This page has not been fully proofread.

तदैवं प्रकरणं प्रयाजादीनां विनि
योजकम् । तच्च द्विविधं महाप्रकरणम
वान्तरप्रकरणं चेति। तत्र फलभावनायाः
प्रकरणं महाप्रकरणम् ।
 
[ १२ ]
 
तदन्तराले यदङ्गभावनायाः प्रक
रणं तदवान्तरप्रकरणम् तच्चाभिक्रम-
गादीनां प्रयाजादिषु विनियोजकम् ।
( न्या. र. पृ. १३३ )
 
यस्तु सह प्रयुज्यमानेषु सनिपाति-
नामावृत्त्यानुष्ठाने प्रथमक्रम एष द्विती-
यादिष्वपि प्रयोगवचनामसाहित्याबाधा.
याऽऽश्रीयते स प्रवृत्तिक्रमः (न्या. र. १५५)
 
2
 
यस्तु प्रकृतौ नानादेशगतानां पदा-
र्थानां विकृता वेकस्य देशे सर्वेषामनुष्ठाने
वचनात् कर्तव्ये सति यस्य देशेऽनुष्ठी-
यन्ते तस्य प्रकृत्यवगतस्थानाबाघे नाग-
न्तुभिः क्रमस्समाश्रीयते स काण्डक्रमः ।
( न्या. र. १५५ )
 
तच्च प्रकरणं द्विविधं महाप्रकरण-
मवान्तरप्रकरणं चेति । तत्र फलभाव..
नायाः प्रकरणं महाप्रकरणम् । तच्च-
प्रयाजादीनां ग्राहकम् ( न्या. प्र. ५२ ).
 
फलभावनाया अन्तराले यदजभा•
वनायाः प्रकरणं तदवान्तरप्रकरणम् ।
तच्चाभिक्रमणादीनां प्रयाजादिषु विनि-
योजकम् ( न्या. प्र. ६५ )
 
सह प्रयुज्यमानेषु प्रघानेषु सन्नि-
पातिनामानामावृत्यानुष्ठाने कर्तव्ये द्वि-
तीयादिपदार्थानां प्रथमानुष्ठितपदार्थक्रमात्
यः क्रमः स प्रवृत्तिक्रमः (न्या. प्र. १०० )
 
प्रकृतौ नानादेशानां पदार्थानां वि-
कृतावेकस्मिन् देशेऽनुष्ठाने कर्तव्ये यस्य
देशेऽनुष्ठीयन्ते तस्य प्रथममनुष्ठानमित-
रयोश्च पश्चात्, अयं यः क्रमः स स्थान-
क्रमः । ( न्या. प्र. ४६ )
 
ar vizie
 
प्रन्थकृत्समयः
 
भूमिमिमामलंचकारेत्य •
 
a
 
श्रीमन्तः खण्डदेवाः त्रयो-
ग्रन्थकृदयं दाक्षिणात्यो महाराष्ट्रो देवोपनामके कुले समुत्पन्नः सप्तशत्याः शतब्द्या
श्रादिमे भागे ( Seventeenth century A. D.)
भ्यूहितुं शक्यते । पूर्वोत्तरमीमांसयोः परं पारमधिगतवन्तः श्री
विंशत्युत्तरसप्तशताधिकसहस्रे ( १७२३ ) वैक्रमेऽन्दे ( 1665 A.D.) वाराणस्थां
स्वीयं भौतिकं देहं तत्यजुरिति प्रमाणैरवगम्यते । तैम स्वीये भाट्टदीपिकाप्रन्थे न्याय-
प्रकाशोकानां एतद्ग्रन्थकर्तृपुत्रकृत भाद्दालङ्कारोक्कानां च विषयाणां खण्डनं कृतम् ।
एतच्च स्पष्टीकृतं तच्छिष्यैः श्रीशम्भुभट्टैः स्वकृतायां तद्व्याख्यायां प्रभावल्यां - "यस्तु
न्यायप्रकाशे सप्तमीबहुव्रीहिरप्याश्रितः तस्य दूषणं कौस्तुमे द्रष्टव्यम्" – "यतु भाहाल-
ड्ङ्कारकृता...... तदुपेक्षितं पूज्यपादैः" इत्यादिना प्रन्थेन । प्रतक्ष भाट्टदीपिका कारेभ्यः
श्रीखण्डदेवेभ्यः किञ्चिदिव पूर्वस्मिन् काले ग्रन्थकर्ताऽयमासीदित्यवगम्यते । एतस्कुलपर-
स्वराप्रतिपादकाः श्लोका एतत्तनुजकृतस्मृतिकौस्तुमे उपलभ्यन्ते । ते यथा-
आसीद् गोदावरीतीरे वेदवेदिसमन्वितः । श्रीकृष्ण भक्तिमानेक एकनाथाभिघो द्विजः ॥
तत्सुतस्तद्गुणैर्युक्तः सर्वशास्त्रार्थतत्त्ववित् श्राप देवोऽभवद्देवात् प्राप यहंसकलान् मनून् ॥२॥
मोमांसानयकोविदो मधुरिपोरसेवासु नित्योद्यतः
विद्यादानविभावितोत्तमयशा चासीत् तदीयात्मजः ।
 
-