2023-02-20 11:47:34 by ambuda-bot
This page has not been fully proofread.
१३४
मीमांसान्यायप्रकाशः
[ नामधेय-
१
"सायं जुहोती"ति वचनान्तरेण प्राप्तत्वात् तथा अग्निरपि न विधीयते,
"मग्निज्योतिज्योतिरनिः स्वाहेति मत्रवर्णादेव प्राप्तत्वात् । मन्त्रवर्णस्यापि
देवतासमर्पकत्व (१) मस्त्येव । अत एवोपांशुयाजे विष्यवादीनां मान्नवर्णिकं
देवतात्वमित्युक्तम् ।
नन्वेवं प्रजापतिदेवतया अनर्बाधः स्यात् । चतुर्थ्या हि प्रजापतेर्देवतात्व
मवगम्यते, अग्नेस्तु मान्नवर्णिकम् । (२) तत्र 'लाऽस्य देवता' इति देवतावे
तद्धितस्मरणवत् यद्यपि देवतात्वे चतुर्थीस्मरणं नास्ति, (३) ' संप्रदाने
चतुर्थी" ति संप्रदाने तस्याः स्मरणात् तथापि त्यज्यमानद्रव्योद्देश्यत्वं
स्वादिति भावः । मन्त्रवर्णादेवेति । केवललिङ्गक मन्त्रवर्णा देवेत्यर्थः । प्रधानक्रमे पठि•
तस्य 'अग्निर्ज्योतिज्र्ज्योतिरग्निः स्वाहेति सायं जुहोती ति सायंकाली नहोंमे
विनियुक्तस्य मन्त्रस्य प्रधानाङ्गत्वेऽवगते तत्प्रतिपाद्याया अपि देवतायाः तदनस्वस्य तादृ-
शमन्त्रलिङ्गादेव सिद्धत्वादिति भावः । ननु तद्धितस्य देवतात्वे स्मरणात् चतुर्थ्याच
तत्र स्मरणाभावेऽपि सम्प्रदानत्वे स्मरणात् देवतात्वस्य च सम्प्रदानैकदेशत्वादस्तु तयोदें-
वतासमर्पकत्वम्, मन्त्रवर्णस्य तु तथा स्मरणस्य कुत्राप्यदृष्टचरत्वात् कथं तस्य देवता -
समर्पकत्वमित्यत श्राइ मन्त्रवर्णस्यापीति । यद्यपि मन्त्रवर्णस्य न देवतात्वबोधकत्वं
स्मृतम् तथापि सिद्धेन मन्त्रवर्णकल्प्येन वा मन्त्रविनियोगविधिना मन्त्राणां प्रधानाङ्ग-
त्वेऽवगते तदन्यथानुपपत्त्या तत्प्रतिपाद्यस्याध्यग्न्यादेः देवतात्वं कल्प्यते इति युक्तमेव
मन्त्रवर्णस्यापि देवतासमर्पकत्वमिति भावः । अत एव मन्त्रवर्णस्य देवतासमर्पकत्वस-
वादेव । विष्णुवादीनाम् विष्णुप्रजापत्यग्नीषोमायाम् । तैत्तिरीयब्राह्मणे तृतीयाष्टके
पञ्चमप्रपाठके दशमानुवाके आग्नेयाग्नीषोमीययाज्यानुवाक्यायुगलयोर्मध्ये "प्रजापते न
त्वदेतानि"स वेद पुत्रः पितर' मिति प्रजापतिदेवताकं याज्यानुवाक्याद्वयमा स्नातम् ।
ऐतरेयकेच आग्नेयैन्द्राग्नयाज्यानुवाक्यायुगलयोर्मध्ये "इदं विष्णुर्विचक्रमे" "प्र
तद्विष्णुस्तवते" इति वैष्णव्यौ याज्यानुवाक्ये आम्नाते । तथैवैतरेयके तन्मध्य एव
"प्राम्यं दिवो मातरिश्त्रा" "अग्नीषोमा यो अद्य वाम्" इत्यग्नीषोमीययाज्या-
नुवाक्ये नाते । एवं शाखाभेदेनाम्नातैः वैष्णवप्राजापत्याग्नीषोमीययाज्यानुवाक्या.
युगलैः विष्ण्वादयो देवतात्वेन समर्प्यन्त इत्युक्तं द्वितीये उपांशुयाजाधिकरणे, तदेतदाह -
विष्यवादी
नामित्यादिना ।
>
नन्वेवं मन्त्रवर्णस्याग्निप्रापकत्वाङ्गीकारे 'यदनये चेति वाक्यगत चतुथ्ये॑व प्रजाप
तिविधानात् प्रबलप्रमाणबोधितेन तेन दुर्बलप्रमाणबोधितस्याग्नेः बाघः स्यादित्याशङ्कते-
नन्विति । एवम् अग्नेमंन्त्रवर्णात् प्राप्तिस्वीकारे । अग्नेरिति । देवताभूतस्येति यावत् ।
१. कत्वात् ।
२. यद्यपि 'सास्य देवता' इति देवताएं तद्धितस्मरणवत् तत्र चतुर्थीस्मरणं नास्तिइति क ।
३. यद्यपीदं सूत्रं "चतुर्थी सम्प्रदाने" इत्येवो पलभ्यतेऽष्टाध्याय्याम् । तथाप्यत्र सर्वेष्वप्यादर्शपुस्तकेषु
"सम्प्रदाने चतुर्थी" इत्येव पाठस्योपलम्भात् तदन्यथाकरणभीतेन मया स एव पाठो मूले निवेश्चितः ।