This page has not been fully proofread.

निरूपणम् ]
 
सार विवेचिनीव्याख्या संवलितः
(तत्प्रख्यशास्त्रात्कर्मनामधेयत्व निरूपणम् )
 
"मग्निहोत्रं जुहोती" त्यत्राग्निहोत्रशब्दस्य कर्मनामधेयत्वं तत्प्रख्यं.
शास्त्रात । तस्य गुणस्य प्रख्यापकस्य प्रापकस्य शास्त्रस्य विद्यमानत्वेनाग्नि-
होत्रशब्दः कर्मनामधेयमिति यावत् । तथा हि-विधिना तावत्तदेव विधेयं यत्न
कारान्तरेणाप्राप्तम् । "अप्राप्ते शास्त्रमर्थवदि'' ति न्यायात्। अग्निहोत्रशब्दस्य-
च गुणविधित्वे यो गुणस्तेन विधेयः स शास्त्रान्तरेण प्राप्तः । कथमिति चेत् -
शृणु - यदि तावदनौ होत्रमस्मिन्निति ( १ ) सप्तमीसमासमाश्रित्य होमा-
(२) धारत्वेनाग्निर्विधेय इत्युच्येत तदा "यदाहवनोये जुहोती" त्यनेनैव
प्राप्तत्वाद्विध्यानर्थक्यम् ।
 
अथ अग्नये होत्रम स्मिन्निति (३) चतुर्थी समासमाश्रित्याग्निरूपा देवता वि
धीयते (४) इति चेत् नः शास्त्रान्तरेख प्राप्तत्वात् । किं तच्छास्त्रान्तर
मिति चेत्-
-
 
१३१
 
( तत्प्रख्यशास्त्रात्कर्मनामधेयत्व निरूपणम् )
 
तृतीयं नामधेयत्वहेतुं निरूपयितुमारभते - अग्निहोत्रमिति । गुणस्येति । अग्नि-
होत्रशब्देन यो गुणो विधिस्तितः पूर्वपक्षे तस्येत्यर्थः । अप्राप्ते प्रमाणान्तरेण ज्ञाते विषये
शास्त्रम् अर्थवत् प्रयोजनवदित्यर्थः । ननु अग्निहोत्रपदे गुणविधिमङ्गीकुर्वता भवता
सप्तमीबहुव्रीहिमाश्रित्य होमोद्देशेना धिकरणभूतोऽग्निर्विघीयत इत्युच्यते ? उत चतुर्थीबहु-
ब्रीहिमाश्रित्य देवतारूपोऽग्निर्विघीयत इत्युच्यते ? न तावदाद्यः पक्षः इत्याह - यदि ताव
दिति । सप्तमीलमासमिति। "सप्तमो विशेषणे बहुव्रीहौ" इति ज्ञापक बलेन
कण्ठे काल इतिवत् कथश्चित् सप्तमीबहुव्रीहिमाश्रित्यापि "यदाहवनोये जुहोति" इति
वाक्येन होमत्वावच्छिन्नोद्देशेना हवनीय रूपाधिकरणस्य विहितत्वेन तेनैव प्राप्तत्वादित्यर्थः।
होमाथारत्वेनेति । देवतोद्देश्य कद्रव्यप्रक्षेपोऽत्र होमपदार्थः । तदाचारत्वेनेत्यर्थः ।
त्यागीयद्रव्यपतन प्रतिबन्धकत्वेनेति यावत् ।
 
6
 
द्वितीयं पक्षं निरस्यति अथेति । यद्यपि सप्तमीबहुव्रीहिवत् नात्र शास्त्रानुगतत्वं
सम्भवति, तथापि "दृष्टानु विधिश्च्छन्दसी" ति स ाीयत इति भावः । चतुर्थ्या
देवतात्वबोधकत्वमनुपदमेव वक्ष्यति ग्रन्थकारः ।
 
3
 
१. अत्राग्निहोत्रपदे सप्तमीबहुब्रीहिं चतुर्थी बहुमोहिं वाऽऽश्रित्य होत्रशब्दस्य च कर्मव्युत्पत्या द्रव्यवा-
चकत्वमङ्गीकृत्य च अधिकरणभूतस्य देवताया अग्नेः प्राप्तिः प्राचीनैरुपपादिता । तदनुसृत्य व्याख्या
तोऽत्रत्यो ग्रन्थः पूज्यपादैः । वस्तुतस्तु होत्रशब्दस्य भावव्युत्पत्त्या क्रियापरत्वम्, तत्पुरुष समास एव
चेष्टस्तेषाम् । अत एव तैः तन्त्रसिद्धान्तरस्नावल्यां तत्प्रख्यन्यायनिरूपणावसरे अग्निहोत्रपदस्य तत्पुरुष
समासो व्युदपादि । उपपादि च स्वाशयः - अत्र यद्यपि प्राचीनैः कर्मव्युत्पत्तिमाश्रित्य दध्यादिद्रव्यपरएंवे-
मङ्गीकृत्य, अग्नये होत्रम् अग्न्युद्द्देश्यक
होमसाधनद्रव्यं यस्मिन्निति बहुव्रीया अय ऐनाग्निहोत्रशब्दः
प्रसाधितः, तथापि भावसाघनत्वाङ्गीकारेणैव निर्वाह कर्मसाघनत्वाङ्गीकरणे फलाभावाद्वेदे प्रायशः सर्वत्र
"अग्निहोत्रं जुहोति" "अभिहोत्रं यज्ञानां" "तस्मादग्निहोत्रमुच्यते" इत्यादावग्निहोत्र शब्दस्या.
न्तोदात्तत्वस्यैव श्रवणात्तस्य च स्वरस्य तत्पुरुषसमास एव संगतेस्तत्पुरुषस्वीकारे च षात्वर्थसामानाषि-
करण्यसिध्यर्थं भावसाधनत्वस्यैवाऽङ्गीकर्तव्यस्वादध्वरमीमांसा कुतूहल वृत्तिमीमांसा कौस्तुभाषुक्तरीया
 
अस्माभिर्भावसाघनत्वमेवाऽङ्गीकृतम् इति ।
२. होमार्थत्वेन इति क
 
३. 'प्रस्मिन्' इति नास्तिक. ४. अनेन समर्प्यते इति ख