This page has not been fully proofread.

निरूपणम् ]
 
लारविवेचिनी व्याख्यासंवलितः
 
यातोऽन्येन संबध्यते - कारकसमुच्चयः करणसमुच्चय इति । विभक्तय भिहितं
तु क्रिययैव, कारका तथैवान्यात् । अतश्चकारेणोच्यमानः स कारकोप-
सर्जनत्वेनैवोच्यते । कारकद्वयं च प्रधानम् । एकोद्देशेन च प्रधानद्वय विधाने
वाक्यभेद एव् । ययाहुः-
PTE
 
अनेक पदसंबद्धं यद्येकमपि कारकम् ।
 
तथापि तदनावृतैः प्रत्ययैर्न विधीयते ॥ इति ।
 
यच्च यथा दक्षिणानुवादेन गवादोनामने केषां विधाने न वाक्भेदः तथा
कारकद्वय विधानेऽपीति । तन्न नहि 'गौश्चाश्वश्चे' त्यस्मिन् वाक्ये दक्षिणा-
दिति । कारकादिशब्दैरभिहितस्यापि कारकस्य नामार्थत्वेन तस्य च समस्तस्थले स्वोत्त-
रपदार्थान्वयस्यैवौचित्येन तत्र तथाङ्गीकारेऽपि विभक्त्यभिहितस्य तस्य क्रियातोऽन्ये -
नान्वयस्याव्युत्पन्नत्वादिति भावः । कुत्र क्रियातोऽन्येनापि सम्बन्धः कारकस्याङ्गीक्रियते ?
तदुदाहरति-कारक समुच्चय इति । उक्तमर्थ प्रकृते सङ्गमयति- प्रत इति । एवम्च
गुणभृतेन चकारार्थसमुच्चयेन प्रघानभूतयोरग्निप्रजापत्योः वशीकारासम्भवात् परस्परनि.
रपेक्षयोरेव तयोः विध्यन्वयेन तदर्थं विध्यावृत्तेरवश्यंभावे वाक्यमैदो दुष्परिहर एवेत्याह-
एकोद्देशेनेति । न च विभिन्नविभक्तिश्रवणेऽपि कारकस्य सम्प्रदानरूपस्यैकत्वात् कथम-
नेकविधानमिति वाच्यम् । यत्र विभक्तिद्वयश्रवणं तत्र द्वयोरपि कारकयोः परस्परनैरपेक्ष्थे•
व प्रथमतो भावनान्वये जाते अनन्तरं विशेषण विशेष्यभावादिना परस्परसम्बन्धयोग्यत्वे
सतिरुणैकहायनीन्यायेन तथा सम्बन्धः । यत्र तु न तादृशी योग्यता तत्र प्रत्येकमेव
विधिव्यापार इति तन्त्र विध्या वृत्तेवश्यंभावात् ।
 
अत्राघारामिहोत्राधिकरण वार्तिकं प्रमाणयति - अनेकेति । विभिन्नार्थबोध कविभिन्न-
प्रातिपदिकसम्बद्धं यद्यप्येकं कारकं भवेत् तथापि अनावृत्तैरावृत्तिरहितैः प्रत्ययैः तत् कारकं
न विधातुं शक्यते । वस्तुतस्तु अत्र कारकमप्येने मे वेति विधायकप्रत्ययावृत्तिरवश्यंभावि•
न्येवेत्यर्थः । अयं भावः - यद्यपि प्रजापतिशब्दस्य प्रजानां पतिरिति व्युत्पस्या अग्निविशे
षणत्वाङ्गीकारेण प्रजापतित्वगुण विशिष्ठस्याग्नेः 'अग्नये दात्रे इत्यादिवत् एकमेव देवता-
त्वमुच्येत तथापि क्रियान्वयात् पूर्व विशेषण विशेष्यभावाप्रतीतेः प्रत्येकं विधिव्यापारात्
विधिप्रत्ययावृत्तिरवश्यंभाविनी किमुत यदा प्रजापतिशब्दस्यान्यन्त्र रूढत्वेनाग्निविशेषण-
त्व सम्भवेन प्रत्येकं विभक्तिनवणाच्च पृथगेव कारकत्वमिति ।
 
4
 
यदुक्तं]पूर्वं गवादीनामनेकेषां विधानवत् वाक्यभेदो न भविष्यतीति तदनूद्य खण्ड-
यति - यच्चेति । भवेदेवं यदि दक्षिणानुवादेन गवादयो विधीयेरन्, न त्वेतदस्ति,
तथास्वे वाक्यभेदस्य पूर्वमेवोक्तत्वात् । किंन्तु द्रव्यसंख्योभयविशिष्टा दक्षिणैव विधीयत
इत्याह - नहीति । ननु चशब्दबलात् साहित्यप्रतीतेः परस्परसहितानामेव गवादीनां
विधेयत्वमभ्युपगन्तव्यम् । अत एव भूनाम्न्येकाहे दक्षिणा स्वेन विधीयमानायाः धेन्वाः
प्राकृतगवादिसर्वद्रव्य निवर्तकत्वं दशमोक्तं सङ्गच्छते । अन्यथा पृथक् पृथक् गवादीनां
विधेयत्वे पृथगेवानतिसाघनत्वापत्या घेन्वा गोमात्र निवृत्तिः स्यादिति दाशमिकाधिकरण-
विरोध आपद्येत । अतश्च चशब्दबलात् इतरेतरसहितानामेव विधेयत्वप्रतीतेः कथं वाक्य