This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचिनीव्याख्यासंवलितः
 
'वैश्वदेवेने'ति तद्धितेनैव मत्वर्थस्य यागस्योक्तत्वात् । 'सास्य देवते'त्यस्मि-
न्नर्थे हि तद्धितस्मरणम् । तत्रास्यशब्दस्य तद्धितान्तर्गतस्य यद्यपि 'सूक्त-'
हविषो'रिति स्मृतेः सूक्ते हविषि वा मुख्यत्ववगतम्, तथापि सर्वनाम्ना-
मुपस्थितवाचित्वात् सूक्तहविषोश्चात्रानुपस्थितत्वात् 'यजेतेत्युपस्थितं याग-
मेवास्यशब्दोऽभिधत्त इति न यागे मत्वर्थलक्षणा । विश्वदेवरूपैकदेवतावि-
धानाच्च न वाक्यभेदः
 
एचपकवता
 
A

 
नापि तत्प्रख्यशास्त्रान्नामत्वम् । यत्र हि विधित्सितो गुणोऽन्यतः प्राप्तः,
तत्र तत्प्रख्यशास्त्रान्नामधेयत्वम्, यथा- अग्निहोत्रशब्दे । मन्। अत्र चाऽऽग्नेयादयो-
ऽष्टौ यागाः प्रकृताः । तत्राऽऽमिक्षायागे यद्यपि विश्वेदेवाः प्राप्ताः- वैश्वदेव्या-
मिक्षेति, तथापि लप्ततुसप्तसु तेषामप्राप्तत्वात् 'वैश्वदेवेन यजेते 'त्यनेन तत्र तद्वि-
धाने न तत्प्रख्यशास्त्रमन्यत् येन तद्वशान्नामत्वं स्यात्
 
न चाऽऽमिक्षायागस्यैवै तन्नामेति वाच्यम् । "वैश्वदेवेन यजेते"ति वाक्य.-
 
[commentary]
 
ननु देवतातद्धितस्य ' सास्य देवता" इति विहितस्य "सूकहविषो" रिति वार्तिकेन
सुक्तहविषोरेव नियमितत्वात् कथं तद्भिन्नया गवा चकत्वमित्याशङ्का मनूद्य परिहरति-तत्रेति
अस्य शब्दस्य 'सास्य देवता" इति सूत्रघटकस्य 'अस्य' इति शब्दस्य । स्मृतेरिति
स्मृतिरन्नत्र व्याकरणमुच्यते । सूक्तम् ऋचां समूहः । हविः देवतोद्देश्येन त्यज्यमानः
चरुपुरोडाशादिः । सर्वनामार्थे विहितस्य तद्धितस्य सर्वनामदुपस्थितपरामर्श रवस्थात्वस्यापि
सम्भवात् स्ववाक्योपात्तयजिनैव यागस्योपस्थितत्वेन उपस्थिततत्परामर्शस्यैव युक्तत्वात्
"प्राग्नेयो वै ब्राह्मणो देवतया" "बुधन्वानाग्नेयः कार्यः पावकवान् सौम्यः"
इत्यादौ यागादावपि सूक्तहविर्भिन्नेऽर्थे देवतातद्धितदर्शनात् तत्र सम्बन्धसामान्ये तद्धितःत-
मङ्गीकृत्य तस्य विशेषापेक्षायां देवतात्वादिरूपो विशेषलाभः इत्यङ्गीकारे वा प्रकृतेऽपि
तस्य समानत्वात् वैश्वदेवशब्देन यागप्रतीतेर्जायमानत्वात् न तदर्थं मत्वर्थलक्षणेत्यर्थः
नापि चित्रान्यायात् नामत्वमित्याह - -विश्वदेवेति । विश्वेषां देवानामनेकव्यक्तित्वेऽपि
तद्गतदेवतात्वस्यैव विधेयत्वात् तस्य चैकत्वान्नानेकविधानमिति मनसि निदधान आह-
एक देवतेति
 

 

 
११

 
वैश्देवे पर्वणि । तत्र अष्टानां यागानां मध्ये । प्राप्ता इति । "वैश्वदेव्या:-
मिक्षे"ति वाक्येन द्रव्यदेवता विशिष्टयागविधानादिति भावः । सप्तसु आमिक्षाया गव्यति-
रिक्तेषु ऋाग्नेयादिषु सप्तसु । तेषां विश्वेषां देवानाम् । अन्यतः प्राप्त्यभावेऽपि अने.-
नैव विधिरङ्गीक्रियताम् ; को दोषः ? इत्याशङ्कय यद्येवं तर्हि तत्प्रख्यशास्त्राभावात् न
नामत्वं सिध्येत् इत्याह - --वैश्वदेवेनेति
 
ननु मास्तु क्वचिदप्यनेन देवताविधानम् आमिक्षायागस्यैव वैश्वदेवीवाक्य-
विहितस्येदं नामधेयमस्तु, तत्र च तेनैव विश्वेषां देवानां प्राप्तत्वात् तत्प्रख्यन्याय.-
सम्भवात् इत्याशङ्कते-न चेति । कथं वैयर्थ्यम्? "प्राचीनप्रवणे वैश्वदेवेनजेत
"
"
वसन्ते वैश्वदेवेत यजेत" इत्यादि विधो वैश्वदेवशब्देन श्रामिक्षायागग्रहणात् सार्थ-
2