This page has not been fully proofread.

निरूपणम् ]
 
साविवेचिनोव्याख्यासंवलितः
 
પ્
 
व्यान्त्व" त्यादि मन्त्रवर्णेभ्यः प्राप्तत्वात् 'समिर्धो यजती त्यादिषु समिदादश-
ब्दास्तत्प्रख्यशास्त्रात् कर्मनामधेयानि । यथाहुः-
विधित्सितगुणप्रापि शास्त्रमन्यद्यतस्त्विह ।
तस्मात्तत्प्रापणं व्यर्थमिति नामत्वमिष्यते ॥ इति दिक् ॥
( तव्यपदेशात् नामधेयत्वनिरूपणम् )
 
"इयेनेनाभिचरन् यजेते" त्यत्र श्येनशब्दस्य कर्मनामधेयत्वं तद्वयपदेशात्;
तेन व्यपदेशः उपमानम्, तदन्यथानुपपत्त्येति यावत् । तथा हि- यद्विधेयं
तस्य स्तुतिर्भवति । तत् यद्यत्र श्येनो विधेयः स्यात् तदार्थवाद स्तस्यैव
स्तुतिः कार्या । न च "यथा वै इयेनों निपत्यादत्ते एवमयं द्विषन्तं भ्रातृव्यं
निपत्यादत्ते" इत्यनेनात्रत्येनार्थवादेन श्येनः स्तोतुं शक्यः । इथेनोपमानेना-
र्थान्तरस्तुतेः क्रियमाणत्वात् । न च श्येनोपमानेन स एच स्तोतुं शक्यते ।
 
न्यायेन नामधेयत्वमुपपादयति- पवमिति । समिदादीत्यादिपदेन तनूनपादिडादयो
गृह्यन्ते । एवमुत्तरत्रापि "तनूनपाद‍न आज्यस्य वेतु" "इडो अग्न आज्यस्य
व्यन्तु" इत्यादीनां मन्त्रवर्णानां परिप्रहः ।
 
अग्निहोत्रादिपदानां कर्मनामधेयत्वे सूत्रोक्तहेतुसंग्राहकं वार्तिकं प्रमाणयति-विधि-
त्सितेति । अग्निहोत्रादिपदानां गुणविधायकत्वे यो गुणः तैर्विधिस्सितः तादृशगुण -
प्रापकस्य शास्त्रस्यात्र विद्यमानत्वात् तत्प्रापितस्य नरनेनापि प्रापणे प्राप्तप्रापणस्य
वैयर्थ्यापत्त्या तेषामग्निहोत्रादिपदानां फर्मनामधेयत्वमङ्गीक्रियत इति वार्तिकार्थः ॥
 
ther
 
( तद्वयपदेशान्नामधेय निरूपणम्)
 
चतुर्थं नामधेयत्व निमित्तं निरूपयितुमारभते - श्येनेति । अभिपूर्वकचरधातोः वैरि-
मरणानुकूलो व्यापारोऽर्थः, तदुत्तरं श्रयमाणः "लक्षण हेत्वोः क्रियायाः" इति सुत्रेण
विहितः शतृप्रत्ययो हेत्वर्थंकः, हेतुरत्र फलरूपो विवक्षितः, एवञ्च - श्येनसंज्ञकेन यागेन
श्रभिचाररूपं फलं भावयेत्
- इति विषयवाक्यार्थः । तद्वन्यपदेशपदार्थमाह - तेनेति । तेन
विधिस्सितगुणेन सह । व्यपदेश इति । विशब्दो भिन्नार्थकः श्रपदेशः कथनं, विभि
नार्थतया कथनमित्यर्थः । फलितार्थमाह - उपमान मिति । शेषपूरणं करोति- तदन्यथा-
नुपपत्येति । उपमानत्वेन कथनान्यथानुपपस्येत्यर्थः । अर्थवादे विधित्सितगुणेन सह
उपमानत्वेन कथनान्यथानुपपत्त्या श्येनशब्दस्य कर्मनामधेयत्वमिति फलितम् । तदेवोपपा-
दयति तथा होति । यत् विधेयं तस्येति । यदि अन्यस्य विधिः अन्यस्य च
स्तुतिः स्यात् तदा विभिन्नविषयकत्वेनार्थवादविध्योरेकार्थस्वाभावादेकवाक्यता न स्या-
दिति भावः । श्येनः श्येनपक्षिरूपो गुणः। तस्यैव गुणस्यैव । यथेति । श्येनरूपः पक्षी
आकाशे डयमानः भूमिष्ठं किञ्चन खाद्यं वस्तु प्रवलोक्य यथा सहसा निपत्य गृह्णाति एवमेवा-
यमपि यागः शत्रुंं सहसा निपत्य गृह्णातीति वाक्यार्थः । अत्र चेदंशब्दार्थो विधेयः, तस्यैव
श्येनेन साकमुपमेयभाव उच्यते । स च सादृश्यघटितः भेदमन्तरा न सम्भवतीति श्येना-
पेक्षया अर्थान्तरमेव किञ्चित् स्तूयत इत्यवश्यं वक्तव्यमित्याशयेना- अर्थान्तरस्तुते.
१६ मो० न्या०
 
a