This page has not been fully proofread.

निरूपयाम्]
 
सारविवेचिनी व्याख्यासंवलितः
 
१५१
 
चेत् संबन्धः शास्त्रान्तरप्रतिपन्नः तदा तस्य शब्दस्य तन्नामधेयत्वं तत्प्रख्य-

शास्त्रात् । तथ्व शास्त्रान्तरं विधिर्वा अर्थवादो वेत्यत्राऽनादरः । तत्राग्निहोत्र

शब्देऽग्निसंबन्धबोधकं शास्त्रान्तरं विधिरेव । वैश्वदेवशब्दश्च विश्वदेव-

संबन्धं कर्मणि बोधयति । विश्वदेवसंवन्धश्चाऽष्टसु यागेषु "यद्विश्वेदेवा-

इसमयजन्त, तद्वैश्वदेवस्य वैश्वदेवस्वम्" इत्यर्थवादावगतः ।
 
MONT
 

 
न च विधिरेव तत्प्रख्यशास्त्रं नार्थवाद इत्यत्र किञ्चित् प्रमाणमस्ति ।

अत एच "ज्योतिष्टोमेन स्वर्गकामो यजेते" त्यत्र ज्योतिष्टोमशब्दः "एतानि

वाव तानि ज्योतींषि य एतस्य स्तोमाः" इत्यर्थवादावगतं ज्योतिस्सम्बन्धं

निमित्तीकृत्य सोमयागे प्रवर्तमानस्तत्प्रख्यशास्त्रान्नामधेयं भवति । एवं

 
[commentary]
 
प्रेतश्शब्दो विवक्षितः । यद्गुणेति कर्मधारयः । तन्नामधेयत्वं तादृशकर्मनामधेयत्वम् ।

अनादर इति । एवञ्च प्रापकेण विधिनैव भाव्यमित्यभिमन्वानेन भवता तदर्थं प्रमाणासि

द्वपञ्चमप्रकाराङ्गीकरणं व्यर्थमेवेति भावः । विधिरेवेति । यद्यप्येतन्मते मन्त्रवर्णस्य तत्र

देवतासमर्पकत्वं तथापि तन्मतानुसारेणेदमुकम् । यद्विश्वेदेवा इति । यस्मात् विश्वे

देवा यागाष्टकमिदमन्वतिष्ठन् तस्मात् विश्वदेवकृतत्वात् आग्नेयादियागाष्टकस्य वैश्त्र-

देवशब्दवाच्यत्वमिति वाक्यार्थः ।
 

 
a
 

 
एव प्रार्थवादस्य तत्प्रख्यशास्त्रत्वाभावे प्रमाणाभावादेव । ज्योतिष्टोमशब्द

इति नामधेयं भवतीत्यनेन सम्बध्यते । एतानीति । तैत्तिरीयब्राह्मणे पञ्चमप्रपाठकै ज्योति-

घटोमनामनिर्वचनावसरे- "यदाहु: । कतमानि तानि ज्योती॰षि । य एतस्य

स्तोमा इति" इति प्रश्नमुपक्षिप्य अनन्तरं "त्रिवृत् पञ्चदशस्सप्तदश एकविंशः ।

एतानि वाव तानि ज्योतो॰षि । य एतस्य स्तोमाः" इति समाहितम् । ब्रह्मवा

दिनः एवं पृच्छन्ति - ये प्रकृतस्य यज्ञस्य स्तोमा भवन्ति कानि तानि ज्योतिः पदवाच्या नीति

प्रश्नार्थः । ये त्रिवृदादयः स्तोत्रसंख्या विशेषाः ज्योति पदवाच्याः त एवास्य स्तोमा इश्यु-

तरवाक्यार्थः । स्तोत्रसाघनीभूतस्तोत्रीयानवकं (१) त्रिच्छन्नाभिधीयते । एवं पञ्चदशा-

१. त्रिवृदादिपदानामर्थनिर्णयश्चेत्थम् - ज्योतिष्टोमे सन्ति द्वादशस्तोत्राणि - बहिष्पवमान मेकम्

चत्वार्याज्यस्तोत्राणि, माध्यन्दिनपवमानमेकम्, चरवारि पृष्ठानि, आर्भवपवमान मेकम्, यज्ञायज्ञीयमेक॰

मितिं । स्तोत्रं नाम प्रगीतमन्त्रसाध्य गुणिनिष्ठगुणाभिधानम् । तदिदं स्तोत्रं सदोनाममण्डपे श्रौदुम्ब

र्याख्य स्थूणासमीपे उपविष्टैरुद्गातृप्रस्तोतृप्रतिहत्रख्यैस्त्रिभिः ऋत्विग्भिः कर्तव्यस्वेन विहितम् । तत्रै

कैकस्य स्तोत्रस्य "एकं साम तृचे क्रियते स्तोत्रीय "मिति विधिवलात्तिसृषु ऋतु एकं साम गातव्यं भवति ।

तत्र च त्रिवृत्, पञ्चदशः, सप्तदशः, एकविंशः, त्रिणवः, त्रयस्त्रिंशः, च

:, चतुर्विंशः, चतुश्चत्वारिंशः, अष्टाचत्वारिश

इति नव प्रकारास्संख्याविशेषा उक्ताः । इम एव संख्या विशेषाः स्तोमशब्देनाऽभिधीयन्ते । तत्र बहिष्पव

मानाख्यं स्तोत्रं परं "बहिष्पवमानं सर्पन्ती" ति विधिना सदसो बहिः चारवालदेशं प्रति प्रसर्पणानन्तरं

कर्तव्यत्वेन विहितम् । अतएवास्य स्तोत्रस्य बहिस्संबन्धात् पवमानक्रियाकर्तृप्रकाश कमन्त्रघटितत्वाचव

बहिष्पवमानमिति संज्ञा । तथा च बहिष्पवमानाख्यं स्तोत्रं त्रिवृत्स्तोमकं कर्तव्यमिति वाक्यार्थः पर्यव

सन्नः ॥ त्रिवृत् नवसंख्योच्यते । तत्राम्नातानां नवानामृचां यथाम्नानं सकृदायेत् । स त्रिवृत् स्तोमः ।

उत्तराग्रन्थे बहिष्पवमानसूक्तेभ्यस्त्रिभ्य ऊर्ध्वं चत्वारिसूक्तान्याम्नातानि-प्रश्न आयाहि वीतय इत्याचं

सूक्तम्, आ नो मित्रावरुणेति द्वितीयम्, आया हि सुषुमाहिते इति तृतीयम्, इन्द्रामी भागतं