्तयन्ति,
एवं 'न कलअंञ्जं भक्षयेत्' इत्यादयो निषेधा अपि निवर्तनामभिद्धतः स्त्रनि
वर्तकत्व
वनि-
वर्तकत्व
निर्वाहार्थं निषेध्यस्य कलञ्जभक्षणादेरनर्थहेतुत्वमाक्षिपन्तः पुरुषं
ततो निवर्तयन्ति
 
[commentary]
 
प्रमाणान्तरानवगत मेवावबोग्ध्य तत्र प्रवर्तयति पुरुषम्, एवं कलजभक्षणादौ दुःखजन-
कत्वं प्रमाणान्तरेणानवगतमवबोध्य पुरुषं ततो निवर्तयति निषेध इति पुरुषाभिलषित-
फलसम्पादकत्वाविशेषात् विधीनामिव निषेधानामपि पुरुषार्थानुबन्धित्वमिति भावः
तदेवोपपादयति--तथा हीति । विधयः इति । " विधिनिमन्त्रणामन्त्रणाधीष्टस-
स्म्प्रश्नप्रार्थनेषु लिङ्" इति सूत्रे लिङादीनां प्रवर्तनायां शक्तिरित्यवधार्यते । प्रवर्त-
नात्वं च प्रवृत्त्यनुकूव्यापारत्वम् । अनुकूलत्वम् चात्र प्रवृत्तिजनकीभूतेष्टसानताज्ञानज-
नकत्वम् । यथा हि लोके 'चैत्रः पचेत्' 'गामानये' त्यादिवाक्यश्रवणोत्तरं शाब्दबोधे जाते
लिङाद्यर्थस्य प्रवृश्त्यनुकूलव्यापारस्येच्छारूपत्वेऽवगते वचनेङ्गितादिना च प्रयोक्तृपुरुष-
स्यातत्वेऽवगते श्रयमत्र प्रवर्ततामित्याकारका क्षेप्तेच्छाविषयीभूत कृतिविषयत्वरूपं हेतुज्ञानं
मानसं जायते, तेन च हेतुना पाकादाविष्टसानत्वानुमितिर्जायते, एवं वेदेऽपि लिङादिश्रव-
णोत्तरं प्रवर्तनाविषयकशाब्दबोघेधे जाते तत्र च पुरुषसम्बन्धाभावात् लिङा- दिनिष्ठत्वेऽव-
गते भ्रमाद्यसम्बन्धाच्चानाप्तभिन्न स्त्वेऽवगते यागादिविषयककृतिसम्बन्धाच्च 'यागेऽयं प्रवर्त
ता' मित्या कारकत्वेऽवगते यागादौ 'अयमत्र प्रवर्तता मित्याकार कव्यापारविषयी भूतकृति-
विषयत्वज्ञानं मानसं जायते । ततश्च यागादाविष्टसानत्वमनुमीयते । अनुमानप्रकारश्चे-
त्थम् - यागो मदिष्टसाधनम्, प्रतामित्याकारकव्यापारविषयीभूतकृतिविषयत्वात्,

यथा गवानयम्, इति

 
एवं निषेधवाक्येष्वपि निवर्तनाभिधीयते । निवर्तना च निवृत्यनुकूलो व्यापारः,
अनुकूलत्वं चात्र न पूर्ववत् निवृत्तिजनकी भूतानिष्सानताशाज्ञानजनकत्वरूपम् प्रवृत्ति-
प्रागभावरूपायाः तस्याः जन्यत्वासम्भवात् । किन्तु प्रवृत्तिसामप्ग्रीविघटकत्वमेव । निषेध-
वाक्यश्रवणोत्तरं हि निवर्तनाविषयकशाब्दबोघेधे जाते तस्याः श्रयमस्मान्निवर्तत।तामित्याकार
कर
-
कत्
वे लिंबागादिनिष्ठत्वादौ च पूर्ववदेवावगते कलञ्जभक्षणं मदनिष्टसाधनं, अयमस्मा-
न्निवर्तता मित्याकारकव्यापारविषयाभावप्रतियोगिकृतिविषयत्वात् इत्यनुमितिर्जायते
तथा

तया
चानुमित्या कञ्जभक्षणादौ पूर्वोत्पन्ना बलवद निष्ठाटाननुबन्धित्वरूपा प्रवृत्तिसामग्री वि
टंथते
घ-
टयते
। तद्विघटनाच्च प्रवृत्तिकारणाभावात् पुरुषो न प्रवर्तत इति । तदेतत् सर्वं मनसि
निघाधायाह – प्रवर्तनामधिद्--प्रवर्तनामभिदधत इत्यादिना । आक्षिपन्तः अनुमापयन्तः । अनर्थहे-
तुत्वं बलवदनिष्टाननुबन्धित्वम् । ततः अनिष्टजनकात् कर्मणः
 
सर्वत्र हि लिङ्घटितवाक्यस्यैव नज्ञ्युक्तत्वे निषेधपदेन व्यवहारः । लिङश्च प्रवर्त-
नायामेव शक्तिरनुशासनसिद्धा, न निवर्तनायामपि । नञश्चाभावे शक्तिः । तस्य च येन
सह सम्बन्धः तदभावबोधकत्वं प्रसिद्धम् । अतश्च यदि स धात्वर्थेन सम्बंधबध्नीयात् तदा
तदभावं बोधयेत् तस्य च धास्वर्थस्य लिर्थेनान्वये घाधात्वर्थ वर्जन कर्तव्यतैव प्रतीयेत