2023-02-20 11:47:35 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनोव्याख्यासंवलितः
तावद्देवतात्वम् । तच्च संप्रदानस्वरूपान्तर्गतम्, त्यज्यमानद्रव्योद्देश्यत्वे
सति प्रतिग्रहोतृत्वस्य संप्रदानत्वात् । प्रतश्चतुर्थीतः संप्रदानैक देशतया
देवतात्वप्रतीतिरस्त्येव । मन्त्रवर्णा न देवतात्वं प्रतीयते, कित्वधिष्ठा:
नमात्रम् । अतश्च मन्त्रवर्णश्चतुर्थीतो दुर्बलः । यथाडुः-
तद्धितेन चतुर्थ्या वा मन्त्रवन वा पुनः ।
देवताया विधिस्तन दुर्बलं तु परं परम ॥ इति ॥
तश्च प्रबलप्रमाणबोधित प्रजापतिदेवतया दुर्बलप्रमाणबोधिताग्नेर्बाधः
क्यादिति चेत् -
१३५
सत्यम्; स्याद्वाथो यदि "प्रजापतये जुहोती"ति केवलप्रजापतिविधानं
स्यात् । विधीयमानस्तु प्रजापतिर्मन्जव प्राप्तमग्निमनूध तत्समुचितो होमो.
द्देशेन विधीयते । समुच्चितोभयविधानापेक्षया अन्यतः प्राप्तमझिमनूद्य
तत्समुश्चितप्रजापतिमात्रविधाने लाघवात् । अतश्चन बाधकत्वम्, निरपेक्ष-
विधानाभावात् । यथा च त्वन्मतेऽग्निप्रजापत्योरेकहोमोद्देशेन विधाना-
तुल्यार्थत्वेन विकल्पे प्रसक्ते प्रजापतेर्न पाक्षिकमग्निबाघ कत्वम्, समुच्चय-
मान्त्रवर्णिकमिति । देवतात्वमित्यनुषङ्गः । सास्येति । अस्य हविषः चरुपुरोडाशादेः,
सूक्तस्य वा मन्त्रसमुदायरूपस्य सा इन्द्रादिः देवता इत्यस्मिन्नर्थे प्रत्यया प्रणादयो
भवन्तीति सुत्रार्थः । सम्प्रदानैक देशतयेति । सम्प्रदाने शताया अपि चतुर्थी विभक्तेः
तदेक देशभूत देवतास्वे एक देशलक्षणया प्रवृत्तिसम्भवादिति भावः । तद्धितेनेति । कारि-
गतार्था । देवताया विधिः विधेयदेवतासमर्पणमित्यर्थः ।
का
सत्यं मन्त्रवर्णापेक्षया चतुर्थी प्रबला, तथापि नात्राग्नेः प्रजापतिना बाघ इति समा•
धत्ते सत्यमित्यादिना । यद्यस्मिन्नपि पचे विधेयप्रजापतिविशेषणतया अग्निसमुच्चय-
स्थापि विधेयत्वावश्यंभावः तदा को विशेष : पूर्वस्मात् पक्षात् ? इत्यंत शाह-समुचि
तोभयेति । एवच न समुच्चय मात्र विधाने गौरवमापाद्यतेऽस्माभिः, किन्तु तद्विशेषणत
"याग्नेरपि विधाने उभयविधानकृतो वाक्यभेद आापादितः स च नास्माकं मते, इत्या
शयवानाह-लाघवादिति । अतश्च मन्त्रवर्ण प्राप्तमग्निमनूद्य तत्समुच्चितप्रजापते विधाने
श्रयंशे विधिव्यापाराभावात् लाघवम्, तत्समुच्चितप्रजापत्तेर्विधानाच्च नाग्नेर्बाध इत्याह-
प्रतश्चेति । निरपेक्ष विधानाभावादिति । इतरनैरपेक्ष्येण विधाने हि प्रवलेन दुर्ब
लक्ष्य बाधः स्यात्, तुल्यबलस्खे वा पाक्षिको बाघः, न चैतदस्ति, अग्निसापेक्षस्यैव प्रजा०
पतेर्विधानात्, यथैव ह्यन्यतः प्राप्तहोमाभिषव समानकर्तृकस्वविधिना "प्रावभिरभिषु.
त्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति" इत्यनेन होमाभिषवयोभं•
क्षणाङ्गत्वं बोध्यते, तद्वत् अत्रापि मन्त्रवर्णतोऽङ्गत्वेनावघृताग्निसमुच्चितप्रजापति विधाने
बाघकाभावात् । भवतामपीदमवश्यमभ्युपगन्तव्यमेव, अन्यथा अभिप्रजापत्योर्विकल्पः
स्यात्, तदेतदाह- यथा चेत्यादिना ।
6
ननु यद्यमेर्मान्त्रवणिकत्वमङ्गीक्रियेत तर्हि केवल लिङ्ग कमन्त्रवण
मित्रलिङ्ग•