2023-02-20 11:47:36 by ambuda-bot
This page has not been fully proofread.
१४०
मोमांसोन्यायप्रकाशः
[ नामधेय
बयान तदा तत्प्रतिपन्नः समुच्चयः क्रियागुणैः सम्बध्येत । समुच्चयः शोभनः
समुष्ययो द्रष्टव्य इतिवत् च शोभनः च द्रष्टव्य इति प्रयोगः स्यात् । समुच्चय-
शब्दवश्चकारस्य प्राधन्येन समुच्चयवाचित्वे धवलदिरयोः समुच्चय इतिवत्
धवखदिरयोश्चेत्यपि प्रयोगः स्यात् । अतश्चकारः समुययं प्राधान्येन न ब्रूते,
येन प्रधानस्यै कस्य विधानान्न वाक्यभेदो भवेत् । किंतु कारकद्वयोपसर्जनस्वे-
नैव स तं व्रते समुच्चितौ अग्निप्रजापती- इति । प्रधानद्वयविधाने च
वाक्यभेदः स्यादेव, यथा ग्रहोद्देशेन संमार्गैकत्व विधाने ।
यद्यपि चकारः समुचयं प्राधान्येन ब्रूयात्, तथापि तस्य कारकद्वयं
प्रति प्राधान्यमनुपपन्नम्, विभक्तयभिहितस्य कारकद्वयस्य क्रियोपसर्जन.
त्वेन समुच्चयोपसर्जनत्वाभावात् । कृदन्तादिशब्दै रुपस्थितं हि कारकं क्रि
इति । यथा धवखदिरयोस्समुच्चयः इत्यादौ घवखदिराद्यपेक्षया प्रधानतया समुच्चयं ब्रूने
समुच्चयशब्दः तद्वदित्यर्थः । तत्प्रतिपन्नः चकारावबोधितः । क्रियागुणैरिति । क्रि
याभिः गुणैध सम्बन्धं प्राप्नुयात्, न तु तदस्तीत्यर्थः । तथात्वे दोषमाह-समुच्चय
इति । समुच्चयशब्दात् प्राधान्येन प्रतीतस्य यथा समुच्चयस्य शोभन रूपगुणयोगात्
समुच्चयः शोभनः इति प्रयोगो भवति, एवं चशब्दादवि समुच्चयस्य प्राधान्येन
प्रतीतौ च शोभनः इति प्रयोगः स्यादित्यर्थः । एवं गुणसम्बन्धे उदाहृत्य क्रियासम्बन्धे
उदाहरति-समुच्चयो द्रष्टव्य इति । एवं चशब्दार्थसमुच्चयस्य प्राधान्ये तत्र विशे.
षणतयान्वययोग्यप्रदोत्तरं यथा षष्ठी भवति तद्वदत्रापि भवेदित्याह - समुच्चयश
ध्दवदिति ।
-
एतावता किमायातम् ? प्रत आह-श्रत इति । ग्रहोद्दशेनेति । यथा "हं
सम्माष्टिं" इत्यत्र प्राप्तग्रहोद्देशेन सम्मार्गस्य प्रहगतैकत्वस्य च विधाने वाक्यभेदः तद्व•
दिस्यर्थ: । अयमन्त्र विषयः ज्योतिष्टोमप्रकरणे "दशापवित्रेण ग्रहं सम्मार्टि" इति
श्रुतम् । श्रभिषुतानां सोमानां पवित्रीकरणाय गृहीतो वस्त्रखण्डो दशाविशिष्टो दशा-
पवित्रम् । तेन प्रहं प्रोब्छेदिति वाक्यार्थ: । ग्रहशब्देन सोमरसाधारभूतः पात्रविशेषः
पात्रगतो वा रस उच्यत इति पूर्वमुक्तम् । तत्र च सन्ति दश प्रहाः । तेषां सर्वेषां प्रोञ्छनं,
उतैकस्यैव ? इति संशयः। 'हैर्जुहोति' इत्यनेन प्राप्ताः ग्रहाः, तदुहेशेन 'ग्रहं' इति
विभक्स्युपात्तस्यैकत्वस्य धातूपात्तस्य च सम्मार्गस्य विधाने ग्रहं सम्मृज्यात्, यं सम्मृज्यात्
स एकः इति तदा प्राप्तमहोद्देशेन सम्मार्गस्य, एकत्वस्य च विधानं भवति, तदा च
वाक्यमेदः प्रसज्यते । स चायुक्तः । 'प्राप्ते कर्मणि नानेको विधातुं शक्यते गुण
इत्युक्तेः । अतस्तस्परिहाराय तत्र महगत मेकत्वमविवक्षितम्, एवं च सर्वेषां प्रहाणां
सम्मार्गः फलति इति । तद्वदत्रापि वाक्यभेदः प्रसज्येतेति ।
चकारस्य प्राधान्येन समुच्चयबोधकत्वेऽङ्गीकृतेऽपि न भवदिष्टं सेत्स्यतीत्याह-यद्य-
पीति । कारकद्वयं प्रतीति । अभये प्रजापतय इति चतुर्थीकारकद्वयापेक्षयेत्यर्थः ।
कृत एतत् ? श्रत ग्राह-विभक्तीति । क्रियान्वयित्वस्यैव कारकत्वादिस्यर्थः । ननु क्रि-
बातोऽन्येनापि क्वचित कारकं सम्बधनातीति कथमत्रापि न तथा ? इत्यत आह -कृदन्त -