This page has not been fully proofread.

भोमांसान्यायप्रकाशः
 
[ नामधेय-
विधिः, न तु भक्षानुवादेन प्राथम्यविधिरित्युक्तं तृतीये ।
 
मेध्यनुवादेन चित्रत्व विधाने फलपदानर्थक्यापत्तेश्च । उभयविधाने
(१) वाक्यभेदः स्यात् । प्रकृतस्य च यागस्य फलाकाङ्क्षाया अनिवृत्तेः ।
विश्वजिन्न्यायेन फलकल्पने गौरवम् । 'दधिमध्वि' त्याद्युत्पत्तिवाक्येनैतस्या.
धिकारवाक्यस्य (२) प्रतिपन्नैकवाक्यताबाधेन वाक्यभेदप्रसङ्गाच्च । चित्रा-
शब्दस्य तु कर्मनामधेयत्वे प्रकृतस्य कर्मणः फलाकाइस्य फलसंबन्धमात्र.
करणान वाक्यभेदः । प्रकृताया इष्टेरनेकद्रव्यकत्वेन चित्राशब्दस्य तत्रोप.
पत्तेः । त्तत्सिद्धं वाक्य मेद्भयाचित्राशब्दः कर्मनामधेयमिति ॥
 
वाध्यम् । तात्पर्यग्राहकत्वाशीकारेऽपि उद्देश्यबोधक सामभ्यन्तर्गतत्वेन एकप्रसरताभङ्ग
दोषस्य दुर्बारत्वात्। भक्षानुवादेनेति । "जैतु होतुश्चमसः" "प्रावभिरभिषुत्याह.
धनीये हुवा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति" "यथाचमसमन्यांश्चमांश्चम-
सिनोभक्षयन्ति, अथैतस्य हारियोजनस्य सर्व एव लिप्सन्त" इत्यादिभिर्यो विहि-
तस्सोमभक्षः तदनुवादेनेत्यर्थः । तृत्तीय इति । तृतीयाध्याय इत्यर्थः । पञ्चमपाद इति
शेषः । वषट्कर्ता होता । येन याज्यायान्ते 'वौषट्' इति वषट्कार उच्चार्यते ।
 
कथञ्चित तदङ्गीकारेऽपि वा फलपदानर्थक्यं तदवस्थमेवेत्याह- मेषोति । ननु मेषी-
यागे फलस्याप्राप्तत्वात् तस्य चित्रत्वस्य चेत्युभयोर्विधानमस्तु, अत ग्राह-उ
इ-उभयेति । 'प्राप्ते
कर्मणि नानेको विधातुं शक्यते गुणः' इति पूर्वमेवोकत्वादिति भावः । प्रकृत-
स्येति । दघि मध्विति वाक्यविहितस्येत्यर्थः । फलाकाङ्क्षाया अनिवृत्तेरिति । उ
स्पत्तिवाक्ये फलाश्रवणात् यस्य कस्यचित् यागस्य च प्रकरणे पाठाभावाच्च उत्पन्नाया
कायश्शान्ती कारणाभावादिति भावः । ननु एतादृशस्थलेषु सति विश्व जिन्न्याये
जाग्रति किमर्थं परिश्राम्यते ? प्रताह - विश्वजिदिति । न्यायोऽयं पूर्व मूलकतैव
निरूपितः । नन्वेतादृशं गौरवं नामधेयत्वाशी करणापेक्षया नातीन दोषमावहतीत्यत ग्राह-
दंघोति । एवञ्च वाक्यभेदपरिहारार्थमेव नामधेयत्वाङ्गीकरणमिति भावः । नामधेयप्र.
योजनञ्च निरूपितमधस्तात् । नामधेयत्वाङ्गीकरणे कथं वाक्यमेदपरिहार: ? प्रत श्राह-
चित्राशब्दस्येति । तर्हि चित्रत्वस्त्रीस्खयोः कथमुपपत्तिः १ तह प्रकृताया इति ।
इण्टेरित्यनेन इष्टिशब्दस्य स्त्रीप्रत्ययान्तत्वात् तदादायैव चित्राशब्दगतस्त्रीप्रत्ययस्या-
प्युपपत्तिरिति ध्वनितम् । द्वितीयं नामधेयत्वकारणं यन्निरूपितं तदुपसंहरति-तत्सिद्ध-
मिति । अनेनैव न्यायेन "त्रिवृत् बहिष्पवमानम्" "पञ्चदशान्याज्यानि"
"सप्तदशानि पृष्ठानि" इत्यादी आज्यपृष्ठवहिष्पवमानशब्दाः कर्मनामधेयानि । तत्र
"बहिष्पवमानशब्दः सोमयागे प्रातस्सवने क्रियमाणस्तोत्र विशेषवाची । श्राज्यपृष्ठशब्दौ
तु क्रमेण प्रातर्माध्यन्दिनसवनयोः क्रियमाणयोः स्तोत्र विशेषयोर्वाचकाविति ध्येयम् ।
स्तोत्राणाममीषामेतत्पदवाच्यत्वे प्रवृत्तिनिमित्तं मीमांसा कौस्तुभे विस्तरेणोपपादितं तत
 
61
 
एवावगन्तव्यम् ।
 
१. वाक्यभेदात् इति ख, ग, घ । २० प्रतीयमाने ।
 
O