2023-02-20 11:47:36 by ambuda-bot
This page has not been fully proofread.
मीमांसान्यायप्रकाशः
[ नामधेय-
ध्वर्थ्यादीनां च तत्संबन्धः स्यात् । एतद्वाक्यसत्वे च न भवति, ऋत्विक
शब्दस्य ब्रह्मादिगतऋतुयजन निमित्तत्वेन चमसाध्वर्यूणामृत्विकत्वाभावस्य
तृतीये उक्तत्वात् ।
अतश्च 'गौश्चावचे' त्यस्मिन् वाक्ये विशिष्टविधानान वाक्यभेदः ।
'यदग्नये च प्रजापतये च सायं जुहोति' इति तु न विशिष्टविधानम्,
होमस्या 'ग्निहोत्रं जुहोती त्यनेन प्राप्तत्वात् । अतश्च होमानुवादेन समुच्चि.
तोभयविधाने वाक्यभेदात् गौरवापत्तेश्च नानेन वाक्येन देवताद्वयं
विधीयते । किंतु मन्त्रवर्णप्राप्तमलिमनूद्य तरसमुश्चितः प्रजापतिहमोद्देशेन
विधायते ।
अतश्च नेदमनेः प्रापकम्, किंतु मन्त्रवर्ण एव । अतश्च तेनान प्राप्त-
त्वाचारिनहोत्रपदं देवतासमर्पकम् । किं तर्हि ? नामधेयमेव । तत्सिद्धमेतत्-
तत्प्रख्यशास्त्रादग्निहोत्रशब्दस्य कर्मनामधेयत्वमिति ।
एवं प्रयाजादिषु समिदादिदेवतानां "लमिधः समिधोऽग्न ग्राज्यस्य
प्राप्नुयादित्यर्थः । एतद्वाक्यसत्वे वा कथं तेषां व्यावृत्तिः ? अताह-ऋत्विगिति ।
"ऋत्विग्दधृक" इति सूत्रेण ऋतावुपपदे यजेः किन्नन्तत्वेन निपातितस्य ऋत्विकशब्दस्य
ऋतुयजन विशेषरूपं निमित्तमादायैव ब्रह्मादिषु प्रवर्तमानस्वात् सप्तदशसंख्या श्रवणाच्च
यजमानसहितानां ब्रह्मादीनां सप्तदशानामेव ऋत्विक्त्वस्य, चमसाध्वर्युषु तदभावस्य,
अतएव तेषां ऋत्विक्पदव्यपदेशाभावस्य च तृतीये साधितत्वेन "ऋत्विग्थ्यो दक्षिणां
ददाती" ति वाक्येन त्विकमात्रे नियम्यमाना दक्षिणा न तदितरेषु चमसाध्वर्युषु
कर्मकरस्वाविशेषेऽपि निवेशमहंतीति भावः । होतृब्रह्मोद्द्वातृयजमानसदस्यानां, मैत्रावरुण-
-
ब्राह्मणाच्छंसिपतृ, नेष्टाग्नीघ्राणां दशानां सम्बन्धिनः तत्तन्नाम्ना व्यवहृताः दश च
मसा: सोमरसाधारभूताः पात्रविशेषा ज्योतिष्टोमे सन्ति । तत्रस्यस्य होमार्थं ये विद्यन्ते
ते चमसाध्वर्यव इत्युच्यन्ते । तृतीय इति । सप्तमपादे षोडशाधिकरण इति शेषः ।
एवञ्च गौश्चेति वाक्ये विशिष्ट विधिसम्भवेऽपि यदग्नयेचेति वाक्ये तदनुपपत्या
प्राप्त होमोद्देशेन चोभयविधाने वाक्यभेदापत्त्या अन्यतः प्राप्ताग्निसमुचितप्रजापते-
रेव विधिरभ्युपगन्तव्य इत्याह - प्रतश्चेत्यादिना । प्राप्तत्वादिति । अनन्यगति
कस्य तस्यैवोसत्तिविधिश्वस्य पूर्वमुञ्चत्वादिति भावः । समुच्चितोभयविधाने
समुच्चय विशिष्टयोरग्निप्रजापत्योर्विधाने । मन्त्रवर्ण एवेति । अग्निप्रापक इति
शेषः । तेन मन्त्रवर्णेन । तथाग्निरूपदेवतायाः प्रकारान्तरेण प्राप्तस्वात् एतद्वि-
धेयस्य चान्यस्य कस्यचिदभावात् परिशेषादग्निहोत्रपदं नामधेयत्वे पर्यवस्यतीव्याह-
नामधेयमेवेति ।
एवमग्निहोत्रपदस्य कर्मनामस्वमुपवयं तत्तुल्यकक्ष्याणां समिदादिपदानामपि तेनैष
याच्छंसि, नेष्टच्छावाकाग्नीघ्राख्याहोत्रकाः । तेषां दशानामृत्विजां सम्बन्धिनस्सन्ति दश चमसाः ।
चमसो नाम सोमरसाधारभूतः पात्रविशेषः । तेषां चमसानां होमोऽर्ध्वर्युणा कर्तव्यः। यथन्यत्र व्याप्तः
स्ग्रादध्वर्युः तदा केवलं तद्धोमार्थं ये नियन्ते पुरुषाः तेषां चमसाध्वर्यव इति समाख्या ।