This page has been fully proofread once and needs a second look.

स चाष्टदोष[^१]दुष्ट इति । तस्मा" द्वैश्वदेव्यामिक्षे" त्यत्रैव यागविधानम्
इतरस्थं त्वनुवादत्वम् । अनुवादत्वे च यथा नानर्थक्यं तथोक्तमित्यास्तां
तावत् । तत्सिद्धम् वैश्वदेवशब्दस्य कर्मनामधेयत्वम्
 
तदेवं निरूपितं मत्वर्थलक्षणादिप्रकार चतुष्टय निरूपणेन नामधेयस्य विधे-
यार्थपरिच्छेदकत्वेनार्थवत्त्वम्
 
( निषेधानां पुरुषार्थानुबन्धित्वनिरूपयाम् )
अनर्थहेतोः कर्मणः सकाशात् पुरुषस्य निवृत्तिकर
त्वेन निषेधानां पुरुषार्था-
 
[commentary]
 
विकल्पेरन्" इति द्वादशिकन्यायेन द्वयोर्ब्द्रव्ययोः विकल्पः पर्यवस्येत् इत्याह - --तथा
चेति । अस्तु विकल्पः, यजिकल्पनापेक्षया तस्य लघुत्वात् । नैवमित्याह - ल--स चेति
विकल्पश्चेत्यर्थः । भ। अष्टदोष इति बहुव्रीहिः । श्रौ। अष्टौ दोषाश्च - --'व्रीहिभिर्यजेत'
'यवैर्यजेत' इति शास्त्रद्वयेन वीव्रीहीणां यवानां च विकल्पोऽवगम्यते । अविशेषाच्च द्वयो.-
रपि शास्त्रयोः प्रामाण्यं प्रमितम् । तत्र प्रथमं श्व्रीह्यनुष्ठाने यवशास्त्रे प्रतीतप्रामाण्यपरि-
त्यागः अप्रतीताप्रामाण्यपरिकल्पनं चेति द्वौ दोषौ । पुनश्च यवानुष्ठाने तत्रैव पूर्वत्यत्तस्यवं त्यक्तस्त
प्रामाण्यस्य पुनरुज्जीवनम्, स्वीकृतस्याप्रामाण्यस्य परित्यागः, इति द्वौ दोषौ । तदेवं
प्रथमं व्रीह्यनुष्ठाने यवशास्त्रे चत्वारो दोषाः । एवं प्रथमं यवानुष्ठाने ब्रव्रीहिशास्त्रे चत्वारः
त्याष्टौ दोषाः । एवञ्च उत्पत्तिशिष्टगुणबलीयस्त्वरूप पश्चमप्रकारेण वा तत्प्रख्यन्या-
येन वा वैश्वदेवशब्दस्य कर्मनामधेयत्वं तावत् सिद्धमे वेत्युपसंहरति - -तत्सिद्ध मिति
 
वस्तुतस्तु यद्यप्यत्र तस्त्प्रख्यन्यायेनैव नामधेयत्वं तथापि केवलस्य तस्य न सर्वत्र
प्रवृत्तिनिमित्तसम्पादकत्वम्, तेनामिक्षायाग एव तत्सम्पादनात् । नापि विश्वदेवकर्तृकत्वं
प्रवृत्तिनिमित्तम् । तस्यालीकत्वात् । अतश्चाग्नेयादिषु गुण विध्यसम्भव सम्पादनार्थं उत्पत्ति-
शिष्ट गुण बलीयस्त्वस्यापि सहकारित्वस्यावश्याभ्युपगन्तव्यतया उत्पत्तिशिष्ट गुण बलीय-
रस्स्त्वसहकृततत्प्रख्यन्यायस्यैवात्र नामत्वे निमित्तत्वं वक्तव्यम् । एतदभिप्रायेणैव च वार्तिके
उभयमप्युपात्तमिति ध्येयम्
 
नामधेयनिरूपण प्रकरणमुपसंहरति- तदेवमिति
 
( निषेधानां पुरुषार्थानुबन्धित्वनिरूपणम्)
 
6-
एवं नामधेयत्व निमित्तानि निरूप्य क्रमप्राप्तं निषेधानामर्थवत्वप्रकारं निरूप-
यितुमारमते - --अनर्थेति । अनर्थो नरकादिः, तद्धेतुभूतं यत् कर्म कलञ्जभक्ष.-
णादिकं तादृशात् कर्मण इत्यर्थः । निवृत्तिकरत्वेन निवृत्तिजनकत्वेन । पुरु
पा
-
षा
र्थानुबन्धित्वमिति । यथा हि वियः इष्टसानीभूते कर्मणि पुरुषं प्रवर्तयन्तः
पुरुषार्थपर्यवसायिनः एवं निषेधा अपि अनिष्सानीभूतात् कर्मणः पुरुषस्य
निवृत्तितिं जनयन्तः पुरुषार्थानुवन्धिन इत्यर्थः । पुरुषस्य हि यथा सुखप्राप्ति.-
रभिलषिता एवं दुःखनिष्वृत्तिरपि । अतश्च यथैव सुखं जानन्नपि तत्साधनज्ञाना-
भावात् न तत्र प्रवर्तते पुरुषः, तथैव दुःखाभावं जानन्नपि कलञ्जभक्षणादौ दुःखज-
नकत्वमजानानः न ततो निवर्तते । तस्याञ्चावस्थायां यथा विधिः यागादौ सुखसाधन'त्व-
[^१] 'अष्टदोष इति' इति क.