This page has not been fully proofread.

मोमांसान्यायप्रकाशः
 
[ नामधेय-
वैयर्थ्यापत्तेः । वैश्वदेवशब्दस्यामिक्षाया गमात्रनामत्वे स एव यागोऽनेनानू-

द्यते इति वाच्यम् । न च तदनुवादेनाऽस्ति किंचित् कृत्यम् । "प्राचीनप्रवणे

वैश्वदेषेन यजेते"ति विधीयमानस्य प्राचीनप्रवणदेशस्य विनाप्येतद्वाक्य-

मामिक्षायाग एव संबन्धोपपत्तेः, विश्वदेवसम्बन्धात्तस्य ।
 

 
आग्नेयाद्यशेष प्रकृतयागनामत्वे तु न 'वैश्वदेवेन यजेते ति वाक्यानर्थक्य-

म् । तदा ह्यनेनाष्टौ यागा अनूद्यन्ते । अनुवादेन चैकप्रतीत्यारूढत्वात् समु.

दितानामष्टानामपि वैश्वदेवशब्दो नामधेयं सिध्यति । एवं च 'प्राचीनप्रवणे

वैश्वदेवेन यजेते'त्यत्र वैश्वदेवशब्देनाष्टी यागाननूध प्राचीनप्रवणविधानं तत्र

सिद्धं भवति । तद्वाक्यस्याऽसत्वे तु अनेन वाक्येनामिक्षायाग एव प्राचीन

प्रवणदेशसंबन्धः स्यात् । अतश्चाष्टसु यागेषु प्राचीनप्रवणदेशसंबन्ध एव

तद्वाक्यप्रयोजनम् । एवं च वैश्वदेवशब्दोऽष्टानां नामधेयम् । न च तत्र तत्प्र-

ख्यशास्त्रं निमित्तं संभवति । सप्तसु विश्वदेवाप्राप्तेः । अतो न वैश्य देवशन्दस्य

तत्प्रख्यशास्त्रान्नामधेयत्वमिति ।
 

 
-
 

 
नापि ([^) ]तद्वयपदेशात् । तादृशस्य व्यपदेशस्यानुपलम्भात् ।

 
[commentary]
 
क्यसम्भवात्, तह-वैश्वदेवशब्दस्येति । अनेन वैश्वदेवेन यजेते'ति वाक्येन

प्राचीनप्रवण इति । यत्र भूमौ प्राचीनो देशः प्रतीचीनापेक्षया निम्नो वर्तते तत्र वैश्व

देवपर्वणा यजेतेत्यर्थः । विश्वदेवसम्बन्धादिति । उत्पत्तिवाक्य एवामिक्षायागध्य

विश्वदेवसम्बन्घाषगतेः तमादायापि तत्र कालादिविध्युपपत्तेः नास्य विधेः किञ्चित्
 

 
प्रयोजनमस्तीति भावः ।
 

 
सर्वेषां नामत्वे वा कथमानर्थंक्यपरिहारः ! तदाह - तदा होति । अनेन वैश्वदेवेन

यजेत इति वाक्येन । सिद्धं भवतीति । यथा विद्वद्वाक्याभ्यामनन्यप्रयोजनाभ्यां दर्श

पूर्णमाससमुदायद्वयानुवादात फलवाक्यगतेन दर्शपूर्णमासपदेन षण्णां यागानां ग्रहणं

तद्वत् श्रष्टानामध्यनन्यप्रयोजनेना नेनानुवादात् तेषां सर्वेषामेव देशविधौ प्रहणं कालविधौ

च। तद्वारा "अक्षयं ह वै चातुर्मास्थयाजिनसुकृतं भवतीति वाक्येन सर्वे.

षामाग्नेयादीनां फलसम्बन्धसिद्धिः । इतरथा आमिक्षायागस्यैव फलसम्बन्धापत्या आग्ने.

यादीनां तदङ्गता स्यात् । तदा च "अष्टौ हवींषी"त्यष्टानामपि प्रधानत्वेन सङ्कीर्तन

पद्मं स्थादिति भावः । अत्र च देशसम्बन्ध इत्युपलक्षणं वसन्तादिकालसम्बन्धस्यापि ।

अतथ वैयर्थ्यपरिहारायें प्रकृत सर्वंयागनामत्वमेव युक्तं वैश्वदेवशब्दस्येत्याह-एचश्चेति ।

सर्वयागनामत्वे च श्रामिक्षाग्रागातिरिक्तेषु प्रापकप्रमाणाभावात् न तत्प्रख्यन्यायरसम्भ-

वत्तीत्युपसंहरति -प्रत इति । प्राचीनप्रवण इति । यस्य देशस्य प्राग्भागः निम्नतरः

पश्चिम भागापेक्षया स देशः प्राचीनप्रवणः इति पूर्वमुक्तम् । अष्टानां श्राग्नेयादिद्यावा.

पृथिव्यान्तानाम् । तत्र यागाष्टकनामध्ये ।
 

 
चतुर्थप्रकारस्याप्यसम्भवभाइ-नापीति । तादृशस्य विश्वदेवगतोपमानबोधकस्य ।

एघच पूर्वोचप्रकारचतुष्टयस्यात्र निमित्तत्वानुपपत्तेः अगत्या पञ्चमप्रकार एव कश्चिदशी -

[^
] श्येनवन्नामस्वम् ।