This page has not been fully proofread.

१५६
 
मीमांसान्यायप्रकाशः
 
[ निषेध-
स चाष्टदोष ([^) ]दुष्ट इति । तस्मा" द्वैश्वदेव्यामिक्षे" त्यत्रैव यागविधानम् ।

इतरस्थ त्वनुवादत्वम् । अनुवादत्वे च यथा नानर्थक्यं तथोक्तमित्यास्तां

तावत् । तत्सिद्धम् वैश्वदेवशब्दस्य कर्मनामधेयत्वम् ।
 

 
तदेवं निरूपितं मत्वर्थलक्षणादिप्रकार चतुष्टय निरूपणेन नामधेयस्य विधे

यार्थपरिच्छेदकत्वेनार्थवत्त्वम् ।
 

 
( निषेधानां पुरुषार्थानुबन्धित्वनिरूपयाम् )

अनर्थहेतोः कर्मणः सकाशात् पुरुषस्य निवृत्तिकर

त्वेन निषेधानां पुरुषार्था

 
[commentary]
 
विकल्पेरन्" इति द्वादशिकन्यायेन द्वयोर्ब्रव्ययोः विकल्पः पर्यवस्येत् इत्याह - तथा

चेति । अस्तु विकल्पः, यजिकल्पनापेक्षया तस्य लघुत्वात् । नैवमित्याह - ल चेति ।

विकल्पश्चेत्यर्थः । भष्टदोष इति बहुव्रीहिः । श्रौदोषाश्च - 'व्रीहिभिर्यजेत'

'यवैर्यजेत' इति शास्त्रद्वयेन वीहीणां यवानां च विकल्पोऽवगम्यते । अविशेषाच द्वयो.

रपि शास्त्रयोः प्रामाण्यं प्रमितम् । तत्र प्रथमं श्रीह्यनुष्ठाने यवशास्त्रे प्रतीतप्रामाण्यपरि

त्यागः अप्रतीताप्रामाण्यपरिकल्पनं चेति द्वौ दोषौ । पुनश्च यवानुष्ठाने तत्रैव पूर्वत्यत्तस्य

प्रामाण्यस्य पुनरुज्जीवनम्, स्वीकृतस्याप्रामाण्यस्य परित्यागः, इति द्वौ दोषौ । तदेवं

प्रथमं व्रीयनुष्ठाने यवशास्त्रे चत्वारो दोषाः । एवं प्रथमं यवानुष्ठाने ब्रहिशास्त्रे चत्वारः ।

आइत्याष्टौ दोषाः । एवञ्च उत्पत्तिशिष्टगुणबलीयस्त्वरूप पश्चमप्रकारेण वा तत्प्रख्यन्या-

येन वा वैश्वदेवशब्दस्य कर्मनामधेयत्वं तावत् सिद्धमे वेत्युपसंहरति - तत्सिद्ध मिति ।
 

 
वस्तुतस्तु यद्यप्यत्र तस्प्रख्यन्यायेनैव नामधेयत्वं तथापि केवलस्य तस्य न सर्वत्र

प्रवृत्तिनिमित्तसम्पादकत्वम्, तेनामिक्षायाग एव तत्सम्पादनात् । नापि विश्वदेवकर्तृकत्वं

प्रवृत्तिनिमित्तम् । तस्यालीकत्वात् । अतश्चाग्नेयादिषु गुण विध्यसम्भव सम्पादनार्थं उत्पत्ति

शिष्ट गुण बलीयस्त्वस्यापि सहकारित्वस्यावश्याभ्युपगन्तव्यतया उत्पत्तिशिष्ट गुण बलीय-

रस्वसहकृततरप्रख्यन्यायस्यैवात्र नामत्वे निमित्तत्वं वक्तव्यम् । एतदभिप्रायेणैव च वार्तिके

उभयमप्युपात्तमिति ध्येयम् ॥
 

 
नामधेयनिरूपण प्रकरणमुपसंहरति- तदेवमिति ॥
 

 
( निषेधानां पुरुषार्थानुबन्धित्वनिरूपणम्)
 

 
6-

एवं नामधेयत्व निमित्तानि निरूप्य क्रमप्राप्तं निषेधानामर्थवत्वप्रकारं निरूप-

यितुमारमते - अनर्थेति । अनर्थो नरकादिः, तद्धेतुभूतं यत् कर्म कलजभक्ष.

णादिकं तादृशात् कर्मण इत्यर्थः । निवृत्तिकरत्वेन निवृत्तिजनकत्वेन । पुरु

पार्थानुबन्धित्वमिति । यथा हि विषयः इष्टसाघनीभूते कर्मणि पुरुषं प्रवर्तयन्तः

पुरुषार्थपर्यवसायिनः एवं निषेधा अपि अनिष्ठसाघनीभूतात् कर्मणः पुरुषस्य

निवृत्ति जनयन्तः पुरुषार्थानुवन्धिन इत्यर्थः । पुरुषस्य हि यथा सुखप्राप्ति.

रभिलषिता एवं दुःखनिष्वृत्तिरपि । अत यथैव सुखं जानन्नपि तत्साधनज्ञाना•

भावात् न तत्र प्रवर्तते पुरुषः, तथैव दुःखाभावं जानन्नपि कलअभक्षणादौ दुःखज•

नकत्वमजानानः न ततो निवर्तते । तस्याञ्चावस्थायां यथा विधिः यागादौ सुखसाधन'

[^
.] 'अष्टदोष इति' इति क.
 
2