This page has been fully proofread once and needs a second look.

ध्वर्य्वादीनां च तत्संबन्धः स्यात्। एतद्वाक्यसत्त्वे च न भवति, ऋत्विक्-
शब्दस्य ब्रह्मादिगतऋतुयजननिमित्तत्वेन चमसाध्वर्यूणामृत्विक्त्वाभावस्य
तृतीये उक्तत्वात्।
 
अतश्च 'गौश्चाश्वश्चे' त्यस्मिन् वाक्ये विशिष्टविधानान्न वाक्यभेदः।
'यदग्नये च प्रजापतये च सायं जुहोति' इति तु न विशिष्टविधानम्,
होमस्या'ग्निहोत्रं जुहोती'त्यनेन प्राप्तत्वात्। अतश्च होमानुवादेन समुच्चि-
तोभयविधाने वाक्यभेदात् गौरवापत्तेश्च नानेन वाक्येन देवताद्वयं
विधीयते। किंतु मन्त्रवर्णप्राप्तमग्निमनूद्य तत्समुच्चितः प्रजापतिर्होमोद्देशेन
विधायते।
 
अतश्च नेदमनेः प्रापकम्, किंतु मन्त्रवर्ण एव। अतश्च तेनाग्नेः प्राप्त-
त्वान्नाग्निहोत्रपदं देवतासमर्पकम्। किं तर्हि? नामधेयमेव। तत्सिद्धमेतत्-
तत्प्रख्यशास्त्रादग्निहोत्रशब्दस्य कर्मनामधेयत्वमिति।
 
एवं प्रयाजादिषु समिदादिदेवतानां "समिधः समिधोऽग्न आज्यस्य
 
[commentary]
 
प्राप्नुयादित्यर्थः। एतद्वाक्यसत्वे वा कथं तेषां व्यावृत्तिः ? अत आह-ऋत्विगिति।
"ऋत्विग्दधृक्" इति सूत्रेण ऋतावुपपदे यजेः क्विन्नन्तत्वेन निपातितस्य ऋत्विक्शब्दस्य
ऋतुयजनविशेषरूपं निमित्तमादायैव ब्रह्मादिषु प्रवर्तमानत्वात् सप्तदशसंख्याश्रवणाच्च
यजमानसहितानां ब्रह्मादीनां सप्तदशानामेव ऋत्विक्त्वस्य, चमसाध्वर्युषु तदभावस्य,
अतएव तेषां ऋत्विक्पदव्यपदेशाभावस्य च तृतीये साधितत्वेन "ऋत्विग्भ्यो दक्षिणां
ददाती" ति वाक्येन ऋत्वि()()ङ्मात्रे नियम्यमाना दक्षिणा न तदितरेषु चमसाध्वर्युषु
कर्मकरस्त्वाविशेषेऽपि निवेशमहंर्हतीति भावः । होतृब्रह्मोद्द्वागातृयजमानसदस्यानां, मैत्रावरुण-
-
ब्राह्मणाच्छंसि, पोतृ, नेष्टाट्राग्नीघ्ध्राणां दशानां सम्बन्धिनः तत्तन्नाम्ना व्यवहृताः दश च-
मसा: सोमरसाधारभूताः पात्रविशेषा ज्योतिष्टोमे सन्ति । तत्रस्। तत्रत्यस्य होमार्थं ये विद्यन्ते
ते चमसाध्वर्यव इत्युच्यन्ते । तृतीय इति । सप्तमपादे षोडशाधिकरण इति शेषः
 
एवञ्च गौश्चेति वाक्ये विशिष्ट विधिसम्भवेऽपि यदग्नयेचेति वाक्ये तदनुपपत्त्या
प्राप्त होमोद्देशेन चोभयविधाने वाक्यभेदापत्त्या अन्यतः प्राप्ताग्निसमुच्चितप्रजापते-
रेव विधिरभ्युपगन्तव्य इत्याह - प्रतश्चेत्यादिना । प्राप्तत्वादिति । अनन्यगति-
कस्य तस्यैवोत्पत्तिविधिश्त्वस्य पूर्वमुञ्चक्तत्वादिति भावः । समुच्चितोभयविधाने
समुच्चय विशिष्टयोरग्निप्रजापत्योर्विधाने । मन्त्रवर्ण एवेति । अग्निप्रापक इति
शेषः । तेन मन्त्रवर्णेन । तथाग्निरूपदेवतायाः प्रकारान्तरेण प्राप्तस्त्वात् एतद्वि-
धेयस्य चान्यस्य कस्यचिदभावात् परिशेषादग्निहोत्रपदं नामधेयत्वे पर्यवस्यतीव्याह-
नामधेयमेवेति
 
एवमग्निहोत्रपदस्य कर्मनामस्त्वमुपवयंर्ण्य तत्तुल्यकक्ष्याणां समिदादिपदानामपि तेनैष
या
 
णा
च्छंसि, नेष्ट्रच्छावाकाग्नीघ्ध्राख्याहोत्रकाः । तेषां दशानामृत्विजां सम्बन्धिनस्सन्ति दश चमसाः
चमसो नाम सोमरसाधारभूतः पात्रविशेषः । तेषां चमसानां होमोऽर्ध्वर्युणा कर्तव्यः। यद्यन्यत्र व्याप्पृतः
स्ग्रायादध्वर्युः तदा केवलं तद्धोमार्थं ये निव्रियन्ते पुरुषाः तेषां चमसाध्वर्यव इति समाख्या