2023-02-20 11:47:36 by ambuda-bot
This page has not been fully proofread.
मीमांसान्यायप्रकाशः
[ नामधेय
नुवादेन गवादयो विधीयन्ते, उक्तरोत्या वाक्यभेदापत्तेः । चकारश्रवणेन (१)
कथञ्चित्परिहारेऽपि गवादीनामनेकेषां द्वादशशतसङ्ख्यायाश्च विधाने
वाक्यभेद एव । आध्वर्यवशाखायां 'गौश्चे' त्यादेः 'तस्य द्वादशशत मित्य.
मेद इत्यत आह - चकारणेति । यद्यपि चकारश्रवणेऽपि कारकाणां क्रियान्वयस्यैव
युक्तत्वेन चकारार्थसमुच्चयान्वयो न युक्तः, तथापि अत्र गवादीनां प्रथमान्तपदोपात्तत्वेन
कारक विभक्त्यन्तपदोपात्तत्वाभावात् क्रियान्वयात् पूर्वमपि चशब्दार्थान्वये नातीव
किञ्चित् बाघकमित्यभिप्रायेण कथञ्चिदित्युक्तम् । चकार: गवादिद्रव्याणां परं समुच्चयं
ब्रूयात् । न द्रव्यसंख्योभयगतं समुच्चयम् । अतश्च दक्षिणोद्देशेन गवादीनां विधाने
संख्याया अप्यप्राप्तायाः विधेयत्वापत्त्या प्राप्तोद्देशनाने क विधानरूपो वाक्यभेदो दुष्परिहर
एवेत्याह- गवादीनामनेकेषामित्यादिना । ननु ताण्ड्यके (२) "तस्य नव-
तिशतं स्तोत्रीयाः" इति ज्योतिष्टोमगतस्तोत्रीयासंख्या तदनन्तरं
"तासां या प्रशोतिशतं ताषट् त्रिंशिन्यो विराजः,
षडृतवः, ऋतु-
ब्वेव विराजा प्रतितिष्ठति" इति विराट्सम्पत्तिरूपेण तां स्तुत्वा, अनन्तरं "अथ
या दश, एषा वा श्रात्मन्या विराट्, एतस्यां वा इदं पुरुषः प्रतिष्ठित" इति
पुरुषस्य विराट् प्रतिष्ठायामुपक्रमात् अन्ते च "एतस्यामेव विराजि प्रतितिष्ठती" ति तत्रै·
वोपसंहारात् उपक्रमोपसंहाराभ्यामे कवाक्यत्वावगमात् तन्मध्यपतितस्य 'गौश्चाश्वश्चेति
वाक्यस्य तदर्थवादत्वस्यैवावगमेन पृथक् द्रव्यविधित्वासम्भवात् "तस्य द्वादशशतं
दक्षिणा" इत्यस्य च वाक्यान्तरखात् तत्र च गवादीनामश्रवणात् गवादिवाक्ये द्रव्य-
विधानस्यैव दूरापेतत्वेन कथमने कविधानं कथं वा वाक्यभेददोषः १ इत्यत आह
१. चकारेण इति ख ।
२.,ताण्ड्यके "तस्य नबतिशतं स्तोत्रीयाः, तासां या श्रशीतिशतं ताः षट्त्रिंशिन्यो बिराजः,
षडृतवः ऋतुष्वेव विराजा प्रतितिष्ठति । अथ याः दश, एषा वा आत्मन्या विराट्, एतस्यां वा इदं
पुरुषः प्रतिष्ठितः। गौश्चाश्वश्चाश्वतरश्च गर्दभश्चानाश्चावयश्च ब्रीहयश्च यवाश्च तिलाश्च माषाश्चैतस्यामेव
विराजि प्रतितिष्ठति । तस्य द्वादशशतं दक्षिणाः" इति श्रूयते । अस्यार्थः - तस्य ज्योतिष्टोमस्य पूर्व.
विहितस्तोमानुसारेण नवत्युत्तरशतसङ्घयाकाः (१९०) स्तोत्रीयास्सम्पद्यन्ते । संख्यासम्पत्तिश्चेत्थम्-
प्रातस्सवने तावत् बहिष्पवमानस्तोत्रे नव (९) ऋचः । चतु॑ष्वज्यस्तोत्रेषु प्रत्येकं पञ्चदशस्तोमकेषु
मिलित्वा षष्टिः (६०) नवषष्टिः (६९) स्तोत्रीयाः । माध्यन्दिनसवने-चतुर्षु पृष्ठस्तोत्रेषु
प्रत्येकं सप्तदशस्तोमकेषु मिलित्वा अष्टषष्ठिः (६८) माध्यन्दिपवमाने पञ्चदशस्तोमके पञ्चदश (१५)
आहस्य त्र्युत्तराशीतिः (८३) स्तोत्रीयाः । तृतीय सवने- आर्भवपवमानस्तोत्रस्य सप्तदशस्तोमकस्य सप्तदश
(१७) अग्निष्टोमस्तोत्रस्य एकविंशतिस्तोमकस्य एकविंशतिः (२१) मिलित्वाष्टत्रिंशत् । एवं रीत्या सवनत्र-
येऽपि स्तोत्रीयाणामृचां संख्या नवत्युत्तरशतम् (१९०) तासां स्तोत्रीयाणां मध्ये याः मशीत्युत्तरशतसं-
ख्याकाः स्तोत्रीयाः ताः त्रिशत्संख्यया विभज्यमानाः षट् विराजो भवन्ति "त्रिंशदक्षरा विराडि"
त्युक्तत्वात् । तस्मादेकैकया विराजा ऋतुष्वेव यजमानः प्रतिष्ठित भवति । अथाशीतिशतानन्तरं अव.
शिष्टाः याः दश स्तोत्रीयाः, एषैवात्मसम्बन्धिनी विराट्, तस्यां विराजि हृदं वचयमाणगवादिद्रव्वदशकं
तदात्मकः पुरुषः तत्रैव प्रतिष्ठितः । एतासु दशसु स्तोत्रीयासु विराडात्मिकासु गवादिदशद्रध्यात्मकः पुरुषः
प्रतिष्ठितो मवतीत्यर्थः । इदं पुरुष इति द्रव्यपुरुषयोरमेदात् सामानाधिकरण्यम् । तस्य द्वादशशतमिति
भिनं वाक्यम् ।
————