This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्या संवलितः
 
१३
 
प्राप्तमग्निमनूद्य तत्समुच्चितः प्रजापतिरेवात्र विधीयते । होमानुवादेनोभयवि
धाने वाक्यभेदप्रसङ्गाच्च ।
 
न च चकारश्रवणान्न वाक्यभेद इति वाच्यम् । चकारार्थो हि समुच्चयः ।
तंच समुवयं यदि चकार : प्राधान्येन ब्रूयात् तदा प्रधानस्याने कविशेषण-
संग्राहकत्वादारुण्यादिविशिष्टक्रयविधान इव कारकद्वयसमुच्चय
विधाने
चाक्यभेदो न भवेत् । न च चकारः समुच्चयं प्राधान्येन व्रते, परोपसर्जनत्वे-
नैवाभिधानात् ।
 
अत एव दशमे भाध्यकारैश्वकारस्य समुच्चयशब्दाद्वैलक्षण्यं प्रतिपादि-
तम्-समुच्चयशब्दो हि तं प्राधान्येन ब्रूते, न चकारः । यदि हि प्राधान्येन
विध्यन्वयावश्यम्भावेनाने कविधानकृतो वाक्यभेदो दुष्परिहर एवेत्याइ- उभ्येति ।
 
स्यादयं दोषो यद्यग्निप्रजापत्योरुभयोरपि स्वातन्त्र्येण विधावन्वयः स्वीक्रियेत नत्वे-
तदस्ति, किन्तु चकारार्थे समुच्चय एव, तस्य च निपातार्थत्वेन परस्परान्वयस्य व्युत्प
नत्वात् कुतो वाक्यभेद इति पूर्वोकं पक्षमनुवदति-नचेति । चकारश्रवणात् 'अग्नये
च' 'प्रजापतये च' इति चकारद्वयश्रवणात् । आरुण्यादिविशिष्टेति । यथा "अरुणया
पिङ्गादया एकहायन्या सोमं क्रोणाति" इत्यत्र श्रारुण्यपिङ्गाक्ष्येकहायनीनां गुण-
भूतानां प्रधानया क्रयभावनया वशीकारात् तद्विशिष्टाया एव च तस्या विधानात् न
वाक्यभेदः, तद्वदत्रापि यदि चकारार्थस्य समुच्चयस्य प्राधान्यं स्यात् तदा तेन कारकयोः
वशीकारसम्भवात् तद्विशिष्टसमुच्चय विधानं युक्तं स्यात्, न त्वेतदस्तीत्यर्थः । तत्र हेतु-
माह - परोपसर्जनत्वेनेति । निपातोपसर्गाणां नित्यमन्योपसर्जनीभूतार्थ प्रतिपादकत्वस्यैव
स्वभावसिद्धत्वादिति भावः ।
 
a
 
चकारस्यान्योपसर्जनीभूत समुच्चय प्रतिपादकत्वे भाष्यकारोक्ति प्रमाणयति — मतः
एवेति । दशमे हि "तस्य धेनुरिति गवां प्रकृतौ" इत्यधिकरणे "अथेष भूवॅ.
श्वदेवः" इति वाक्यविदिते भूसंज्ञके एका "धेनुदक्षिणा" इति विहितायाः धेनुरू.
पायाः दक्षिणायाः प्रकृतिप्राप्त गवादिसर्वद्रव्यबाघकत्वम् ? उत गोमात्रबाघकत्वम् ? इति
सन्दिय प्रकृतौ ज्योतिष्टोमे "गोशाश्वश्चाश्वतरश्च गर्दभश्चाजाश्चावयश्च ब्रोदयश्च
यवाश्च तिलाध माषाश्च तस्य द्वादशशतं दक्षिणा" इति वाक्यगतो दक्षिणाशब्दः
गवादिभिः प्रत्येकं सम्बध्यते । न च चशब्दभवणात् तेषां समुदायः प्रतीयत इति वाच्य
म् । चशब्दस्य प्राधान्येन समुच्चयावाचकत्वात् । अत प्रत्येकमेव दक्षिणात्वात् घेनुः,
साहश्यात गवामेव निवर्तिकेति पूर्वपक्षप्रस्तावे भाष्यकारेणोक्तम्- वशब्दः समुच्च-
यार्थो भवति न तु समुच्चयस्य निर्देशकः, परपद विशेषणार्थ तु समुच्चय-
मुपादत्ते, यदि हि निर्दिशेत् क्रियागुणैः समुच्चयः सम्बध्येत, समुच्चयः
शोभन: समुच्चयो द्रष्टव्यः इति यथा भवति तथा च शोभनः च द्रष्टव्यः
इति वा भविष्यति यथेह समुच्चेययोः षष्ठी भवति धवखदिरयोस्समुच्चय
इति, एवं धवः खदिरश्चेत्यत्राभविष्यत्, न तु भवति, तस्मात् न चशब्दः
समुच्चयं निर्दिशति' इति । इदं च भाष्यवाक्यमर्थतोऽनुवदति- समुच्चयशब्द