This page has not been fully proofread.

मोमांसान्यायप्रकाशः
 
[ नामधेय-
उपमानोपमेयभावस्य भिन्ननिष्ठत्वात् । यदा तु श्येनसंशको यागो विधीयते

तदा मर्थवादेन श्येनोपमानेन तस्य स्तुतिः कर्तुं शक्यत इति श्येनशब्दस्य

तयपदेशाद्यागनामधेयत्वम् ।
 

 
तत्सिद्धं निमित्तचतुष्टयात् (१) कर्मनामधेयध्वम् ।
 

 
( नामधेयत्वे पञ्चमंप्रकार निरूपणम् )
 

 
उत्पत्तिशिष्टगुणवलीयस्त्वमपि पञ्चमं के चित्रामधेयत्वे निमित्तमाहुः ।

"वैश्वदेवेन यजेते" त्यत्र वैश्वदेवशब्दस्य कर्मनामधेयत्वमुत्पत्तिशिष्ट गुणव

लोयस्त्वात् । उक्तमत्वर्थलक्षणादिप्रकारचतुष्टयासम्भवात् ।

तथा हि - न तावन्मत्वर्थ लक्षणाभयानामधेयत्वं (२) वक्तुं युक्तम्,
र्शित

 
[commentary]
 
रिति
। भिन्ननिष्ठत्वादिति । प्रसिद्धस्यैव पदार्थस्योपमानत्वयोग्यतया प्रसिद्धस्योप

मेयतया प्रसिद्धत्वाप्रसिद्धयोः परस्परविरुद्धयो रेकनिष्ठत्वाभावेन भिन्ननिष्ठत्वावश्यम्भा

वादित्यर्थः । नात्रानन्वयालङ्कारः रामरावणयोर्युद्धमित्यादाविव शङ्कयः, तत्रोपमानान्तरा-

भावलक्षणया अनन्याचरितत्वख्यापनार्थत्वात्, प्रकृतेऽपि तथात्वे अनेकेषामर्थवादप.

दानामुपमानान्तराभावलक्षकत्वाङ्गीकारे गौरवापत्तेः । न च व्यञ्जनयैव तदुपस्थिति-

इस्त्विति वाच्यम् । तस्याः वृत्यन्तरत्वानङ्गीकारात् । एवञ्च श्येनपदेन यागोतावेवार्थ-

वादिकी स्तुतिराञ्जस्येनोपपद्यत इत्याह - यदा विति। ननु अस्य उद्भिदादिन्यायविषयत्वं

कुतो न स्यात्, येन न्यायान्तरमाश्रीयत इत्यत श्राह- तयपदेशादिति । नात्रोद्भिन्न्या-

योऽवतरति, तस्य यौगिकशब्दमात्रप्रवृत्तिकतया रूढेष्वप्रवृत्तेः । नापि चित्रान्यायः, वा.

क्यभेदाभावात् । न चापि तत्प्रख्यन्यायः, तत्प्रापकशास्त्राभावात् । अतः तद्व्यपदेशादेवात्र

नामस्वं वक्तव्यमिति भावः ।
 

 
एवमुद्भिदादिपदानां नामध्ये निमित्तचतुष्टयमुपवर्ण्य उत्पत्तिशिष्ट गुणचलीयस्त्व-

स्यापि नामधेयत्वे निमित्तत्वं ब्रुवतां न्यायसुधाकाराणां मतमग्रे निरूपयिष्यमाणं स्वान,

भिमतं सुचयन् उपसंहरति-तत्सिद्ध मिति ।

(नामधेयत्वे पञ्चमप्रकार: )
 

 

 

 
एवं स्वाभिमतं निमित्तचतुष्टयमुपवर्ण्य पञ्चमं न्यायसुधाकदभिप्रेतं प्रकारमुपवयति-

उत्पत्तोति । उत्पत्तिपदेनोत्पत्तिवाक्यं लक्ष्यते । कर्मोत्पत्तिवाक्य एव कर्मणा सह शिष्टः

विहितो यो गुणः तस्य बलीयस्त्वमित्यर्थः । तदुदाहरति-वैश्वदेवेनेति । चातुर्मास्य-

संज्ञके कर्मणि चरवारि पर्वाणि - वैश्वदेवः, वरण प्रघासः, साकमेधः शुनासीरीयश्चेति ।

तत्र वैश्वदेवाख्ये प्रथमे पर्वणि "आग्नेयमष्टाकपालं निर्वपति, सौम्यं चरु सावि-

श्रंद्वादशकपाल, सारस्वतं चरूं, पौष्णं वरुं, मारुत सप्तकपालं, वैश्वदेवी-

मामिक्षां, द्यावापृथिव्य मेककपालम्" इत्यष्टौ यागान् विधाय तत्सन्निधौ श्रुतं- वैश्य-

वेदेन यजेतेति । तत्र वैश्वदेवशब्दोऽष्टानामपि पूर्वोत्तानां कर्मणां नामधेय मित्येतत

उत्पत्ति शिष्ट गुण बलीयस्त्वरूपात् पञ्चमप्रमाणादित्यर्थः ।
 

 
S
 

 
कथं पूर्वोकनिमित्तचतुष्टयान्यतमेन नात्र नामत्वसिद्धिः ? प्रत आाह - तथा होति ।

१. नामधेयत्वम्

२. युक्तमिति वक्तुं शक्यम् ।