This page has been fully proofread once and needs a second look.

प्रतश्च वैश्वदेवशब्दस्य नामधेयत्वे उक्त प्रकारचतुष्टय स्याऽनिमित्तत्वादुत्पत्ति-
शिष्टगुणबलीयस्त्वमेव निमित्तम् । तथा हि-

"वैश्वदेवेन यजेते" त्यत्र न तावद प्रकृतकर्मानुवादेन देवताविधानं संभ-
वति, तेषामत्रनुपस्थितेः
 
नापि देवता विशिष्टकर्मान्तर
विधानं संभवति, गौरवापत्तेः । 'अष्टौ हवीं-
बीषी' स्त्यनन्यगति कलिङ्ग विरोधाच् । अतोऽनेन प्रकृतकर्मानुवादेन देवता
विधीयत इति वक्तव्यम् । तत्रामिक्षायागे विश्वदेवप्राप्तेः सप्तसु यागेध्ष्वनेन
वाक्येन विश्वे देवा विधोदेवा विधीयन्त इति वक्तव्यम् । न च तत्संभवति । तेषामुत्प-
तिशिष्टाग्न्याद्यवरोधात्। आकाङ्क्षया हि संबन्धो भवति। आग्नेयादिया-

 
[commentary]
 
तिशिष्टाग्भ्याद्यवरोधात् । आकाङ्क्षया हि संबन्धो भवति । आग्नेयादिया
करणीयः, स चोत्पत्तिशिष्टगुण बलीयस्त्वरूप एवेत्या - प्रह--अतश्चेति । ननु वैश्वदेव-
शब्देन प्रकृतकर्मानुवादेन गुण विध्यसम्वेऽपि यत्र कर्मणि देवता नोत्पत्तिशिष्टा तत्र
देवताविधिरस्तु, अथवा देवता विशिष्ट कर्मान्तरविधिरेषावास्तु । न च तदानीं हविर्नव कापत्त्या-
"ऋष्टोअष्टौ हवींषी"ति लिङ्गविरोधः, अनेन वाक्येन देवताविशिष्टकर्मणि विहिते तदनुषावा-
देन "वैश्वदेव्यामिक्षे"ति वाक्येन द्रव्यमात्र विधिसम्भवात्, अतः किमर्थं नामघेत्वा-
श्रयणमित्याशङ्कथक्य प्रथमं पक्षं निराकरोति-न तावदिति। अनुपस्थितेरिति । उपस्था-
पकप्रमाणानां प्रकरणादीनामभावात्, श्रुतस्य यजिपदस्य यागमात्रसाधारण्येन या विशे-
षानुपस्थापकत्वाच्चेति भावः
 
अस्तु तर्हि द्वितीयः पक्षः, सोऽपि नेत्याह-नापोति पीति। गौरवापसेत्तेरिति । समु-
दायानुवादमात्रेण लाघवे सम्भवति श्रतिदेशापादकस्य विशिष्टे विधिव्यापाराङ्गीकरण रू.-
पगौरवस्य सहनं नोपपत्तिमदित्याशयः । नाप्यामिक्षावाक्येन गुणमात्रविधानं सम्भवति
तत्र हि यज्यश्रवणेन "आग्नेयमष्टाकपालं निर्वपति' इत्यतो निर्वपतीत्यस्यैवानुषञ्ज-
नीयतया तत्र विशिष्टकर्मविधायकस्य तस्यात्र गुणमात्रविधायकत्वे वैरूप्यप्रसङ्गात्
अतश्च तत्परिहारार्थमामिक्षावाक्येऽपि विशिष्टविध्यवश्यंभावेन वैश्वदेववाक्येऽपि विशिष्ट-
विधिस्वीकारे हविर्नव कापत्या "श्रौअष्टौ हवींषी" ति लिङ्ग विरोधस्तदवस्थ एवेत्याह- श्रष्टा-
विति । वैश्वदेवपर्वप्रकरणे "नव प्रयाजा इज्यन्ते । नवानूयाजाः । अष्टौ हवीं-
षि । द्वावाघारी रौ। द्वावाज्यभागौ । त्रिशत् सम्पद्यन्ते" इत्युक्तम् । तत्र त्रिंशत्स-
म्पत्तिबोधकेऽर्थवादे प्रधानहविषामष्टत्वं परिगणितम् । यदि वैश्वदेववाक्येऽपि प्रधानस्य
विधिः स्यात् तर्हि प्रधानहविषां नवकापच्त्त्या 'श्रष्टअष्टौ हवींषी' त्यष्ठत्यष्टत्वकथनं विरुध्येतेत्यर्थः
ननु तस्यार्थवादत्वादन्यथापि गतिर्भवितुमर्हतोतीत्यत आह - --अनन्यगतिकेति । श्रुत-
श्च वैश्वदेववाक्ये विशिष्टकर्मविधानं, श्रमिक्षा वाक्ये च गुणमात्रविधानमित्यस्य पक्ष-
स्यासम्भवेन प्रकृतकर्मस्वामिक्षायागातिरिक्तेषु वैश्वदेववाक्येन देवताविध्यङ्गीकारे च
तत्राग्न्यादीनां विधानात् तत्रापि निवेशासम्भवेन च परिशेषात् नामस्वाकीत्वाङ्गीकरणमेव शरण-
मित्युपसंहरति--अत इत्यादिना । उत्पत्तिशिष्टदेवताकेऽपि कर्मणि पुनरनेनापि देवता-
विधानमस्तु । तस्याश्च देवतायाः अग्न्यादिमिभिस्सह विकल्पः समुच्चयो वा भवत्वित्याशङ्का-
यामाह-माकांक्षयेति । सर्वत्र हि विहितस्य कर्मणः देवताकांक्षायामेव वाक्यान्तरेण
 
-