This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनीव्याख्यासंवलितः
 
१५५
 
योऽष्टाकपालः सौम्यश्चर" रित्यादिवाक्यैन्यैश्वदे'यामिक्षे' ([^)ति वाक्यस्य
]ति वाक्यस्य
प्रायपाठी रक्षितो भवति । अन्यथा हि तेषु सर्वेषु द्रव्यदेवतासम्बन्धक

ल्पितयागविधानमत्र च द्रव्यमात्र विधानमिति वैरुप्यं प्रसज्येत ।o1510

किश्च 'वैश्वदेवेन यजेते त्यत्र वैश्वदेवशब्दस्य देवतासमर्पकत्वे 'यद्धि-

श्वे देवाः समयजन्त तद्वैश्वदेवस्य वैश्वदेवत्वम्' इत्येतस्यार्थवादस्या-

त्यन्तमेव निरालम्बन ([^) ]त्वं स्यात् । एतदर्थवादाद्धि वैश्वदेवशब्दो विश्वदेव-

कर्तृकत्वेन कर्मणि प्रवृत्त इति ज्ञायते । ([^) ]तत् देवतासमर्पकत्वे विरुध्यते ।

किश्व 'वैश्वदेवेन यजेते'त्यस्य यागविधित्वे श्रामिक्षाया नोत्प
 

तिशिष्टत्वम् । तथा च तथा न वाजिनं बांधितुं शक्यत इति उभ

योरपि श्रामिक्षावाजिनयोर्यागाङ्गत्वं स्यात् । तथा च विकल्पः ।

 
[commentary]
 
हादिपदान्तरस्यैवोद्देश्यसमर्पकत्वस्य शतशोऽङ्गीकरणवत् प्रकृतेपि श्रामिक्षापदस्यैव तद

ङ्गीक्रियताम् । सति चैवं नैकप्रसरताविरोधः, नापि यजिकल्पना गौरवमित्यत आह - एव.

ञ्चेति । 'आग्नेयोऽष्टाकपाल' इत्यादीनि हि वाक्यानि यागविघायकानि । तेषां

मध्ये वैश्वदेव्यामिति पठितम् । यदि अस्यापि वाक्यस्य कर्मविधायकत्वमङ्गीक्रियेत

तदानीमेव तन्मध्यपाठस्सङ्गतो भवतीत्यर्थः । प्रायपाठः सहचरितपाठः । यागविधाय-

कवाक्य मध्ये पठितस्य वाक्यस्य यागविधायकत्वस्यैवोचितत्वात् । तदभावे दोषमाइ-

अभ्यथेति । अत्र सर्वत्रापि प्रथमान्तपदश्रवणात् यागवाचकपदाश्रवणाच्च द्रव्यदेवता

सम्बन्धान्यथानुपपस्यैव यागस्य कल्पनीयत्वात् तद्शापनार्थं द्रव्यदेवतासम्बन्चेत्याद्युक्तम् ।

इदं च मैत्रायणीयशाखामनुसृत्योक्तम् । तत्रैव प्रथमान्तपाठस्य श्रवणात्। यदा तु तैत्ति-

• रीयशाखा स्थ: पाठ आद्रियते तत्र द्वितीयान्तपाठस्यैव श्रवणात् तदा पूर्वोक्तमास्म कीनं

समाधानं बोध्यम् ।
 

 
D
 

 
BEFOR
 

 
नन्चयं प्रायपाठोऽकिञ्चित्करः । चारादुपकारकप्रयाज चतुष्टयप्राये पठितस्यापि पञ्चमे•

प्रयाजस्य सन्निपत्योपकारकत्वाङ्गीकरणात् श्राइहवनीयाद्यग्निसम्पादक गुण कर्मभूत ब्राह्म-

यदि त्रैवर्णिक कर्तृकाधानप्राये पठितस्यापि रथकाराधानस्वार्थ कर्मत्वाङ्गीकरणात् । अतो

यजिकल्पनापरिहारार्थ एकप्रष्ठरताभनपरिहारार्थे च गुणविधित्वमेवाङ्गीक्रियता मित्यत

आह - किञ्चेति । निरालम्बनत्वमिति । निर्विषयत्व मित्यर्थः ।
 

 
ननु देवतानां ([^)] विहादिपश्चकस्य नवमे निराकृतत्वात् षष्ठे तिर्यगधिकरणे

च तासां कर्मण्यधिकाराभावस्य साधितत्वात् अर्थवादस्यास्य यथाकथश्चित् स्तुतिमात्रपर--

त्वेनाप्युपपत्ती न देवताविधिप्रतिबन्धकावं भवितुमर्हतीत्यत आह - किञ्चेति । उत्पत्ति-

शिष्टत्वाभावे दोषमाह - तथा चेति । तथा श्रमिया । शक्यत इति । तुल्यबलयो:

परस्परं श्रात्यन्तिकबाघासम्भवादिति भावः । यागाङ्गत्वमिति । वैश्वदेव वाक्यविहि-

तयागामस्वमित्यर्थः । अस्तु तथैव, का हानिरिति चेत् । यथेवं तर्हि "एकार्थास्तु-

[^
] इत्यस्य इति क. इत्यस्य इति क. [^.] निरालम्बः स्यात् इति क. [^.] 'तद्देवता समर्पकत्वेन

[^
.] विग्रहो हविषां भोग ऐश्वर्यन्त्र प्रसन्नता । फलप्रदानमित्येतत् पञ्चकं विग्रहादिकम् ॥