This page has not been fully proofread.

१३८,
 
[ नामधेय-
वार्थ विधानेऽपि तद्विधिगतयोः सायंप्रातःशब्दयोरामर्थक्यम्, विधोय.
मानयो मन्त्र योर्व्यवस्थयैव प्राप्तिसंभवात्तत्प्रकाश्ययोदें वत्तयोर्व्यवस्थितत्वात् ।
मनुवादत्वोक्तिस्तूभयत्र तुल्येति ।
 
मास्वर्णिकवेऽपि अग्नेः केवलस्यैव देवतात्वं न गुणविशिष्टस्य । "यद-
नये चे"ति वाक्ये "प्रग्नेः पूर्वाहुति"रित्यत्र च केवलस्यैवाग्नेः संकीर्तनात
केवलस्यैव देवतात्वावगतेः । यथा ह्यपांशुयाजे विषयवादेर्मान्त्रवणिकत्वेऽपि
न गुणविशिष्टस्य देवतात्वं "विष्णुरुपांशु यष्टव्य" इत्यर्थवादे केवलस्यैव
संकीर्तनात्तद्वदिति ।
 
अतश्च मान्त्रवर्णिकरवे दोषाभावाद्देषताद्वयविधाने च गौरवापत्तेरन्यतः
पुनर्विधिः प्रतिप्रसवविधिः । एवम्च केवललिङ्गक मन्त्रवर्णयोः पाठतः प्रसक्तप्राप्तिकयोः
मिश्रलिङ्गकमन्त्रविधिबलात् निवृत्तौ अनेन विधिना तत्प्राप्तिः प्रतिप्रसूयत इत्यङ्गी कारेड-
पीत्यर्थः । व्यत्रस्थयैवेति । 'अग्निज्योति' रिति सायं होम एव, 'सूर्यो ज्योति रिति
प्रातर्होम एवेति व्यवस्था करणेनेत्यर्थः । यदि तु अनुवादत्वमेव तयोरङ्गीक्रियेत तर्हि
`मस्पक्षेऽपि तत् तुल्यमेवेति कुतोऽहमेव पर्यनुयोज्यः इत्याह - अनुवादश्वोक्तिरिति ।
'यदग्नये' 'यत्सूर्याय' इति वाक्ययोर्देवताद्वयविधिपक्षे तद्वाक्यगतसायंप्रातः पदे
व्यवस्थां प्राप्तकालानुवादके एव इति यद्युच्येत तदस्मस्पक्षेऽपि तुल्यमित्यर्थः ।
 
T
 
>
 
द्वितीयं दूषण मुद्धरति
- मान्त्रवणिकत्वेऽपोति । केवलस्यैवेति । न हि मन्त्र-
प्रतिपाद्यगुणानां द्रव्यत्याग कालीनोच्चारण कर्मत्वरूपदेवतात्वान्तर्भावः विधिगतशब्दस्यै-
व तत्वावश्यम्भावस्य दशमे साधितत्वात् । विधिश्व केवलस्यैवाग्नेर्देवतात्वमनुवदति, न तु
गुण विशिष्टस्य । एवं क्रमबोधक वाक्येऽपि संकीर्तनात् तस्यैव देवतास्वमिति । विष्ण्वादेः
इत्यादिपदेन प्रजापत्यग्नीषोमाः परिगृह्यन्ते ।
 
मोमसान्यायप्रकाशः
 
एवञ्चाग्नेर्मान्त्रवणिकत्वाशी का रेऽपि भवदुक्तानां दोषाणामप्रसक्तः भवन्मत एव चोभ
यविधानकृत गौरवप्रसज्ञात् मस्पक्ष एव श्रेया नित्याह- प्रतश्चेति । देवताद्वयविधाने
'अग्नेः प्रजापतेच विधौ । ननु निपातोपसर्गाणां द्योतकस्वपक्षस्यैवाश्रयणात् तदा च तत्स
मभिव्याहृतस्यै कस्यैव पदस्य विशिष्टार्थवाचकरवं इतरेषाच तत्समभिव्याहतानां तापर्यं-
ग्राहकत्वमित्यङ्गीकारात् प्रकृते चैकस्यैव प्रजापतिपदस्य श्रग्निमच्चितप्रजापति विधायक-
त्वमङ्गीकृत्येतर योस्तात्पर्य ग्राहकत्वाङ्गीकारे न तयोर्वैयर्थ्य न वानेकविधानकृतो वाक्यभेद
इत्यत आई- गौरवापत्तेरिति । यद्यप्यस्मिन् पक्षे नानेकविधानकृतो वाक्यभेदः,
तथापि श्रुतस्य प्रजापतिपदस्य विशिष्टार्थबोधकत्वकल्पने इतरयोश्च तत्तात्पर्य ग्राहकत्वकल्प.
नेऽस्त्यैव गौरवमिति भावः । तदेव द्योतयति - अन्यतः प्राप्तेत्यादिना । एतावता
द्योतकत्वपक्षाञ्जीकारेऽपि दोषोऽपरिहार्य इत्युक्तम् । वस्तुतस्तु तत्तनिपातोपसर्गसम-
भिव्याहारे तत्तत्पदेषु विशिष्टार्थबोधकस्वरूपशक्तिकल्पनं निपातादीनां च द्योतकत्वशक्ति-
कल्पनमित्यने कशक्तिकल्पनाप्रयुक्तगौरवापरया वाचकत्वपक्ष एव श्रेयानभ्युपगन्तव्यः,
प्रताभिसूर्ययोः भिन्नपदोपात्तत्वात् कारकरवाच्च परस्रवैशिष्ठयानुपपत्या पृथक् पृथगेव
 
4