This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनीव्याख्यासंवलितः
 
१४३
 
मतस्य सहश्रुतत्वेन चास्यैकवाक्यत्वमित्युक्तं दशमे । अतोऽनेन वाक्येनो

भयविशिष्टा दक्षिणैव विधीयते विशिष्टविधानाच्च न वाक्यभेदः । श्रत एव

पार्थसारथिमिश्रर्दशमे तत्र तत्र - 'सोभयविशिष्टा विधीयते' इति, 'अनेक-

गवाद्यात्मिकैका दक्षिण विधीयत' - इति चोक्तम् ।

 
66
 

 

चैवं "ऋत्विग्थ्यो दक्षिणां ददाती" त्यस्यानर्थक्यम् तस्यानुवाद •

श्वात्, ऋत्विक्संबन्धपरत्वाद्वा । दक्षिण । शब्दसामर्थ्याद्धि ऋखिजां चमसा

 
[commentary]
 
श्रध्वर्यवशाखयामिति । मात्र ताण्ड्यश्रुतिगतस्य वाक्यस्योदाहरणता । तस्य

भवदुक्कदोषप्रस्तत्वात् । किन्तु श्राध्वर्यवशाखायां गौश्चेत्यादिकं "तस्य द्वादशशत"

मित्यन्तमेकं वाक्यमस्तीति भाग्योदाहरणादवगतेः तदादायैवैवमुक्तमिति भावः । यद्यपी:

दानी मुपलभ्यमानास्वाध्वर्यवशखासु कुत्रापि नोपलभ्यते वाक्यमिदम् तथाऽपि भाष्य-

कारवचनप्रामाण्यात् क्वचित् प्रलीनशाखायां भवेदिति सन्तोष्टव्यम् । किमायात-

मेतावता ? अत श्राह-अत इति । प्राप्तदक्षिणानुवादेन द्रव्यसख्योभयविधाने वाक्य.

भेदापत्या द्रव्य संख्योभयविशिष्टा दक्षिणैवात्र विधीयते इत्यर्थः । एवञ्च "ऋत्विग्भ्यो

दक्षिणां ददाती" ति वाक्यस्य न दक्षिणाविधायकत्वम्, किन्तु "गौश्चे"

त्यस्यैव अप्राप्तायाश्च तस्याः द्रव्यादिविशिष्टत्वेन विधानाच्च न वाक्यभेदः इत्याह-

विशिष्टेति ।

पार्थसारथिमिश्रसम्मतिमावहतीत्याह – अत
 

 
>
 

 
विशिष्ट विधिपक्ष एव
 

 
एवेति । तत्र तत्रेति । शास्त्रदीपिकाय दशमतृतीये दक्षिणाधिकरणे तत्रैव घेन्वधि

करणे चेत्यर्थः । तत्र प्रथमवाक्यं दक्षिणाधिकरणस्थं द्वितीयवाक्यं घेन्वधिकरणस्थमिति

विवेक्तव्यम् । सा दक्षिणा गवादिद्रव्यसंख्योभय विशिष्ट । विधीयते प्रस्मिन्नेव वाक्ये

श्रप्राप्ततया विधिविषयी क्रियते इति, अनेकं यत् गवादिद्रव्यं तदात्मिका दक्षिणा एकैवा.

प्राप्ततया विधीयते इति च तदर्थः । एवञ्चात्र विशिष्टविधेरवश्याभ्युपगन्तव्यतया गवादीनां

परस्पर वैशिष्टयमन्तरा साक्षात् दक्षिणान्वयेऽपि वाक्यमेदाप्रसक्तेः न तद्द्दृष्टान्तेनात्र

वाक्य मैदोद्धारः कर्तुं शक्य इति भावः ।
 

 
नन्वेवं अनेनैव वाक्येन दक्षिणायाः प्राप्तत्वात् तस्याः अष्टार्थत्वपरिहारार्थ कर्म-

फरवि गर्थत्वस्यापि वक्तव्यतया तेनैवविक्सम्बन्धस्यापि प्राप्तत्वेन 'ऋत्विग्भ्यो दक्षिणां

ददाती" ति वाक्ये विधेयस्य कस्याप्यभावात् तस्य वैयर्थ्यमेवापद्येतेति शङ्कते-नचैव-

मिति । अनुवादत्वादिति । गौश्चेतिवाक्ये अनेक गुणश्रवणान्यथानुपपत्त्या विशिष्टविधा.

वशीकृते 'ऋत्विग्भ्य' इति वाक्यस्य वर्तमानापदिष्टस्यानुवादत्वेऽपि नातीव काचित् क्षति

रिति भावः । सम्भवति योजनान्तरेऽनुवादत्वकल्पनमनुचितमिति प्रयोजनान्तरं कथयति-

ऋत्विमिति सम्बन्धपरत्वादिति। ऋत्विक सम्बन्धबोधनद्वारा तद्भिन्नचमसाध्व

र्युव्यावृत्तिफलकस्त्रादित्यर्थः । यथाश्रुते उत्तरग्रन्थसतेः । व्यावृत्ति मेवोपपादयति-दक्षि

ऐति । अत्र च 'एतद्विध्यभावे' इति पूरणीयम् । दक्षतेरुत्साहकर्मणः निष्पन्नो दक्षि

णाशब्दः उत्साहसम्पादकभृत्यर्थकः, भृतिश्च कर्मकरेभ्य एव दीयते, कर्मकराध यथा

अध्वर्वादयः एवं (१) चमसाध्वर्यवोऽपीति एतद्वाक्याभावे तेषामपि दक्षिणासम्बन्धः
 

 
१. ज्योतिष्टोमे—ब्रह्म, होतॄ, यजमानोद्गातृ, सदस्या मध्यतः कारिण उच्यन्ते । मैत्रावरुण, ब्राह्म