This page has been fully proofread once and needs a second look.

१३८
 
[ फर्मनामधेय-
नुपपत्तिश्च । (। [^) ]पशुकामपदस्थायापि स्वरसतः फलपरस्य कामनानुवादत्वे

नर्थ क्यापत्तेध क्यापत्तेश्च। नच नियमतः पश्वर्जनकामना भवति, कामनातः प्रागेव

केनचित् दत्ते पशौ तदभावात् । तथा च पशुकामपदस्य नित्यवच्छ्रवणबाधः।

दैक्षस्योत्पत्तिशिष्टपुंस्त्वावरुद्धत्वेन तत्र स्त्रीत्वविधानानुपपत्तेश्च; श्रामिक्षा-

यागानुवादेन वाजिनविधानवत् । 'कृष्णसारङ्गोनोषीमीयः' इति विशेष वि.

हितेन स्वसन्निधिपठितेन च कृष्णलारङ्गवर्णेनावरुद्धे चित्रत्वस्यानारभ्या-
मीमांसान्यायप्रकाशः
 

 
[commentary]
 
स चाने कविधानकृतवाक्यभेदापेक्षया लघुभूत एव, विध्यावृत्तिरूपस्य दोषस्यात्राभावा.
-
दिव्त्यत आह-कारकस्यापोति पीति। "धेनुर्दक्षिणे" त्यादौ हि करणकारकस्याप्राप्तत्वात्

युक्तं तत्राने कगुणविशिष्टैककारक विधानम् । प्रकृते तूपत्तिवाक्यादेव करणकारकस्यापि

प्राप्तत्वात् विहितस्य पुनर्विधानं न सम्भवतीति भावः । पशुकामपदमप्यस्मिन् पक्षेऽनर्थ
-
प्रायमेवेत्याह - --पशुकामेति । यत्र यत्र कामशब्दः तत्र सर्वत्रापि फलपरत्वमेव तस्य दृष्टं

स्वर्गकामः, स्वाराज्यकाम इत्यादौ, प्रकृते च तत् बाधित्वा अर्जनकामनानुवादकत्वे स

एवैको दोषः, कामनायाः प्राप्तत्वेन चाप्रवृत्ति विशेष करोऽनुवादोऽप्यपरो दोष इत्यर्थः

सापि च कामना न नियमेन सम्भवति, यतस्सान्नूद्येत, किन्तु कदाचित् भवति कदाचि-

न्नेति कथमनुवादोऽपि घटत इत्याह - -नचेति । तद्। तदभावात् कामनाया अभावात्

स्तु पक्षप्राप्ताया एवानुवादः ? तत्राह - --नित्यवदिति । नित्येन तुल्यं नित्यवत् तथा

श्र
वणम् । तस्य बाधः अपाक्षिकस्थले यथा श्रवणं तद्वदेवात्रापि श्रूयते, तद्वाभ्बाध्येतेत्यर्थः

ननु 'श्व्रीहिभिर्यजेते'त्यादौ ब्व्रीहीणां इतरनैरपेक्ष्येण श्रुतस्यापि यागकरणत्वस्य

"यवैर्यजेते" ति वाक्यान्तरपर्यालोचनया यथा पाक्षिकत्वमशीङ्गीक्रियते एवमत्रापि पाक्षि-

क्या एव कामनाया भवत्नुवादः इत्यत आह - -दैक्षस्येति । आामिक्षेति । "वैश्वदे-

व्यामिक्षा" इत्यत्रोत्पत्तिवाक्य विहितेनामिक्षाद्रव्येणावरूद्धे यागे यथा नोत्पन्नशिष्टस्य

वाजिनस्य निवेशो घटते, तथोत्पत्तिवाक्यविहितपुंस्त्वावरुद्धे यागे स्त्रीत्वविधानं न घटत

इत्यर्थः । ननु उत्पत्तिवाक्ये पशुपदस्यैव श्रवणात् तस्य च स्त्रियामपि प्रयोगसम्भवात्

'छागस्य वपाया मेदसः' इति मन्त्रवर्णे छागपदोत्तरं श्रूयमाणस्यापि पुंस्त्वस्थायाना-

भ्याघीधीतेनापि प्रत्यक्षेण विधिना विहितस्त्रीत्वबाकत्वासम्भवात् भवत्येव स्त्रीत्व विधान
-
मित्यत आह- कृष्णसारङ्ग इति । एवं च स्त्रीत्वमात्र विधिसम्भवेऽपि प्रातिपदिकार्थस्थ

चित्रत्वस्याप्राप्तत्वात् नानुवादो घटते, प्राकरणिक गुणावरुद्धत्वाच्च न विधिस्सम्भवति

वस्तुतस्तु उत्पत्तिवाक्यगतपशुशब्दस्य स्त्रीपुमुभयसाधारण्येऽपि 'प्रजोऽग्नीषोमीय'

इति प्राकरणिकवाक्येन पुंस्त्वस्य विहितत्वात् नानेन स्त्रीत्वविधानं सम्भवति । न च
तस्या

तस्या
जत्वरूपगुण विधायकत्वमेव कुतो न स्यादिति वाच्यम्, तस्य मन्त्रवर्णादेव प्राप्त
त्वात्
-
त्वात्
। 'प्राप्ते शास्त्रमर्थव 'दिति न्यायात् । अतश्चानर्थ क्यमेवापद्येतेति भावः

सामान्यशास्त्रेणेति । सामान्यशास्त्रस्य विशेषव्यतिरिक्त विषयत्वस्य दशमाष्टमे निर्णी-

 
 
[^
] कामप.