This page has been fully proofread once and needs a second look.

वैयर्थ्यापत्तेः। वैश्वदेवशब्दस्यामिक्षायागमात्रनामत्वे स एव यागोऽनेनानू-
द्यते इति वाच्यम्। न च तदनुवादेनाऽस्ति किंचित् कृत्यम्। "प्राचीनप्रवणे
वैश्वदेवेन यजेते"ति विधीयमानस्य प्राचीनप्रवणदेशस्य विनाप्येतद्वाक्य-
मामिक्षायाग एव संबन्धोपपत्तेः, विश्वदेवसम्बन्धात्तस्य
 
आग्नेयाद्यशेष प्रकृतयागनामत्वे तु न 'वैश्वदेवेन यजेते 'ति वाक्यानर्थक्य-
म् । तदा ह्यनेनाष्टौ यागा अनूद्यन्ते । अनुवादेन चैकप्रतीत्यारूढत्वात् समु.-
दितानामष्टानामपि वैश्वदेवशब्दो नामधेयं सिध्यति । एवं च 'प्राचीनप्रवणे
वैश्वदेवेन यजेते'त्यत्र वैश्वदेवशब्देनाष्टीटौ यागाननूद्य प्राचीनप्रवणविधानं तत्र
सिद्धं भवति । तद्वाक्यस्याऽसत्त्वे तु अनेन वाक्येनामिक्षायाग एव प्राचीन-
प्रवणदेशसंबन्धः स्यात् । अतश्चाष्टसु यागेषु प्राचीनप्रवणदेशसंबन्ध एव
तद्वाक्यप्रयोजनम् । एवं च वैश्वदेवशब्दोऽष्टानां नामधेयम् । न च तत्र तत्प्र-
ख्यशास्त्रं निमित्तं संभवति । सप्तसु विश्वदेवाप्राप्तेः । अतो न वैश्य देवशन्वदेवशब्दस्य
तत्प्रख्यशास्त्रान्नामधेयत्वमिति
 
-

 
नापि [^१]तद्वयपदेशात् । तादृशस्य व्यपदेशस्यानुपलम्भात्
 
[commentary]
 
क्यसम्भवात्, अत आह-वैश्वदेवशब्दस्येति । अनेन वैश्वदेवेन यजेते'ति वाक्येन
प्राचीनप्रवण इति । यत्र भूमौ प्राचीनो देशः प्रतीचीनापेक्षया निम्नो वर्तते तत्र वैश्व-
देवपर्वणा यजेतेत्यर्थः । विश्वदेवसम्बन्धादिति । उत्पत्तिवाक्य एवामिक्षायागध्स्
विश्वदेवसम्बन्घाषधावगतेः तमादायापि तत्र कालादिविध्युपपत्तेः नास्य विधेः किञ्चित्

प्रयोजनमस्तीति भावः
 
सर्वेषां नामत्वे वा कथमानर्थंक्यपरिहारः !? तदाह - -तदा होति हीति। अनेन वैश्वदेवेन
यजेत इति वाक्येन । सिद्धं भवतीति । यथा विद्वद्वाक्याभ्यामनन्यप्रयोजनाभ्यां दर्श-
पूर्णमाससमुदायद्वयानुवादात् फलवाक्यगतेन दर्शपूर्णमासपदेन षण्णां यागानां ग्रहणं
तद्वत् श्रष्टानामध्प्यनन्यप्रयोजनेना नेनानुवादात् तेषां सर्वेषामेव देशविधौ प्ग्रहणं कालविधौ
च। तद्वारा "अक्षय्यं ह वै चातुर्मास्याजिनस्सुकृतं भवती"ति वाक्येन सर्वे.-
षामाग्नेयादीनां फलसम्बन्धसिद्धिः । इतरथा आमिक्षायागस्यैव फलसम्बन्धापत्त्या आग्ने.-
यादीनां तदङ्गता स्यात् । तदा च "अष्टौ हवींषी"त्यष्टानामपि प्रधानत्वेन सङ्कीर्तन
पद्मं स्थामव्युत्पन्नं स्यादिति भावः । अत्र च देशसम्बन्ध इत्युपलक्षणं वसन्तादिकालसम्बन्धस्यापि
अतश्च वैयर्थ्यपरिहारायेंर्थं प्रकृत सर्वंसर्वयागनामत्वमेव युक्तं वैश्वदेवशब्दस्येत्याह-एवञ्चेति।
सर्वयागनामत्वे
श्चेति ।
सर्वयागनामत्वे च श्रा
मिक्षाग्रायागातिरिक्तेषु प्रापकप्रमाणाभावात् न तत्प्रख्यन्यायस्सम्भ-
त्तीत्युपसंहरति -प्र-अत इति । प्राचीनप्रवण इति । यस्य देशस्य प्राग्भागः निम्नतरः
पश्चिम भागापेक्षया स देशः प्राचीनप्रवणः इति पूर्वमुक्तम् । अष्टानां श्राग्नेयादिद्यावा.-
पृथिव्यान्तानाम् । तत्र यागाष्टकनामध्ये त्वे
 
चतुर्थप्रकारस्याप्यसम्भवभाइमाह-नापीति । तादृशस्य विश्वदेवगतोपमानबोधकस्य
वञ्च पूर्वोक्तप्रकारचतुष्टयस्यात्र निमित्तत्वानुपपत्तेः अगत्या पञ्चमप्रकार एव कश्चिदशी -ङ्गी-

[^१] श्येनवन्नामस्वम् ।
 
त्वम्।