This page has been fully proofread once and needs a second look.

वार्थं विधानेऽपि तद्विधिगतयोः सायंप्रातःशब्दयोरानर्थक्यम्, विधीय-
मानयोर्मन्त्रयोर्व्यवस्थयैव प्राप्तिसंभवात्तत्प्रकाश्ययोर्देवतयोर्व्यवस्थितत्वात्।
अनुवादत्वोक्तिस्तूभयत्र तुल्येति।
 
मान्त्रर्णिकत्वेऽपि अग्नेः केवलस्यैव देवतात्वं न गुणविशिष्टस्य। "यद-
ग्नये चे"ति वाक्ये "अग्नेः पूर्वाहुति"रित्यत्र च केवलस्यैवाग्नेः संकीर्तनात्
केवलस्यैव देवतात्वावगतेः। यथा ह्यपांशुयाजे विष्ण्वादेर्मान्त्रवणिकत्वेऽपि
न गुणविशिष्टस्य देवतात्वं "विष्णुरुपांशु यष्टव्य" इत्यर्थवादे केवलस्यैव
संकीर्तनात्तद्वदिति।
 
अतश्च मान्त्रवर्णिकत्वे दोषाभावाद्देषताद्वयविधाने च गौरवापत्तेरन्यतः
 
[commentary]
 
पुनर्विधिः प्रतिप्रसवविधिः । एवञ्च केवललिङ्गकमन्त्रवर्णयोः पाठतः प्रसक्तप्राप्तिकयोः
मिश्रलिङ्गकमन्त्रविधिबलात् निवृत्तौ अनेन विधिना तत्प्राप्तिः प्रतिप्रसूयत इत्यङ्गी कारेऽ-
पीत्यर्थः। व्यवस्थयैवेति। 'अग्निर्ज्योति' रिति सायं होम एव, 'सूर्यो ज्योति' रिति
प्रातर्होम एवेति व्यवस्था करणेनेत्यर्थः। यदि तु अनुवादत्वमेव तयोरङ्गीक्रियेत तर्हि
मत्पक्षेऽपि तत् तुल्यमेवेति कुतोऽहमेव पर्यनुयोज्यः इत्याह-अनुवादत्वोक्तिरिति।
'यदग्नये' 'यत्सूर्याय' इति वाक्ययोर्देवताद्वयविधिपक्षे तद्वाक्यगतसायंप्रातः पदे
व्यवस्थां प्राप्तकालानुवादके एव इति यद्युच्येत तदस्मस्पक्षेऽपि तुल्यमित्यर्थः।
 
द्वितीयं दूषणमुद्धरति--मान्त्रवर्णिकत्वेऽपीति। केवलस्यैवेति। न हि मन्त्र-
प्रतिपाद्यगुणानां द्रव्यत्यागकालीनोच्चारणकर्मत्वरूपदेवतात्वान्तर्भावः विधिगतशब्दस्यै-
व तत्वावश्यम्भावस्य दशमे साधितत्वात्। विधिश्च केवलस्यैवाग्नेर्देवतात्वमनुवदति, न तु
गुणविशिष्टस्य। एवं क्रमबोधकवाक्येऽपि संकीर्तनात् तस्यैव देवतात्वमिति। विष्ण्वादेः
इत्यादिपदेन प्रजापत्यग्नीषोमाः परिगृह्यन्ते।
 
एवञ्चाग्नेर्मान्त्रवर्णिकत्वाङ्गीकारेऽपि भवदुक्तानां दोषाणामप्रसक्तेः भवन्मत एव चोभ-
यविधानकृतगौरवप्रसङ्गात् मत्पक्ष एव श्रेयानित्याह-अतश्चेति। देवताद्वयविधाने
'अग्नेः प्रजापतेश्च विधौ। ननु निपातोपसर्गाणां द्योतकत्वपक्षस्यैवाश्रयणात् तदा च तत्स-
मभिव्याहृतस्यैकस्यैव पदस्य विशिष्टार्थवाचकत्वं इतरेषाञ्च तत्समभिव्याहृतानां तापर्यं-
ग्राहकत्वमित्यङ्गीकारात् प्रकृते चैकस्यैव प्रजापतिपदस्य श्रग्निसमुच्चितप्रजापति विधायक-
त्वमङ्गीकृत्येतर योस्तात्पर्य ग्राहकत्वाङ्गीकारे न तयोर्वैयर्थ्यं न वानेकविधानकृतो वाक्यभेद
इत्यत आई- ह--गौरवापत्तेरिति । यद्यप्यस्मिन् पक्षे नानेकविधानकृतो वाक्यभेदः,
तथापि श्रुतस्य प्रजापतिपदस्य विशिष्टार्थबोधकत्वकल्पने इतरयोश्च तत्तात्पर्य ग्राहकत्वकल्प.-
नेऽस्त्यैयेव गौरवमिति भावः । तदेव द्योतयति - -अन्यतः प्राप्तेत्यादिना । एतावता
द्योतकत्वपक्षाञ्जीङ्गीकारेऽपि दोषोऽपरिहार्य इत्युक्तम् । वस्तुतस्तु तत्तन्निपातोपसर्गसम-
भिव्याहारे तत्तत्पदेषु विशिष्टार्थबोधकस्त्वरूपशक्तिकल्पनं निपातादीनां च द्योतकत्वशक्ति-
कल्पनमित्यने कशक्तिकल्पनाप्रयुक्तगौरवापत्या वाचकत्वपक्ष एव श्रेयानभ्युपगन्तव्यः,
प्रताभिअतश्चाग्निसूर्ययोः भिन्नपदोपात्तत्वात् कारकरवाच्च परस्रवैशिष्ट्यानुपपत्त्या पृथक् पृथगेव
 
4