This page has been fully proofread once and needs a second look.

मीमांसान्यायप्रकाशः
 
[ नामधेय-
अत्र केचित् - 'यदनये च प्रजापतये च सायं जुहोति' इति शास्त्रान्तरेण

होमानुवा देनाग्निप्रजापत्यो र्विधानान्ना शिग्निहोत्रपदं देवतासमर्पकम् । न चोभ-

यविधाने वाक्यभेदः । परस्परनिरपेक्ष विधाने हि वाक्यभेदः स्यात् 'अग्नये

जुहोति' 'प्रजापतये जुहोती'ति प्रत्येकं विधिव्यापारात् । ब। चशब्दश्रवणात्तु

परस्परसापेक्षस्यैव पदद्वयस्याख्यातान्वयान्न वाक्यभेदः
 

 
अत एव "ऋत्विग्भ्यो दक्षिणां ददाती" ति वाक्य विहितदक्षिणानुवादेन

"गौश्चाश्वश्चाश्वतरश्च गर्दभश्चाजाश्चावयश्च व्रीहयश्च यवाश्च तिलाश्च माषाश्च
 

 
[commentary]
 
अस्मिन्नपि पक्षे विधित्सितस्याग्निदेवतारूपस्य गुणस्य प्रमाणान्तरेण प्राप्तिमुपपाद-

यिष्यन् तत्र प्रापकप्रमाणविषये न्यायसुधाकृतः तदनुयायिनाञ्च मतमुपपादयति- अत्र

केचिदिति । न्यायसुधाकृत्प्रभृतय इत्यर्थः । शास्त्रान्तरे ऐति णेति। 'अग्निहोत्रं जुहोति
'
इति वाक्यापेक्षया भिन्नेनेत्यर्थः । ननु अत्र यच्छन्ब्दश्रवणात् यच्छन्ब्दस्य च विधिशतिप्रति
क्तिप्रति-
बन्धकत्वस्य द्वितीये साघिधितत्वात् कथमस्य वाक्यस्य देवताविधायकत्व मिति चेत् -एवम् ;

यच्छन्दादेः मण्यादेर्दाहादिप्रतिबन्धकत्वमिव न स्वरूपसमवधानमात्रेण विधिशक्तिप्रति
-
बन्धकत्वम्, किन्तु प्रमाणान्तरतः प्राप्तिद्योतनद्वारा । यच्छन्ब्दादयो हि स्वस म भिव्याहृ
-
पदार्थस्य पूर्वप्रसिद्धिं द्योतयन्तः प्राप्तिमवगमयन्ति, तद्यत्र विधित्सितस्य प्रमाणान्तरेण

प्राप्तिः तत्र प्राप्तस्य पुनर्विधानायोगात् विधिशक्ति प्रतिबन्धकत्वेऽपि यत्राप्राप्तिः न तत्र

विधिशक्तिः प्रतिबध्यते। अत एव "यो दीक्षितो यदग्नीषोमीयं" "योऽदाभ्यं

गृहीत्वा सोमाय जुहोति" इत्यादीदौ सत्यपि यच्छन्ब्दसमभिव्याहारे विधिरङ्गीक्रियत

एव । एवं प्रकृतेऽप्यप्राप्तत्वात् विधिरङ्गीकर्तव्य एवेति
 
-
 

 
प्राप्तकर्मोद्देशेनाग्निप्रजापतिरूपदेवताद्वयविधाने वाक्यभेदमाशङ्कते-न चेति । समा
-
धत्ते परस्परेति । अयं भावः - --समासादिस्थले यत्र सुबन्तयोः परस्परान्वयो व्यु-

स्पन्नः तत्र भवत्येव विशिष्ट विधानम्, यथा- 'श्रश्वाभिधानीम्', 'यत्किञ्चित् सोम-

लिप्त'मित्यादौ । यत्र तु असमस्तस्थले तयोस्स न व्युत्पन्नः तन्त्र परस्परं वैशिष्टयाट्या सम्भ-

वेन पृथक् पृथगेव क्रियान्वयात् प्रत्येकं विधिव्यापाराङ्गीकारापत्या विध्यावृत्तिलक्षणो

वाक्यमैदः स्यात्, प्रकृते च चशब्दश्रवणात् तस्य च निपातत्वात् सुबन्तार्थस्य निपाता-
'

र्थान्वयव्युत्पत्तेः वाक्य भेदाभावात् नानेकविधानं दोषायेति
 

 
दोषाभावमेव स्थलान्तरदृष्टान्तेन द्रढयति - --अत एवेति । वाक्यभेदाभावा देवे.
-
त्यर्थः । ऋत्विग्भ्य इति । अत्र च ददास्त्यन्तेन प्रथमवाक्येन कर्मकररूपत्वि र्त्विगुद्देशेन -
-
दक्षिणादानं विधीयते । द्वितीयेन च पूर्ववाक्यविहितदक्षिणोद्देशेन गवादिद्रव्य विधानमिति

स्थितिः । द्वादशशतम् । द्वादशोत्तरं शतम् । दक्षिणा आनतिसानीभूतं द्रव्यम्
`

तत्र गवादीनामनेकेषां प्राप्तदक्षिणानुवादेन पृथक् विधानाङ्गीकारे वाक्यमेभेदापच्त्त्या च

शब्दसमभिव्याहारबलेन परस्परसहितानामेव गवादीनां विधानमज्ञी ङ्गीक्रियते । चादीनां हि

निपातोपसर्गाणां पृथक् पदत्वेऽपि केवलानां तेषां प्रयोगाभावेन स्वातन्त्र्येण तदर्थस्य

भावनायामन्वयासम्भवात् नित्यं समभिव्याहृतपदार्थविशेषणत्वप्रतीतेः चशब्दस मभिव्या-
A