This page has been fully proofread once and needs a second look.

१३४
 
मीमांसान्यायप्रकाशः
 
[ नामधेय-

 
"सायं जुहोती"ति वचनान्तरेण प्राप्तत्वात्, तथा अग्निरपि न विधीयते,

"ग्निज्योतिज्योतिरनिः स्वाहेति मत्रवर्णादेव प्राप्तत्वात् । मन्त्रवर्णस्यापि

देवतासमर्पकत्व ([^) ]मस्त्येव । अत एवोपांशुयाजे विष्ण्वादीनां मान्त्रवर्णिकं

देवतात्वमित्युक्तम्
 

 
नन्वेवं प्रजापतिदेवतया अग्नेर्बाधः स्यात् । चतुर्थ्या हि प्रजापतेर्देवतात्व
-
मवगम्यते, अग्नेस्तु मान्त्रवर्णिकम् । (। [^) ]तत्र 'लासाऽस्य देवता' इति देवतात्वे

तद्धितस्मरणवत् यद्यपि देवतात्वे चतुर्थीस्मरणं नास्ति, ([^) ]' संप्रदाने

चतुर्थी" ति संप्रदाने तस्याः स्मरणात् तथापि त्यज्यमानद्रव्योद्देश्यत्वं
 
स्

 
[commentary]
 
त्
वादिति भावः । मन्त्रवर्णादेवेति । केवललिङ्गक मन्त्रवर्णा देवेत्यर्थः । प्रधानक्रमे पठि
-
तस्य 'अग्निर्ज्योतिज्र्ज्योतिरग्निः स्वाहेति सायं जुहोती 'ति सायंकाली नहोंनहोमे

विनियुक्तस्य मन्त्रस्य प्रधानाङ्गत्वेऽवगते तत्प्रतिपाद्याया अपि देवतायाः तदनस्ङ्गत्वस्य तादृ-

शमन्त्रलिङ्गादेव सिद्धत्वादिति भावः । ननु तद्धितस्य देवतात्वे स्मरणात् चतुर्थ्याश्

तत्र स्मरणाभावेऽपि सम्प्रदानत्वे स्मरणात् देवतात्वस्य च सम्प्रदानैकदेशत्वादस्तु तयोदेंर्दे-

वतासमर्पकत्वम्, मन्त्रवर्णस्य तु तथा स्मरणस्य कुत्राप्यदृष्टचरत्वात् कथं तस्य देवता -

समर्पकत्वमित्यत श्राइआह मन्त्रवर्णस्यापीति । यद्यपि मन्त्रवर्णस्य न देवतात्वबोधकत्वं

स्मृतम् तथापि सिद्धेन मन्त्रवर्णकल्प्येन वा मन्त्रविनियोगविधिना मन्त्राणां प्रधानाङ्ग-

त्वेऽवगते तदन्यथानुपपत्त्या तत्प्रतिपाद्यस्याध्प्यग्न्यादेः देवतात्वं कल्प्यते इति युक्तमेव

मन्त्रवर्णस्यापि देवतासमर्पकत्वमिति भावः । अत एव मन्त्रवर्णस्य देवतासमर्पकत्वस-
वादेव ।

त्त्वादेव। विष्ण्वादीनाम्
विष्णुवादीनाम् विष्णुप्रजापत्यग्नीषोमायाम् णाम्। तैत्तिरीयब्राह्मणे तृतीयाष्टके

पञ्चमप्रपाठके दशमानुवाके आग्नेयाग्नीषोमीययाज्यानुवाक्यायुगलयोर्मध्ये "प्रजापते न

त्वदेतानि"स वेद पुत्रः पितर' मिति प्रजापतिदेवताकं याज्यानुवाक्याद्वयमा स्म्नातम्

ऐतरेयके च आग्नेयैन्द्राग्नयाज्यानुवाक्यायुगलयोर्मध्ये "इदं विष्णुर्विचक्रमे" "प्र

तद्विष्णु स्तवते" इति वैष्णव्यौ याज्यानुवाक्ये आम्नाते । तथैवैतरेयके तन्मध्य एव

"प्राम्यं दिवो मातरिश्त्रावा" "अग्नीषोमा यो अद्य वाम्" इत्यग्नीषोमीययाज्या-

नुवाक्ये आम्नाते । एवं शाखाभेदेनाम्नातैः वैष्णवप्राजापत्याग्नीषोमीययाज्यानुवाक्या.
-
युगलैः विष्ण्वादयो देवतात्वेन समर्प्यन्त इत्युक्तं द्वितीये उपांशुयाजाधिकरणे, तदेतदाह -

विष्ण्वादी
नामित्यादिना
 
>
 

 
नन्वेवं मन्त्रवर्णस्याग्निप्रापकत्वाङ्गीकारे 'यदग्नये चे'ति वाक्यगत चतुर्थ्ये॑येव प्रजाप
-
तिविधानात् प्रबलप्रमाणबोधितेन तेन दुर्बलप्रमाणबोधितस्याग्नेः बाघःधः स्यादित्याशङ्कते-

नन्विति । एवम् अग्नेमंर्मन्त्रवर्णात् प्राप्तिस्वीकारे । अग्नेरिति । देवताभूतस्येति यावत्
 

 
[^
.] कत्वात् ।
 

 
[^
.] यद्यपि 'सास्य देवता' इति देवताएंत्वे तद्धितस्मरणवत् तत्र चतुर्थीस्मरणं नास्ति इति क

 
[^
.] यद्यपीदं सूत्रं "चतुर्थी सम्प्रदाने" इत्येवो पलभ्यतेऽष्टाध्याय्याम् । तथाप्यत्र सर्वेष्वप्यादर्शपुस्तकेषु
"सम्प्रदाने चतुर्थी" इत्येव पाठस्योपलम्भात् तदन्यथाकरणभीतेन मया स एव पाठो मूले निवेश्चिशितः