This page has been fully proofread once and needs a second look.

चेत् संबन्धः शास्त्रान्तरप्रतिपन्नः तदा तस्य शब्दस्य तन्नामधेयत्वं तत्प्रख्य-
शास्त्रात्। तच्च शास्त्रान्तरं विधिर्वा अर्थवादो वेत्यत्राऽनादरः। तत्राग्निहोत्र-
शब्देऽग्निसंबन्धबोधकं शास्त्रान्तरं विधिरेव। वैश्वदेवशब्दश्च विश्वदेव-
संबन्धं कर्मणि बोधयति। विश्वदेवसंवन्धश्चाऽष्टसु यागेषु "यद्विश्वेदेवा-
स्समयजन्त, तद्वैश्वदेवस्य वैश्वदेवत्वम्" इत्यर्थवादावगतः।
 
न च विधिरेव तत्प्रख्यशास्त्रं नार्थवाद इत्यत्र किञ्चित् प्रमाणमस्ति।
अत एच "ज्योतिष्टोमेन स्वर्गकामो यजेते"त्यत्र ज्योतिष्टोमशब्दः "एतानि
वाव तानि ज्योतींषि य एतस्य स्तोमाः" इत्यर्थवादावगतं ज्योतिस्सम्बन्धं
निमित्तीकृत्य सोमयागे प्रवर्तमानस्तत्प्रख्यशास्त्रान्नामधेयं भवति। एवं
 
[commentary]
 
प्रेतश्शब्दो विवक्षितः। यद्गुणेति कर्मधारयः । तन्नामधेयत्वं तादृशकर्मनामधेयत्वम्
अनादर इति । एवञ्च प्रापकेण विधिनैव भाव्यमित्यभिमन्वानेन भवता तदर्थं प्रमाणासि-
द्पञ्चमप्रकाराङ्गीकरणं व्यर्थमेवेति भावः । विधिरेवेति । यद्यप्येतन्मते मन्त्रवर्णस्य तत्र
देवतासमर्पकत्वं तथापि तन्मतानुसारेणेदमुक्तम् । यद्विश्वेदेवा इति । यस्मात् विश्वे
देवा यागाष्टकमिदमन्वतिष्ठन् तस्मात् विश्वदेवकृतत्वात् आग्नेयादियागाष्टकस्य वैश्त्र-
देवशब्दवाच्यत्वमिति वाक्यार्थः
 
a
 

 
अत
एव प्रार्थवादस्य तत्प्रख्यशास्त्रत्वाभावे प्रमाणाभावादेव । ज्योतिष्टोमशब्द
इति नामधेयं भवतीत्यनेन सम्बध्यते । एतानीति । तैत्तिरीयब्राह्मणे पञ्चमप्रपाठकैके ज्योति-
ष्टोमनामनिर्वचनावसरे- "यदाहु: । कतमानि तानि ज्योतीषि । य एतस्य
स्तोमा इति" इति प्रश्नमुपक्षिप्य अनन्तरं "त्रिवृत् पञ्चदशस्सप्तदश एकविंविꣳशः ।
एतानि वाव तानि ज्योतोषि । य एतस्य स्तोमाः" इति समाहितम् । ब्रह्मवा
दिनः एवं पृच्छन्ति - -ये प्रकृतस्य यज्ञस्य स्तोमा भवन्ति कानि तानि ज्योतिः पदवाच्या नीति
प्रश्नार्थः । ये त्रिवृदादयः स्तोत्रसंख्या विशेषाः ज्योति तिःपदवाच्याः त एवास्य स्तोमा इश्त्यु-
त्तरवाक्यार्थः । स्तोत्रसानीभूतस्तोत्रीयानवकं ([^)] त्रिवृच्छन्ब्देनाभिधीयते । एवं पञ्चदशा-

 
[^
.] त्रिवृदादिपदानामर्थनिर्णयश्चेत्थम् - --ज्योतिष्टोमे सन्ति द्वादशस्तोत्राणि - --बहिष्पवमान मेकम्,
चत्वार्याज्यस्तोत्राणि, माध्यन्दिनपवमानमेकम्, चरवारि पृष्ठानि, आर्भवपवमान मेकम्, यज्ञायज्ञीयमेक-
मितिं ति। स्तोत्रं नाम प्रगीतमन्त्रसाध्य गुणिनिष्ठगुणाभिधानम् । तदिदं स्तोत्रं सदोनाममण्डपे श्रौदुम्ब-
र्याख्य स्थूणासमीपे उपविष्टैरुद्गातृप्रस्तोतृप्रतिहत्राख्यैस्त्रिभिः ऋत्विग्भिः कर्तव्यस्त्वेन विहितम् । तत्रै-
कैकस्य स्तोत्रस्य "एकं साम तृचे क्रियते स्तोत्रीय "मिति विधिलात्तिसृषु ऋतुक्षु एकं साम गातव्यं भवति
तत्र च त्रिवृत्, पञ्चदशः, सप्तदशः, एकविंशः, त्रिणवः, त्रयस्त्रिंशः, च
:, च
तुर्विंशः, चतुश्चत्वारिंशः, अष्टाचत्वारिरिं
इति नव प्रकारास्संख्याविशेषा उक्ताः । इम एव संख्या विशेषाः स्तोमशब्देनाऽभिधीयन्ते । तत्र बहिष्पव-
मानाख्यं स्तोत्रं परं "बहिष्पवमानं सर्पन्ती" ति विधिना सदसो बहिः चात्वालदेशं प्रति प्रसर्पणानन्तरं
कर्तव्यत्वेन विहितम् । अत एवास्य स्तोत्रस्य बहिस्संबन्धात् पवमानक्रियाकर्तृप्रकाश कमन्त्रघटितत्वाचवच्च
बहिष्पवमानमिति संज्ञा । तथा च बहिष्पवमानाख्यं स्तोत्रं त्रिवृत्स्तोमकं कर्तव्यमिति वाक्यार्थः पर्यव-
सन्नः ॥ त्रिवृत् नवसंख्योच्यते । तत्राम्नातानां नवानामृचां यथाम्नानं सकृदायेत् । स त्रिवृत् स्तोमः
उत्तराग्रन्थे बहिष्पवमानसूक्तेभ्यस्त्रिभ्य ऊर्ध्वं चत्वारिसूक्तान्याम्नातानि-प्रश्अग्न आयाहि वीतय इत्याचंद्यं
सूक्तम्, आ नो मित्रावरुणेति द्वितीयम्, आया हि सुषुमाहिते इति तृतीयम्, इन्द्रामी भाग्नी आगतं