This page has been fully proofread once and needs a second look.

प्रकृतेऽपि द्रष्टव्यम् । पञ्चमप्रकारकल्पने प्रमाणाभावात् । अत एव वैश्वदेवा.-
धिकरणे वार्तिककारैरैरेवमुपसंहृतम् - -'तत्प्रख्यतयैव सर्वेषां नामधेयत्वम्' इति
यच्चोत्पत्तिशिष्टगुणबलीयस्त्वमुक्तं तत् गुणविध्यसँसंभवे युक्त्यभ्युच्चयमात्रम्

तत्सिद्धं तत्प्रख्यशास्त्रादेव[^१] वैश्वदेवशब्दस्य कर्मनामधेयत्वमिति
 
[commentary]
 
दयोऽपि शब्दा द्रष्टव्याः । एवञ्चानेनार्थवा देनावगतं ज्योति स्सम्बन्धमादायैव यथा ज्योति-
ष्टोमशब्दस्य कर्मनामधेयत्वमुररीकृतं एवं प्रकृतेऽप्यर्थवादावगतं विश्वदेवसम्बन्धमादा.-
यैव तत्प्रख्यन्यायेन नामत्वोपपत्तीतौ प्रकारान्तरकल्पनं नोपपत्तिमदित्याह एवमिति। अत्र
वार्तिककारसम्मतिमाह-त एवेति । तत्प्रख्यतयेति । तत्प्रख्यन्यायेनैव वैश्वदेव-
शब्दस्याग्नेयादि सर्वयागनामधेयत्वमित्यर्थः । अत्र तत्प्रख्यतयैवेत्येवकारः प्रकारान्तर-
व्यावर्तकः । एवञ्च यत्र यत्र नामधेयत्वं वक्तव्यं तत्र सर्वत्र एतच्चतुष्टयान्य तमे नैव केन-
चित् प्रकारेण तत् वक्तव्यम्, न त्वतिरिक्तप्रकाराश्रयणं युक्तमिति वार्तिकाशय इति भावः
यद्येवं तर्हि किमर्थमेतदधिकरणसिद्धान्तारम्भे वार्तिककारैः "अग्न्यादयो हो" ही"त्यादिना
उत्पत्तिशिष्टगुणस्य बलीयस्त्वमुपपादितम् ? तत्राह- तदिति
 
-

 
ननु 'वैश्वदेवेन यजेते' त्यत्र देवता विशिष्टष्कर्म विधानमङ्गीकृस्य तादृश कर्मोद्दे.-
शेन "वैश्वदेव्यामिक्षा" इति वाक्यॆयेन गुणविधिरङ्गीक्रियते । तदा च न कस्याप्यान-
थंर्थक्यम् । हविष्षु च संख्यावृद्धेरभावात् ना"ष्टौ हवींषोषी"ति लिङ्गविरोधः। अतश्च
किमर्थं वैश्वदेवशब्दस्य कर्मनामधेयत्वमङ्गीक्रियत इतीमामाशङ्कां पूर्वस्मिन् पचेक्षे गूढा,-
भिसन्धितो निराकृतामपि गृहीताशयो यथाश्रुतग्राही पशुसोमाधिकरणदृष्टान्तेन पुनस्ता-)
 

सुतमिति चतुर्थम् । तान्येतानि प्रातस्सवने गायत्रसाम्ना गीयमानानि चत्वार्याज्यस्तोत्राणीत्युच्यन्ते
तन्निवंर्वचनं च ध्यये – श्रूयते--"यदाजिमीयुस्तदाज्यानामाज्यस्त्वमि"ति । तेष्वाज्यस्तोत्रेषु पञ्चदशनामक.-
स्तोमो भवति । तस्य स्तोमस्य विष्टुतिरेवमाम्नाय ते --'पञ्चभ्यो हिंकरोंरोति स तिसृभिः स एकया स
एकया, पञ्चभ्यो हिँहिंकरोति स एकया स तिसृभिः स एकया, पञ्चभ्यो हिंकरोति स एकया स एकया
स तिसृमि भि" रिति । एकं सूक्तं त्रिरावर्तनीयम् । तत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः, द्वितीयावृत्तौ
मध्यमायाः, तृतीयावृत्तावुत्तमायाः । सोऽयं पञ्चदशस्तोमः । उक्तेभ्यश्चतुर्भ्यः सूक्तेभ्य ऊर्ध्वमुत्तरा-
ग्रन्थे त्रीणि माध्यन्दिनपवमानसूक्तान्याम्नाय तत ऊर्ध्वं च चत्वारि सुसूक्तान्याम्नातानि । तेषु "अभि स्त्वा
शूर नोनुम" इत्याद्यम्, "कयानश्चित्र आभुवदि" ति द्वितीयम् । "तँ। "तं वो दस्म मृतीषहमि" ति तृतीयम्
"तरोभिर्वो विदद्वसुमि "ति चतुर्थम् । एतानि क्रमेण रथन्तरवामदॆदेव्य नौसकालेय सामभिर्माध्यन्दिन-
सवने गीयमानानि पृष्ठस्तोत्राणीत्युच्यन्ते । "स्पर्शनात्पृष्ठानि" इत्येवं निरुक्तिर्द्रष्टव्या । तेषु स्तोत्रेषु
सप्तदशस्तोमो भवति । तस्य स्तोमस्य विष्टतिरेवमाम्नायते - -"पञ्चभ्यो हिहिंकरोति स तिसृभिः स एकया स
एकया, पञ्चभ्यो हिङ्करोति स एकया स तिसृभिस्स एकया, सप्तभ्यो हिहिंकरोति स एकया स तिसृभिः । स
तिसृभिरि" ति। अत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः, द्वितीयावृत्तौ मध्यमायाः, तृतीयावृत्तौ
मध्यमोत्तमयोः । सोऽयं सप्तदशस्तोमः ॥ अग्निष्टोमे चैकविंशतिस्स्तोमःएकविंशस्तोमस्य विष्टुतिरेक-
माम्नाता--"सप्तभ्यो हिंकरोति स तिसृभिस्स तिसृभिस्स एकया, सप्तभ्यो हिंकरोति स एकया स तिसृमि ·भि
स्स तिसृभिः, सप्तभ्यो हिंकरोति स तिसृभिस्स एकया स तिसृभिः" इति । अत्र प्रथमावृत्तौ प्रथमायास्तृ.-
चः द्वितीयायाश्च । वारत्रयमावृत्तिः, तृतीयायास्सकृत् । द्वितीया वृत्तौ प्रथमायास्सकृत्, द्वितीय तृतीययो स्त्रि-
स्त्रिः । तृतीयावृत्तौ प्रथमातृतीययोस्त्रि स्त्रिरावृत्तिः मध्यमायाश्च सकृत् ॥ एत एव त्रिवृदादयस्तोमा उच्यन्ते

[^१] तत्प्रख्यतयैव इति. क. ।