2023-04-02 16:42:03 by Veera Raagavan
This page has not been fully proofread.
सारविवेचिनो व्याख्या संवलितः
१५७
निर्वाहार्थं विधेयस्य यागादेः श्रेयःसाधनत्वमाक्षिपन्तः पुरुषं तत्र प्रवर्तयन्ति,
एवं 'न कलअं भक्षयेत्' इत्यादयो निषेधा अपि निवर्तनामभिद्धतः स्त्रनि
वर्तकत्व निर्वाहार्थ निषेध्यस्य कलञ्जभक्षणादेरनर्थहेतुत्वमाक्षिपन्तः पुरुषं
ततो निवर्तयन्ति ।
·
[commentary]
प्रमाणान्तरानवगत मेवावबोग्य तत्र प्रवर्तयति पुरुषम्, एवं कलजभक्षणादौ दुःखजन-
कत्वं प्रमाणान्तरेणानवगतमवबोध्य पुरुषं ततो निवर्तयति निषेध इति पुरुषाभिलषित-
फलसम्पादकत्वाविशेषात् विधीनामिव निषेधानामपि पुरुषार्थानुबन्धित्वमिति भावः ।
तदेवोपपादयति — तथा हीति । विधयः इति । " विधिनिमन्त्रणामन्त्रणाधीष्टस-
स्प्रश्नप्रार्थनेषु लिङ्" इति सूत्रे लिङादीनां प्रवर्तनायां शक्तिरित्यवधार्यते । प्रवर्त-
नात्वं च प्रवृत्त्यनुकूळव्यापारत्वम् । अनुकूलत्वम् चात्र प्रवृत्तिजनकीभूतेष्टसाघनताज्ञानज-
नकत्वम् । यथा हि लोके 'चैत्रः पचेत्' 'गामानये' त्यादिवाक्यश्रवणोत्तरं शाब्दबोधे जाते
लिङाद्यर्थस्य प्रवृश्यनुकूलव्यापारस्येच्छारूपत्वेऽवगते वचनेङ्गितादिना च प्रयोक्तृपुरुष
स्यातत्वेऽवगते श्रयमत्र प्रवर्ततामित्याकारका क्षेच्छाविषयीभूत कृतिविषयत्वरूपं हेतुज्ञानं
मानसं जायते, तेन च हेतुना पाकादाविष्टसाघनत्वानुमितिर्जायते, एवं वेदेऽपि लिङादिश्रव-
णोत्तरं प्रवर्तनाविषयकशाब्दबोघे जाते तत्र च पुरुषसम्बन्धाभावात् लिङा दिनिष्ठत्वेऽव-
गते भ्रमाद्यसम्बन्धाच्चानाप्तभिन्न स्वेऽवगते यागादिविषयककृतिसम्बन्धाच्च 'यागेऽयं प्रवर्त
ता' मित्या कारकत्वेऽवगते यागादौ 'अयमत्र प्रवर्तता मित्याकार कव्यापारविषयी भूतकृति-
विषयत्वज्ञानं मानसं जायते । ततश्च यागादाविष्टसाघनत्वमनुमीयते । अनुमानप्रकारश्चे-
त्थम् - यागो मदिष्टसाधनम्, प्रतामित्याकारकव्यापारविषयीभूतकृतिविषयत्वात्,
यथा गवानयम्, इति ।
>
a
एवं निषेधवाक्येष्वपि निवर्तनाभिधीयते । निवर्तना च निवृत्यनुकूलो व्यापारः,
अनुकूलत्वं चात्र न पूर्ववत् निवृत्तिजनकी भूतानिष्ठसाघनताशानजनकत्वरूपम् प्रवृत्ति-
प्रागभावरूपायाः तस्याः जन्यवासम्भवात् । किन्तु प्रवृत्तिसामप्रीविघटकत्वमेव । निषेध-
वाक्यभवणोत्तरं हि निवर्तनाविषयकशाब्दबोघे जाते तस्याः श्रयमस्मान्निवर्तत।मित्याकार •
करवे लिंबादिनिष्ठत्वादौ च पूर्ववदेवावगते कलञ्जभक्षणं मदनिष्टसाधनं, अयमस्मा-
निवर्तता मित्याकारकव्यापारविषयाभावप्रतियोगिकृतिविषयत्वात् इत्यनुमितिर्जायते ।
तथा चानुमित्या कळञ्जभक्षणादौ पूर्वोत्पन्ना बलवद निष्ठाननुबन्धित्वरूपा प्रवृत्तिसामग्री विध
टंथते । तद्विघटनाच्च प्रवृत्तिकारणाभावात् पुरुषो न प्रवर्तत इति । तदेतत् सर्व मनसि
निघायाह – प्रवर्तनामधिद्धत इत्यादिना । आक्षिपन्तः अनुमापयन्तः । अनर्थहे-
तुत्वं बलवदनिष्टाननुबन्धित्वम् । ततः अनिष्टजनकात् कर्मणः ।
सर्वत्र हि लिङ्घटितवाक्यस्यैव नज्युक्तत्वे निषेधपदेन व्यवहारः । लिङध प्रवर्त-
नायामेव शक्तिरनुशासनसिद्धा, न निवर्तनायामपि । नञश्चाभावे शक्तिः । तस्य च येन
सह सम्बन्धः तदभावबोधकत्वं प्रसिद्धम् । अतश्च यदि स धात्वथन सम्बंधनीयात् तदा
तदभावं बोधयेत् तस्य च धास्वर्थस्य लिडर्थेनान्वये घात्वर्थ वर्जन कर्तव्यतैव प्रतीयेत
>