2023-02-20 11:47:35 by ambuda-bot
This page has not been fully proofread.
मोमांसान्यायप्रकाशः
[ नामधेय -
विधानात् एवं मन्त्रव प्राप्तमग्निमनूच तत्समुचित प्रजापतिविधानेऽपि न
बाधकत्वमिति तुल्यम् ।
• यत्तु अग्नेर्मान्त्रवर्णिकटवे "अग्निज्योतिर्ज्योतिस्सूर्यस्स्वाहे" ति मिश्र-
लिङ्गमन्त्रवर्णबलात् सायं होमस्य द्विदैव (१) त्यत्वा पत्तिरिति-
तन; अग्निसमुच्चितप्रजापतिविधानवत् सूर्यसमुच्चितस्याविधानात् ।
प्रबलप्रमाणबाधितेन प्रजापतिना मन्त्रवर्णप्राप्तस्य सूर्यस्य बाधितत्वात् ।
यत- अग्नेर्मान्त्रवर्णिकत्वे प्रजापतिविधेरेकेनैव वाक्येन सिद्धेः 'यदग्नये
च प्रजापतये च सायं जुहोति, "यासूर्याय च प्रजापतये च प्रातः" इति
वाक्यद्वयं व्यर्थमिति-
—
तन; भवेद्यथं यदि प्रजापतिमात्रविधानं विवक्षितं स्यात्, सायंहोमेऽ.
ग्निसमुच्चितप्रजापतिविधानम्, प्रातर्होमे 'सूर्यो ज्योतिज्योतिः सूर्यः स्वाहेति
सन्त्रवर्ण प्राप्त सूर्यसमुश्चितप्रजापतिविधानं च विवक्षितम् । न चैतदेकन
कमन्त्रवर्णस्यापि देवताप्रापकत्वाशीकारापत्या तद्बोधितस्याग्नेरिव सूर्यस्यापि सायंकाले
प्राप्त्यापत्त्या सायंहोमस्य द्विदैवत्यत्वापत्तिरित्याशङ्कामनुवदति – यविति । तां निरा-
करोति – तन्नेति । अग्निसमुच्चितेति । 'यदग्नये चे' ति वाक्येन सायंहोमोद्देशे
नाग्निसमुच्चितप्रजापतिरेव विधीयते, न तु सूर्यसमुञ्चितप्रजापतिः । अतश्च मन्त्रवर्णप्राप्तवे-
ऽपि सूर्यस्य ब्राह्मणवाक्येन तत्समुच्चितप्रजापते रविधानात् प्रबलप्रमाणबोधितेन प्रजापतिना
सूर्यस्य बाघावश्यम्भावात् न सायंहोमस्य द्विदैवव्यत्वापत्तिरिति भावः । एवं प्रातहोंगे.
ऽप्यनेर्बाघो वेदितव्यः । नचैवं सति प्रातर्हो मेऽग्नेः प्राप्त्यभावेनाग्निहोत्रपदस्य कथं तत्प्र-
ख्यन्यायेन नामधेयत्वमिति वाच्यम् । सायंहोमे प्राप्तिमादायैव तदुपपत्ते:; इष्यत एव
येक देशप्रवृत्तिनिमित्तमादायापि नामधेयत्वं वैश्वदेवादिप देषु, यथोक्तं वासुदेवदीक्षितैः
"कुतूहलवृत्ती-प्रतः 'अग्निहोत्रं जुहोति' इत्यग्निहोत्रपदं पूर्वाहुतेरेव नामधे.
यम्, एकस्यैवाग्निहोत्रस्य' 'सायं जुहोति' 'प्रातर्जुहोति' इत्यभ्यासविधिः,
अतः प्रातर्होमस्य सूर्यदेवस्यत्वेऽपि सायं होमस्याग्निदेवत्यत्वमात्रेणाग्नि-
'होत्रशब्दह्योपपत्तिः कदाचिदग्निदेवत्यत्वयोगेन समाख्यानोपपत्तेरिति ।
तो न दोषः ।
2
●
ननु होमोद्देशेन प्रजापतिमात्र विधाने तस्य कालद्वयेऽप्यावृत्त्या प्रजापतेरपि दध्यादि-
"वदावृत्तिसिद्धेः व्यर्थं वाक्यद्वयमिति पूर्वपदयुक्तं दूषण मनुवदति – यविति । यदि 'यद्-
'ग्नये चेति' प्रजापतिमात्रविधानं भवतोऽभिप्रेतं तहिं प्रजापतये जुहोतीत्येतावतैवालम्,
तस्या वृत्त्यैवोभयत्र सम्बन्धसिद्धेः । अतस्तद्वाक्यस्थं 'अग्नये' 'साय' मिति पदद्वयं
वाक्यान्तरञ्च व्यर्थमित्यर्थः ।
समाधत्ते- तन्नेति । सायंहो मेऽग्निसमुच्चितप्रजापतेरेव विधातुमिष्टत्वेन तस्य चाग्नि-
: पदमन्तरा असम्भवेनाग्निपदस्यावश्यकत्वात् सायंहोम एव च तत्प्राप्तेरिष्टतया तदर्थं
सूर्यसमुच्चितप्रजापतेरप्राप्ततया तत्र तद्वि-
2
सायंशब्दस्याप्यावश्यकत्वेन, प्रातःकालीनहोमे
१. द्विदैवतत्वापात्तिः इति क ।