This page has been fully proofread once and needs a second look.

किश्ञ्च वैश्वदेवीशब्दोंदो देवतातद्धितत्वादामिक्षां[^१]तत्वेन व्रब्रूत इत्युक्तम्
तत्र विश्वदेवानुवादेन द्रव्यविधानं वैश्वदेवीशब्देनैव कर्तव्यं, पदश्रुतेः । यथा
भावनायां करण समर्पणं धातुनैव क्रियते पदश्श्रुतेः, न तूपपदेनेत्युकं भावार्था-
धिकरणे तद्वत् । तत्र च "वषट्कर्तुः प्रथमभक्ष" इतिवदेकप्रसरताविरोधः
अतो यागानुवादेनापि[^२] द्रव्यविधानार्थं 'वैश्वदेव्यामिक्षे 'त्यत्र यजिकल्पनं
तावदवश्यं कर्त्तव्यम्
 
[^३]अतश्च पशुसोमाधिकरणन्यायवैषम्यम् । 'ऐन्द्रवायवं गृह्णाती'त्यत्र
देवताविशिष्टग्रहण विधानेन यज्यकल्पनात् । यजिकल्पने च 'वैश्वदेव्यामिक्षे'-
त्यत्रैव द्रव्यदेवताविशिष्टकर्मविधानं युक्तम्, रुरूपद्वयश्रवणात् । एवञ्च "आग्ने-
 
[commentary]
 
प्यापतेत् । अतश्च यथैव तत्र द्वाभ्यां बहुभिर्वा पशुभिः यागकरणापत्तिः तद्वदत्रापि येन
केनापि द्रव्येण यागानुष्ठानापत्तिरित्यपि हृदयम्
 
.

 
ननु देवतोद्देशेन द्रव्यविधानेपि एतद्वाक्यबोधितस्य सम्बन्धस्य
'न क्रियागर्भसम्बन्धादृते सम्बन्धनं कवचित्'
 
इति न्यायेन क्रियाघटितत्वात् तादृश्याश्च देवता सम्बन्धनघटनसमर्थायाः यागादृतेऽ.-
सम्भवात् यागापेक्षायां वैश्वदेववाक्यविहितस्योपस्थितस्यान्वयात् तत्रैव द्रव्यविधानस्य
पर्यवसानात् सिध्यस्त्येव यागसम्बन्ध इत्यत आह - --किञ्चेति । तत्वेनेति । देवताविशि-
ष्टद्रव्यत्वेनेत्यर्थः
 
30

 
"नैव हि द्रव्यमात्रस्य तद्धितैर्देवतोच्यते

अस्य शब्दाभिधेयस्य विशेषस्यैव सा स्मृता"

इति न्यायेन द्रव्यविशेषस्यैव तद्धितेनोकत्वात् क्तत्वात्। अत एव च --
"श्रामिक्षां देवतायुक्तां वदत्येवैष तद्धितः"
 
इति पूर्वमुत्क्तमिति भावः । अस्तु, तावता किमायातम् ? अत आह-तत्रेति
वैश्वदेवीति । प्रकृत्यंशेन देवतामनूद्य प्रत्ययांशेन द्रव्यं विधेयमिति भावः । अस्त्वेवं,
को दोषः ? श्रत आह-तत्रेति । न हि यजेतेत्यादौ प्रत्ययार्थभावनोद्देशेन प्रकृत्यर्थया.-
गविधानम्, येन तत्राध्प्येकप्रसरताभङ्ग श्राशङ्क्येत, किन्तु श्रप्राप्तभावना विशिष्टयागविधा-
नमेव । प्रकृते तु देवतायाः प्राप्तत्वेन विधनासम्भवात् तदनुवादेनैव द्रव्यविध्यवश्यंभावेन
न एकप्रसरताविरोधदोषात् विमुक्तिरिति भावः । श्र। अतश्च वैयर्थ्यपरिहारार्थं यागोद्देशेनैव
द्रव्यविधेरवश्याजीस्वीकरणीयत्वेन तदर्थं यजिकल्पनमावश्यक मेवेत्याह-अत इति । यागा.-
नुवादेनापीस्य त्यपिशब्दः एवकारार्थकः । यागानुवादेनैव द्रव्यं विधातव्यम् । तदर्थं च यजि-
कल्पनमावश्यक मेवेत्यर्थः । अथवा अपिशब्दो भिन्नक्रमः । द्रव्यविधानार्थमित्यत्रान्वेति
 
कल्पिते च यजिपदे तत्रैव यागविधिरङ्गीक्रियताम् । किमर्थं वैश्वदेववाक्ये विशिष्ट-
विष्ध्यङ्गीकरणरूपं गौरवमाश्रीयते इत्याइ- यजिकल्पने चेति । रूपद्वयश्रवणादिति
द्रव्यस्य देवतायाश्च श्रवणादित्यर्थः । ननु "यस्य पर्णमयी जुहूर्भवती" त्यादौ तद्धि-
तस्य द्रव्यविशेषवा चित्वेऽपि एकप्रसरताभङ्ग परिहारार्थं विशेष समर्पकस्य समभिव्याहृतजु.-
[^१]. 'श्रमिक्षान्तर्गतत्वेन बू०; श्रमिक्षान्तर्गतार्थः । [^२]. कपुस्तके अपिर्नास्ति ।
 
[^३] ततः ।