2023-03-24 15:51:37 by Veera Raagavan
This page has not been fully proofread.
यत्त - अग्नेर्मान्त्रवणिकत्वे मन्त्र वर्णस्य "श्रग्निज्र्ज्योतिज्र्ज्योतिरग्निः स्वाहेति
सायं जुहोतो" ति वाक्येन सायंहोमे विनियुक्तत्वात् तत्प्रकाश्यस्याग्नेरपि
प्रजापतिसमुचितस्य तत्रैव देवतात्वावगतेः 'यदग्नये चे' ति वाक्ये सायं.
शब्दो व्यर्थ इति, एवं 'यत्सूर्याय चे'ति वाक्ये प्रातःशब्दो व्यर्थ इति ।
किञ्च मन्त्रवर्णेन
देवतात्वापात इति ।
C
तदपि न होमानुवादेन देवताद्वयविधानेऽपि मन्त्रवर्णयोर्लिङ्गादेव
प्राप्तिसंभवात्तद्विध्यानर्थकयात् । मिश्रलिङ्गमन्त्रविधिपर्युद
धनार्थं वाक्यान्तरस्याप्यावश्यकत्वादित्यर्थः ।
इतोऽन्यदपि दोषद्वयमापादित मनुवदति यचिति । न च पूर्वोत्तरीत्या समाधानम्,
तस्य मन्त्रविनियोगविधिनैव प्रातत्वात् । तत्प्रकाश्यस्य मन्त्रवर्णप्रकाश्यस्य । तत्रैव
सायंहोम एव । देवतात्वावगते रिति । यागीयद्रव्यदेवतादिप्रकाशनस्यैव मन्त्र कार्यस्वेन
स्र यस्मिन् कर्मणि विनियुक्तः तत्र स्वप्रतिपाद्याया देवताया अङ्गत्वावश्यम्भावादिति भावः।
व्यर्थ इति । प्राप्तस्य पुनर्विघाने प्रयोजनाभावादिति भावः । प्रातश्शब्द इति । तत्रापि
सूर्यरूप मान्त्रवर्णिकस्य प्रातःकाले देवतात्वेन प्राप्तत्वादित्यर्थः । ज्योतिष्ठगुणविशिष्ट
स्येति । मन्त्रे 'अग्निर्ज्योति' रिति ज्योतिः पदसामानाधिकरण्यात् 'विष्णवे शिपिवि
टाय' इत्यादौ शिपिविष्टगुणस्य विष्णुविशेषणत्वमिव ज्योतिष्ठरूपगुणस्याग्नि विशेषण स्व-
प्रतीतेरिति भावः । विशिष्टस्य ज्योतिष्टगुप विशिष्टस्य । अस्मन्मते तु केवलाग्ने रेव
समुच्चय विशेषणतया विधानात् न तदापत्तिरिति भावः ।
प्रतिबन्द्या उत्तरयति - होमानुवादेनेति । 'यदग्नये चेति वाक्येन होमोद्देशेना.
ग्निप्रजापथ्योरुभयोरपि विधानमञ्जीकुर्वतो भवतः पक्षेऽपि होमीय देवताप्रकाशकयोः मन्त्रयोः
लिङ्गादेव व्यवस्थया तत्तद्धीमाङ्गत्वावगमे पुनस्तद्विनियोजकयोः "अग्निर्ज्योतिज्योति-
रग्निः स्वाहेति सायं जुहोति" "सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः"
इति वाक्ययोवँ यर्थ्यमापद्यत इत्यर्थः । अस्मन्मते केवलं सायंप्रातश्यब्दयोरेव वैयर्थ्यमा•
पाद्यते भवता, भवन्मते तु वाक्यद्वयस्यापि वैयर्थ्यमापद्यत इति किमिदं वृश्चिकदंशाद्
भीतस्य सर्पमुखे पतनमिति भावः । तद्विध्यानर्थक्यात् मन्त्रविध्यानर्थक्यात् । यदि
तु एतद्विध्यभावे "अग्निज्र्ज्योतिज्योतिस्सूर्यस्खहेति सायं जुहोति" "सूर्यो
ज्योतिज्योतिरग्निस्स्वाहेति प्रातः" इति वाक्याभ्यां मिश्रलिङ्गकमन्त्रवर्णयोः विनि-
योगात् विनियुक्ताभ्यां ताभ्यां पाठमात्रेण प्रकरणादिना वा सम्भवत्प्राप्तिकयोः शुद्धलिङ्ग-
कमन्त्रयोः बाघे प्रसके पुनः तत्प्रतिप्रसवार्थे विधिरित्याशङ्कयेत तदापि लिङ्गादेव व्य.
वस्थासिद्धेः तद्वाक्यगत सायंप्रातःपदयोः वैयर्थ्य नैवापवदितुं शक्यमित्याह - मिश्रलिङ्गे-
स्यादिना । प्रतिप्रसवार्थमिति । प्रसक्तप्राप्तिकस्य कारणान्तरेण निवृत्तिप्रसक्ती तत्प्राप्त्यर्थं
सारविवेचिनीव्याख्यासँवलितः
[^१
१८ मो० न्या०
G
61
0