This page has not been fully proofread.

१५०
 
मौमांसान्यायप्रकाशः
 
[ नामधेय -
 
गानां हि देवताकाङ्क्षा उत्पत्तिशिष्टैरग्न्यादिभिरेव निवृत्तेति न तत्र विश्वदेव-

विधानं युक्तम् । अतश्चोत्पत्तिशिष्टगुणवलीयस्त्वाद्वैश्वदेवशब्दस्य कर्मनाम:

घेयत्वम् । यथाद्दुः—'
 

 
गुणान्तरावरुद्धत्वान्नाऽवकाश्यो
 

 
गुणोऽपरः ।
 

 
विकल्पोऽपि न वैषम्यात्तस्मान्न । मैव युज्यते ॥ इति ॥

( पञ्चमप्रकारखण्डनम्)
 

 
श्रन्ये त्वाचार्या आहुः - यः शब्दो यत्र कर्मणि यद्गुण संबन्धं बोधयति स

 
[commentary]
 
देवता विधातुं शक्यते । यदा तु स्ववाक्य एव स्वेनैव सह देवता विधीयते तदा कर्मणः

उत्पत्तिदशायामेव आकांक्षायाश्शान्तत्वात् निराकांक्षितविधानस्यासम्भवात् पुनस्तत्र

देवता विधानस्यैवासम्भवे समुच्चयविकल्पयोदूंरापास्तत्वादिति भावः । तत्र तेषु यागेषु ।
 

 
-
 

 
ननु "तस्मादेकदेशस्थैरपि विश्वदेव रुपलक्षितानां छत्रिन्यायेन तत्प्र-

ख्यन्याय तयैव नामधेयत्व" मिति वार्तिकार्यालोचनया तत्प्रख्यशास्त्रस्यैवात्र निमि

तत्वावगमात् कथं तत् परित्यज्य निमित्तान्तरमाश्रितमित्याशङ्कां, नेदं बार्तिकमत्र तत्प्र.

ख्यन्यायस्य निमित्तत्वकथनाभिप्रायकम्, किन्तु अस्मिन्नधिकरणे उत्पत्तिशिष्टगुणवलीय-

स्त्वस्य गुणविध्यसम्भवात् नामधेयत्वं प्रति निमित्तत्वे साघिते तत्र प्रवृत्तिनिमित्तमात्र•

प्रदर्शनपरम्, अत एव वार्तिककारैः एतदधिकरण सिद्धान्तारम्भे उत्पत्तिशिष्टगुणबलीय-

स्त्वस्यैवं नामधेये निमित्तत्वं श्लोकेनोक्तमिति समाधानं च मनसि निधाय तदभिव्यञ्जकं

तदयविमेव श्लोकं पठति-गुणेति । आग्नेयादीनां कर्मणां स्वस्वोत्पत्तिवाक्यविहितैः अग्न्या

दिभिर्व्यातत्वात् तत्र विश्वदेवदेवतारूपो गुणो नावकाशमईतीत्यर्थ: । नन्वत्राग्न्यादीना-

मिव विश्वेषां देवानामपि वाक्येन प्रतिपन्नत्वेनोभयोर्देवतयोस्तुल्यबलत्वात् कथं न

विकल्पः ? इत्याशङ्कयामाह - विकल्पोऽपीति । तत्र कारणमाह - वैषम्यादिति ।

विषमशिष्टत्वादित्यर्थः । अग्न्यादीनां तद्धितश्रुतिबोधितत्वात् विश्वेषां देवानां तु वाक्यग-

स्यत्वादिति यावत् । इदमाकूतम् - 'श्राग्नेयमष्टाकपाल 'मित्यादौ आग्नेयादिपदान

श्रष्टाकपालपदरूपद्रव्यवाचकपदसामानाधिकरण्यदर्शनात् तद्धटकतद्धितस्य "सास्य

देवता" इत्यधिकारे विहितस्य अग्न्यादिनिष्ठदेवतात्वप्रतिपादकत्वावगतेः ससम्बन्धिनः

प्रति सम्बन्धिनमपेक्ष्यैव प्रवृत्तेः यागस्य च सम्बन्धापादकत्वेन प्रतिसम्बन्धित्वाभावात् द्रव्य.

स्यैव प्रतिसम्बन्धित्वावगतेः तस्य च द्रव्य विशेषस्य तद्धितोपात्तत्वेनैकपदरूपश्रुतिगम्यत्वात्

प्रावल्यम् । "वैश्वदेवेन यजेते" त्यत्र तु द्रव्यवाचक पदाश्रवणात् यजिसामानाधिकरण्य

दर्शनाच तद्धटकतद्धितेन यागस्यैवोक्तत्वात् तेन च स्वसम्बन्धिद्रव्यलक्षणात् स्वलचित.

द्रव्यद्वारैव यागे देवतासम्बन्धस्य वक्तव्यतया वाक्यप्रमाणगम्यत्वात् ततो दौर्बल्यम् । अतो

न तुल्यबलत्वात् विकल्प इति । यद्येवं तर्हि किमत्र युक्तम् ? तदाह -तस्मादिति । देव.

तारूपगुणस्य पूर्वकर्मसु विकल्पेन समुच्चयेन वा निवेशासम्भवेन, वैयर्थ्यापादनस्यानुचि-

तत्वाच्चेत्यर्थः । नामैव आग्नेय दियागाष्टकना मत्वमेव ।
 

 
( पञ्चमप्रकारखण्डनम् )
 

 
a
 

 
एवं न्यायसुधाकृदादिमतमुपपाद्य तत्प्रख्यन्यायेनैवात्रापि नामधेयत्वमभिप्रयतां पार्थ-

सारथिमिश्राणां मतमुपपादयति - अन्ये विति । यशशब्द इत्यनेन नामधेयत्वेनाभि-

6